अक्षर आकार:

श्रीललितास्तवः

Shri Lalitastavah

श्रीललितास्तवः

कलयतु कवितां सरसां कविहृद्यां कालकालकान्ता मे । कमलोद्भवकमलासखकलितप्रणतिः कृपापयोराशिः ॥ १॥ एनोनीरधिनौकामेकान्तवासमौनरतलभ्याम् । एणाङ्कतुल्यवदनामेकाक्षररूपिणीं शिवां नौमि ॥ २॥ ईक्षणनिर्जितहरिणीमीप्सितसर्वार्थदानधौरेयाम् । ईडितविभवां वेदैरीशाङ्कनिवासिनीं स्तुवे देवीम् ॥ ३॥ ललितैः पदविन्यासैर्लज्जां तनुते यदीयपदभक्तः । लघु देवेन्द्रगुरोरपि ललितां तां नौमि सन्ततं भक्त्या ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीललितास्तवः सम्पूर्णः ।