अक्षर आकार:

श्रीललितासहस्रनामस्तोत्रम् शिवकृतम्

Shrilalitasahasranamastotram

श्रीललितासहस्रनामस्तोत्रम् शिवकृतम्

श्रीमहादेव उवाच - हरनेत्रसमुद्भूतः स वह्निर्न महेश्वरम् । पुनर्गन्तुं शशाकाथ कदाचिदपि नारद ॥ १॥ बभूव वडवारूपस्तापयामास मेदिनीम् । ततो ब्रह्मा समागत्य वडवारूपिणं च तम् ॥ २॥ नीत्वा समुद्रं सम्प्रार्थ्यं तत्तोयेऽस्थापयन्मुने । ययुर्देवा निजं स्थानं कामशोकेन मोहिताः ॥ ३॥ समाश्वस्य रतिं स्वामी पुनस्ते जीवितो भवेत् ॥ ४॥ श्रथ प्राह महादेवं पार्वती रुचिरानना । त्रिजगज्जननी स्मित्वा निर्जने तत्र कानने ॥ ५॥ श्रीदेव्युवाच - मामाद्यां प्रकृतिं देव लब्धुं पत्नीं महत्त्तपः । चिरं करोषि तत्कस्मात्कामोऽयं नाशितस्त्वया ॥ ६॥ कामे विनष्टे पत्न्याः किं विद्यते ते प्रयोजनम् । योगिनामेष धर्मो वै यत्कामस्य विनाशनम् ॥ ७॥ इति श्रुत्वा वचस्तस्याः शङ्करश्चकितस्तदा । सन्ध्यायन् ज्ञातवानाद्यां प्रकृतिं पर्वतात्मजाम् ॥ ८॥ ततो निमील्य नेत्राणि प्रहर्षपुलकान्वितः । निरीक्ष्य पार्वतीं प्राह सर्वलोकैकसुन्दरीम् ॥ ९॥ जाने त्वां प्रकृतिं पूर्णामाविर्भूतां स्वलीलया । त्वामेव लब्धुं ध्यानस्थश्चिरं तिष्ठामि कानने ॥ १०॥ अद्याहं कृतकृत्योऽस्मि यत्त्वां साक्षात्परात्पराम् । पुरः पश्यामि चार्वङ्गीं सतीमिव मम प्रियाम् ॥ ११॥ श्रीदेव्युवाच - तव भावेन तुष्टाऽहं सम्भूय हिमवद्वृहे । त्वामेव च पतिं लब्धुं समायाता तवान्तिकम् ॥ १२॥ यो मां यादृशभावेन सम्प्रार्थयति भक्तितः । तस्य तेनैव भावेन पूरयामि मनोरथान् ॥ १३॥ अहं सैव सती शम्भो दक्षस्य च महाध्वरे । विहाय त्वां गता काली भीमा त्रिलोक्यमोहिनी ॥ १४॥ शिव उवाच - यदि मे प्राणतुल्यासि सती त्वं चारुलोचना । तदा यथा महामेघप्रभा सा भीमरूपिणी ॥ १५॥ बभूव दक्षयज्ञस्य विनाशाय दिगम्बरी । काली तथा स्वरूपेण चात्मानं दर्शयस्व माम् ॥ १६॥ इत्युक्ता सा हिमसुता शम्भुना मुनिसत्तमम् । बभूव पूर्ववत्काली स्निग्धाञ्जनचयप्रभा ॥ १७॥ दिगम्बरी क्षरद्रक्ता भीमायतविलोचना । पीनोन्नतकुचद्वन्द्वचारुशोभितवक्षसा ॥ १८॥ गलदापादसंलम्बिकेशपुञ्जभयानका । ललज्जिह्वा ज्वलद्दन्तनखरैरुपशोभिता ॥ १९॥ उद्यत्च्छशाङ्कनिचयैर्मेघपङ्क्तिरिवाम्बरे । आजानुलम्बिमुण्डालिमालयाऽतिविशालया ॥ २०॥ राजमाना महामेघपङक्तिश्चञ्चलया यथा । भुजैश्चतुर्भिर्भूयोच्चैः शोभमाना महाप्रभा ॥ २१॥ विचित्ररत्नविभ्राजन्मुकुटोज्वलमस्तका । तां विलोक्य महादेवः प्राह गद्गदया गिरा ॥ २२॥ रोमाञ्चिततनुर्भक्त्या प्रहृष्टात्मा महामुने । चिरं त्वद्विरहेनेदं निर्दग्धं हृदयं मम ॥ २३॥ त्वमन्तर्यामिनी शक्तिर्हृदयस्था महेश्वरी । आराध्य त्वत्पदाम्भोजं धृत्वा हृदयपङ्कजे ॥ २४॥ त्वद्विच्छेदसमुत्तप्तं हृत्करोमि सुशीतलम् ॥ २५॥ इत्युक्त्वा स महादेवो योगं परममास्थितः । शयितस्तत्पदाम्भोजं दधार हृदये तदा ॥ २६॥ ध्यानानन्देन निष्पन्दशवरूपधरः स्थितः । व्याधूर्णमाननेत्रस्तां ददर्श परमादरः ॥ २७॥ अंशतः गुरतः स्थित्वा पञ्चवक्त्रः कृताञ्जलिः । सहस्रनामभिः कालीं तुष्टाव परमेश्वरीम् ॥ २८॥ शिव उवाच - अनाद्या परमा विद्या प्रधाना प्रकृतिः परा । प्रधानपुरुषाराध्या प्रधानपुरुषेश्वरी ॥ २९॥ प्राणात्मिका प्राणशक्तिः सर्वप्राणहितैषिणी । उमा चोत्तमकेशिन्युत्तमा चोन्मत्तभैरवी ॥ ३०॥ उर्वशी चोन्नता चोग्रा महोग्रा चोन्नतस्तनी । उग्रचण्डोग्रनयना महोग्रा दैत्यनाशिनी ॥ ३१॥ उग्रप्रभावती चोग्रवेगाऽनुग्राऽप्रमर्दिनी । उग्रतारोग्रनयना चोर्ध्वस्थाननिवासिनी ॥ ३२॥ उन्मत्तनयनाऽत्युग्रदन्तोत्तुङ्गस्थलालया । उल्लासिन्युल्लासचित्ता चोत्फल्लनयनोज्जला ॥ ३३॥ उत्फुल्लकमलारूढा कमला कामिनी कला । काली करालवदना कामिनी मुखकामिनी ॥ ३४॥ कोमलाङ्गी कृशाङ्गी च कैटभासुरमर्दिनी । कालिन्दी कमलस्था च कान्ता काननवासिनी ॥ ३५॥ कुलीना निष्कला कृष्णा कालरात्रिस्वरूपिणी । कुमारी कामरूपा च कामिनी कृष्णपिङ्गला ॥ ३६॥ कपिला शान्तिदा शुद्धा शङ्करार्धशरीरिणी । कौमारी कार्त्तिकी दुर्गा कौशिकी कुण्डलोज्जवला ॥ ३७॥ कुलेश्वरी कुलश्रेष्ठा कुण्डलोज्ज्वलमस्तका । भवानी भाविनी वाणी शिवा च शिवमोहिनी ॥ ३८॥ शिवप्रिया शिवाराध्या शिवप्राणैकवल्लभा । शिवपत्नी शिवस्तुत्या शिवानन्दप्रदायिनी ॥ ३९॥ नित्यानन्दमयी नित्या सच्चिदानन्दविग्रहा । त्रैलोक्यजननी शम्भुहृदयस्था सनातनी ॥ ४०॥ सदया निर्दया माया शिवा त्रैलोक्यमोहिनी । ब्रह्मादित्रिदशाराध्या सर्वाभीष्टप्रदायिनी ॥ ४१॥ ब्रह्माणी ब्रह्म गायत्री सावित्री ब्रह्मसंस्तुता । ब्रह्मोपास्या ब्रह्मशक्तिर्ब्रह्मसृष्टिविधायिनी ॥ ४२॥ कमण्डलुकरा सष्टिकर्त्री ब्रह्मस्वरूपिणी । चतुर्भुजात्मिका यज्ञसूत्ररूपा दृढव्रता ॥ ४३॥ हंसारूढा चतुर्वक्त्रा चतुर्वेदाभिसंस्थुता । वैष्णवी पालनकारी महालक्ष्मीर्हरिप्रिया ॥ ४४॥ शङ्खचक्रधरा विष्णुशक्तिर्विष्णुस्वरूपिणी । विष्णुप्रिया विष्णुमाया विष्णुप्राणैकवल्लभा ॥ ४५॥ योगनिद्राऽक्षरा विष्णुमोहिनी विष्णुसंस्तुता । विष्णुसम्मोहनकरी त्रैलोक्यपरिपालिनी ॥ ४६॥ शङ्खिनी चक्रिणी पद्मा पद्मिनी मुसलायुधा । पद्मालया पद्महस्ता पद्ममालादिभूषिता ॥ ४७॥ गरुडस्था चारुरूपा सम्पद्रूपा सरस्वती । विष्णुपार्श्वस्थिता विष्णुपरमाऽऽह्लाददायिनी ॥ ४८॥ सम्पत्तिः सम्पदाधारा सर्वसम्पत्प्रदायिनी । श्रीर्विद्या सुखदा सौख्यदायिनी दुःखनाशिनी ॥ ४९॥ दुःखहन्त्री सुखकरी सुखासीना सुखप्रदा । सुखप्रसन्नवदना नारायणमनोरमा ॥ ५०। नारायणी जगद्धात्री नारायणविमोहिनी । नारायणशरीरस्था वनमालाविभूषिता ॥ ५१॥ दैत्यघ्नी पीतवसना सर्वदैत्यप्रमर्दिनी । वाराही नारसिंही च रामचन्द्रस्वरूपिणी ॥ ५२॥ रक्षोघ्नी काननावासा चाहल्याशापमोचिनी । सेतुबन्धकरी सर्वरक्षःकुलविनाशिनी ॥ ५३॥ सीता पतिव्रता साध्वी रामप्राणैकवल्लभा । अशोककाननावासा लङ्केश्वरविनाशिनी ॥ ५४॥ नीतिः सुनीतिः सुकृति कीर्तिर्मेधा वसुन्धरा । दिव्यमाल्यधरा दिव्या दिव्यगन्धानुलेपना ॥ ५५॥ दिव्यवस्त्रपरीधाना दिव्यस्थाननिवासिनी । माहेश्वरी प्रेतसंस्था प्रेतभूमिनिवासिनी ॥ ५६॥ निर्जनस्था श्मशानस्था भैरवी भीमलोचना । सुघोरनयना घोरा घोररूपा घनप्रभा ॥ ५७॥ घनस्तनी वरा श्यामा प्रेतभूमिकृतालया । खट्वाङ्गधारिणी द्वीपिचर्माम्बरसुशोभना ॥ ५८॥ महाकाली चण्डवक्त्रा चण्डमुण्डविनाशिनी । उद्यानकाननावासा पुष्पोद्यानवनप्रिया ॥ ५९॥ बलिप्रिया मांसभक्ष्या रुधिरासवभक्षिणी । भीमरावा साट्टहासा रणनृत्यपरायणा ॥ ६०॥ असुरा सृक्प्रिया तुष्टा दैत्यदानवमर्दिनी । दैत्यविद्राविणी दैत्यमथनी दैत्यसूदनी ॥ ६१॥ देत्यघ्नी दैत्यहन्त्री च महिषासुरमर्दिनी । रक्तबीजनिहन्त्री च शुम्भासुरविनाशिनी ॥ ६२॥ निशुम्भहन्त्री धूम्राक्षमर्दिनी दुर्गहारिणी । दुर्गासुरनिहन्त्री च शिवदूती महाबला ॥ ६३॥ महाबलवती चित्रवस्त्रा रक्ताम्बराऽमला । विभला ललिता चारुहासा चारुस्त्रिलोचना ॥ ६४॥ अजेया जयदा ज्येष्ठा जयशीलाऽपराजिता । विजया जाह्नवी दुष्टजृम्भिणी जयदायिनी ॥ ६५॥ जगद्रक्षाकरी सर्वजगच्चैतन्यकारिणी । जया जयन्ती जननी जनभक्षणतत्परा ॥ ६६॥ जलरूपा जलस्था च जप्या जापकवत्सला । जाज्वल्यमाना यज्ञाशा जन्मनाशविर्वजिता ॥ ६७॥ जरातीता जगन्माता जगद्रूपा जगन्मयी । जङ्गमा ज्वालिनी जृम्भा स्तम्भिनी दुष्टतापिनी ॥ ६८॥ त्रिपुरघ्नी त्रिनयना महात्रिपुरतापिनी । तृष्णा जातिः पिपासा च बुभुक्षा त्रिपुरा प्रभा ॥ ६९॥ त्वरिता त्रिपुटा त्र्यक्षा तन्वी तापविवीर्जेता । त्रिलोकेशी तीव्रवेगा तीव्रा तिव्रबलाऽलया ॥ ७०॥ निःशङ्का निर्मलाभा च निरातङ्काऽमलप्रभा । विनीता विनयाभिज्ञा विशेषज्ञा विलक्षणा ॥ ७१॥ वरदा वल्लभा विद्युत्प्रभा विनयशालिनी । बिम्बोष्ठी विधुवक्त्रा च विवस्त्रा विनयप्रभा ॥ ७२॥ विश्वेशपत्नी विश्वात्मा विश्वरूपा बलोत्कटा । विश्वेशी विश्ववनिता विश्वमाता विचक्षणा ॥ ७३॥ विदुषी विश्वविदिता विश्वमोहनकारिणी । विश्वमूर्तिर्विश्वधरा विश्वेशपरिपालिनी ॥ ७४॥ विश्वकर्त्री विश्वहर्त्री विश्वपालनतत्परा । विश्वेशहृदयावासा विश्वेश्वरमनोरमा ॥ ७५॥ विश्वहा विश्वनिलया विश्वमाया विभूतिदा । विश्वा विश्वोपकारा च विश्वप्राणात्मिकापि च ॥ ७६॥ विश्वप्रिया विश्वमयी विश्वदुष्टविनाशिनी । दाक्षायणी दक्षकन्या दक्षयज्ञविनाशिनी ॥ ७७॥ विश्वम्भरी वसुमती वसुधा विश्वपावनी । सर्वातिशायिनी सर्वदुःखदारिद्र्यहारिणी ॥ ७८॥ महाविभूतिरव्यक्ता शाश्वती सर्वसिद्धिदा । अचिन्त्याऽचिन्त्यरूपा च केवला परमात्मिका ॥ ७९॥ सर्वज्ञा सर्वविषया सर्वोपरिपरायणा । सर्वस्यार्तिहरा सर्वमङ्गला मङ्गलप्रदा ॥ ८०॥ मङ्गलार्हा महादेवी सर्वमङ्गलदायिका । सर्वान्तरस्था सर्वार्थरूपिणी च निरञ्जना ॥ ८१॥ चिच्छक्तिश्चिन्मयी सर्वविद्या सर्वविधायिनी । शान्तिः शान्तिकरी सौम्या सर्वा सर्वप्रदायिनी ॥ ८२॥ शान्तिः क्षमा क्षेमकरी क्षेत्रज्ञा क्षेत्रवासिनी । क्षणात्मिका क्षीणतनुः क्षीणाङ्गी क्षीणमध्यमा ॥ ८३॥ क्षिप्रगा क्षेमदा क्षिप्ता क्षणदा क्षणवासिनी । वृत्तिर्निवृत्तिर्भूतानां प्रवृत्तिर्वृत्तलोचना ॥ ८४॥ व्योममूर्तिर्व्योमसंस्था व्योमालयकृताश्रया । चन्द्रानना चन्द्रकान्तिश्चन्द्रार्धाङ्कितमस्तका । ८५॥ चन्द्रप्रभा चन्द्रकला शरच्चन्द्रनिभानना । चन्द्रात्मिका चन्द्रमुखी चन्द्रशेखरवल्लभा ॥ ८६॥ चन्द्रशेखरवक्षःस्था चन्द्रलोकीनेवासिनी । चन्द्रशेखरशैलस्था चञ्चला चञ्चलेक्षणा ॥ ८७॥ छिन्नमस्ता छागमांसप्रिया छागबलिप्रिया । ज्योत्स्ना ज्योतिर्मयी सर्वज्यायसी जीवनात्मिका ॥ ८८॥ सर्वकार्यनियन्त्री च सर्वभूतहितैषिणी । गुणातीता गुणमयी त्रिगुणा गुणशालिनी ॥ ८९॥ गुणैकनिलया गौरी गुह्या गोपकुलोद्भवा । गरीयसी गुरुरता गुह्यस्थाननिवासिनी ॥ ९०॥ गुणज्ञा निर्गुणा सर्वगुणार्हा गुहयकाऽम्बिका । गलज्जटा गलत्केशा गलद्रुधिरचर्चिता ॥ ९१॥ गजेन्द्रगमना गन्त्री गीतनृत्यपरायणा । गमनस्था गयाध्यक्षा गणेशजननी तथा ॥ ९२॥ गानप्रिया गानरता गृहस्था गृहिणी परा । गजसंस्था गजारूढा ग्रसन्ती गरुडासना ॥ ९३॥ योगस्था योगिनीगम्या योगचिन्तापरायणा । योगिध्येया योगिवन्द्या योगलभ्या युगात्मिका ॥ ९४॥ योगिज्ञेया योगयुक्ता महायोगेश्वरेश्वरी । योगानुरक्ता युगदा युगान्तजलदप्रभा ॥ ९५॥ युगानुकारिणी यज्ञरूपा सूर्यसमप्रभा । युगान्तानिलवेगा च सर्वयज्ञफलप्रदा ॥ ९६॥ संसारयोनिः संसारव्यापिनी सफलास्पदा । संसारतरुनिःसेव्या संसारार्णवतारिणी ॥ ९७॥ सर्वार्थसाधिका सर्वा संसारव्यापिनी तथा । संसारबन्धकर्त्री च संसारपरिवर्जिता ॥ ९८॥ दुर्निरीक्ष्या सुदुष्प्राप्या भूतिर्भूतिमतीत्यपि । अत्यन्तविभवाऽरूपा महाविभवरूपिणी ॥ ९९॥ शब्दब्रह्मस्वरूपा च शब्दयोनिः परात्परा । भूतिदा भूतिमाता च भूतिस्तन्द्री विभूतिदा ॥ १००॥ भूतान्तरस्था कूटस्था भूतनाथप्रियाङ्गना । भूतमाता भूतनाथा भूतालयनिवासिनी ॥ १०१॥ भूतनृत्यप्रिया भूतसङ्गिनी भूतलाश्रया । जन्ममृत्युजरातीता महापुरुषसङ्गता ॥ १०२॥ भुजगा तामसी व्यक्ता तमोगुणवती तथा । त्रितत्त्वा तत्त्वरूपा च तत्त्वज्ञा तत्त्वकप्रिया ॥ १०३॥ त्र्यम्बका त्र्यम्बकरता शुक्ला त्र्यम्बकरूपिणी । त्रिकालज्ञा जन्महीना रक्ताङ्गी ज्ञानरूपिणी ॥ १०४॥ अकार्या कार्यजननी ब्रह्माख्या ब्रह्मसंस्थिता । वैराग्ययुक्ता विज्ञानगम्या धर्मस्वरूपिणी ॥ १०५॥ सर्वधर्मविधानज्ञा धर्मिष्ठा धर्मतत्परा । धर्मिष्ठपालनकरी धर्मशास्त्रपरायणा ॥ १०६॥ धर्माधर्मविहीना च धर्मजन्यफलप्रदा । धर्मिणी धर्मनिरता धर्मिणामिष्टदायिनी ॥ १०७॥ धन्या धीर्धारणा धीरा धन्वनी धनदायिनी । धनुष्मती धरासंस्था धरणी स्थितिकारिणी ॥ १०८॥ सर्वयोनिर्विश्वयोनिरपांयोनिरयोनिजा । रुद्राणी रुद्रवनिता रुद्रैकादशरूपिणी ॥ १०९॥ रुद्राक्षमालिनी रौद्री भुक्तिमुक्तिफलप्रदा । ब्रह्मोपेन्द्रप्रवन्द्या च नित्यं मुदितमानसा ॥ ११०॥ इन्द्राणी वासवी चैन्द्री विचित्रैरावतस्थिता । सहस्रनेत्रा दिव्याङ्गी दिव्यकेशविलासिनी ॥ १११॥ दिव्याङ्गना दिव्यनेत्रा दिव्यचन्दनचर्चिता । दिव्यालङ्करणा दिव्यश्वेतचामरवीजिता ॥ ११२॥ दिव्यहारा दिव्यपदा दिव्यनूपुरशोभिता । केयूरशोभिता हृष्टा हृष्टचित्तप्रहर्षिणी ॥ ११३॥ सम्प्रहृष्टमना हर्षप्रसन्नवदना तथा । देवेन्द्रवन्द्यपादाब्जा देवेन्द्रपरिपूजिता ॥ ११४॥ रजसा रक्तनयना रक्तपुष्पप्रिया सदा । रक्ताङ्गी रक्तनेत्रा च रक्तोत्पलविलोचना ॥ ११५॥ रक्ताभा रक्तवस्त्रा च रक्तचन्दनचर्चिता । रक्तेक्षणा रक्तभक्ष्या रक्तमत्तोरगाश्रया ॥ ११६॥ रक्तदन्ता रक्तजिह्वा रक्तभक्षणतत्परा । रक्तप्रिया रक्ततृष्टा रक्तपानसुतत्परा ॥ ११७॥ बन्धूकुसुमाभा च रक्तमाल्यानुलेपना । स्फुरद्रक्ताञ्चिततनुः स्फुरत्सूर्यशतप्रभा ॥ ११८॥ स्फुरन्नेत्रा पिङ्गजटा पिङ्गला पिङ्गलेक्षणा । बगला पीतवस्त्रा च पीतपुष्पप्रिया सदा ॥ ११९॥ पीताम्बरा पिबद्रक्ता पीतपुष्पोपशोभिता । शत्रुघ्नी शत्रुसम्मोहजननी शत्रुतापिनी ॥ १२०॥ शत्रुप्रमर्दिनी शत्रुवाक्यस्तम्भनकारिणी । उच्चाटनकरी सर्वदुष्टोत्सारणकारिणी ॥ १२१॥ शत्रुविद्राविणी शत्रुसम्मोहनकरी तथा । विपक्षमर्दनकरी शत्रुपक्षक्षयङ्करी ॥ १२२॥ सर्वदुष्टघातिनी च सर्वदुष्टविनाशिनी । द्विभुजा शूलहस्ता च त्रिशूलवरधारिणी ॥ १२३॥ दुष्टसन्तापजननी दुष्टक्षोभप्रवर्धिनी । दुष्टानां क्षोभसम्बद्धा भक्तक्षोभनिवारिणी ॥ १२४॥ दुष्टसन्तापिनी दुष्टसन्तापपरिमर्दिनी । सन्तापरहिता भक्तसन्तापपरिनाशिनी ॥ १२५॥ अद्वैता द्वैतरहिता निष्कला ब्रह्मरूपिणी । त्रिदशेशी त्रिलोकेशी सर्वेशी जगदीश्वरी ॥ १२६॥ ब्रह्मेशसेवितपदा सर्ववन्द्यपदाम्बुजा । अचिन्त्यरूपचरिता चाचिन्त्यबलविक्रमा ॥ १२७॥ सर्वाचिन्त्यप्रभावा च स्वप्रभावप्रदर्शिनी । अचिन्त्यमहिमाऽचिन्त्यरूपा सौन्दर्यशालिनी ॥ १२८॥ अचिन्त्यवेशशोभा च लोकाचिन्त्यगुणान्विता । अचिन्त्यशक्तिर्दुश्चिन्त्यप्रभावा चिन्त्यरूपिणी ॥ १२९॥ योगीचिन्त्या महाचिन्तानाशिनी चेतनात्मिका । गिरिजा दक्षजा विश्वजनयित्री जगत्प्रसूः ॥ १३०॥ सन्नम्याऽप्रणता सर्वप्रणतार्तिहरी तथा । प्रणतैश्वर्यदा सर्वप्रणताशुभनाशिनी ॥ १३१॥ प्रणतापन्नाशकरी प्रणताशुभमोचनी । सिद्धेश्वरी सिद्धसेव्या सिद्धचारणसेविता ॥ १३२॥ सिद्धिप्रदा सिद्धिकरी सर्वसिद्धगणेश्वरी । अष्टसिद्धिप्रदा सिद्धगणसेव्यपदाम्बुजा ॥ १३३॥ कात्यायनी स्वधा स्वाहा वषड् वौषट्स्वरूपिणी । पितृणां तृप्तिजननी कव्यरुपा सुरेश्वरी ॥ १३४॥ हव्यभोक्त्री हव्यतुष्टा पितृरूपाऽसितप्रिया । कृष्पपक्षप्रपूज्या च प्रेतपक्षसमर्चिता ॥ १३५॥ अष्टहस्ता दशभुजा चाष्टादशभुजान्विता । चतुर्दशभुजाऽसङ्ख्यभुजवल्लीविराजिता ॥ १३६॥ सिंहपृष्ठसमारूढा सहस्रभूजराजिता । भुवनेशी चान्नपूर्णा महात्रिपुरसुन्दरी ॥ १३७॥ त्रिपुरा सुन्दरी सौम्यमुखी सुन्दरलोचना । सुन्दरास्या शुभ्रदंष्ट्रा सुभ्रूः पर्वतनन्दिनी ॥ १३८॥ नीलोत्पलदलश्यामा स्मेरोत्फुल्लमुखाम्बुजा । सत्यसन्धा पद्मवक्त्रा भ्रूकुटीकुटिलानना ॥ १३९॥ विद्याधरी वरारोहा महासन्ध्यास्वरुपिणी । अरुन्धती हिरण्याक्षी सुधूम्राक्षी शुभेक्षणा ॥ १४०॥ श्रुतिः स्मृतिः कृतिर्योगमाया पुण्या पुरातनी । वाग्देवता वेदविद्या ब्रह्मविद्यास्वरूपिणी ॥ १४१॥ वेदशक्तिर्वेदमाता वेदाद्या परमा गतिः । आन्वीक्षिकी तर्कविद्या योगशास्त्रप्रकाशिनी ॥ १४२॥ धूमावती वियन्मूर्तिर्विद्युन्माला विलासिनी । महाव्रता सदानन्दनन्दिनी नगनन्दिनी ॥ १४३॥ सुनन्दा यमुना चण्डी रुद्रचण्डी प्रभावती । पारिजातवनावासा पारिजातवनप्रिया ॥ १४४॥ सुपुष्पगन्धसन्तुष्टा दिव्यपुष्पोपशोभिता । पुष्पकाननसद्वासा पुष्पमालाविलासिनी ॥ १४५॥ पुष्पमाल्यधरा पुष्पगुच्छालङ्कृतदेहिका । प्रतप्तकाञ्चनाभासा शुद्धकाञ्चनमण्डिता ॥ १४६॥ सुवर्णकुण्डलवती स्वर्णपुष्पप्रिया सदा । नर्मदा सिन्धुनिलया समुद्रतनया तथा ॥ १४७॥ षोडशी षोडशभुजा महाभुजङ्गमण्डिता । पातालवासिनी नागी नागेन्द्रकृतभूषणा ॥ १४८॥ नागिनी नागकन्या च नागमाता नगालया । दुर्गाऽऽपत्तारिणी दुर्गदुष्टग्रहनिवारिणी ॥ १४९॥ अभयाऽऽपन्निहन्त्री च सर्वापत्परिनाशिनी । ब्रह्मण्या श्रुतिशास्त्रज्ञा जगतां कारणात्मिका ॥ १५०॥ निष्कारणा जन्महीना मृत्युञ्जयमनोरमा । मृत्युञ्जयहृदावासा मूलाधारनिवासिनी । १५१॥ षट्चक्रसंस्था महती महोत्सवविलासिनी । रोहिणी सुन्दरमुखी सर्वविद्याविशारदा ॥ १५२॥ सदसद्वस्तुरूपा च निष्कामा कामपीडिता । कामातुरा काममत्ता काममानससत्तनुः ॥ १५३॥ कामरूपा च कालिन्दी कचालम्बितविग्रहा । अतसीकुसुमाभासा सिंहपृष्ठनिषेदुषी ॥ १५४॥ युवती यौवनोद्रिक्ता यौवनोद्रिक्तमानसा । अदितिर्देवजननी त्रिदशार्तिविनाशिनी ॥ १५५॥ दक्षिणाऽपूर्ववसना पूर्वकालविवर्जिता । अशोका शोकरहिता सर्वशोकनिवारिणी ॥ १५६॥ अशोककुसुमाभासा शोकदुःखक्षयङ्करी । सर्वयोषित्स्वरूपा च सर्वप्राणिमनोरमा ॥ १५७॥ महाश्चर्या मदाश्चर्या महामोहस्वरूपिणी । महामोक्षकरी मोहकारिणी मोहदायिनी ॥ १५८॥ अशोच्या पूर्णकामा च पूर्णा पूर्णमनोरथा । पूर्णाभिलषिता पूर्णनिशानाथसमानना ॥ १५९॥ द्वादशार्कस्वरूपा च सहस्रार्कसमप्रभा । तेजस्विनी सिद्धमाता चन्द्रा नयनरक्षणा ॥ १६०॥ अपराऽपारमाहात्म्या नित्यविज्ञानशालिनी । विवस्वती हव्यवाहा जातवेदःस्वरूपिणी ॥ १६१॥ स्वैरिणी स्वेच्छविहरा निर्बीजा बीजरूपिणी । अनन्तवर्णाऽनन्ताख्याऽनन्तसंस्था महोदरी ॥ १६२॥ दुष्टभूतापहन्त्री च सद्धृत्तपरिपालिका । कपालिनी पानमत्ता मत्तवारणगामिनी ॥ १६३॥ विन्ध्यस्था विन्ध्यनिलया विन्ध्यपर्वतवासिनी । बन्धुप्रिया जगद्वन्धुः पवित्रा सपवित्रिणी ॥ १६४॥ परामृताऽमृतकला चापमृत्युविनाशिनी । महारजतसङ्काशा रजताद्रिनिवासिनी ॥ १६५॥ काशीविलासिनी काशीक्षेत्ररक्षणतत्परा । योनिरूपा योनिपीठस्थिता योनिस्वरूपिणी ॥ १६६॥ कामोल्लसितचार्वङ्गी कटाक्षक्षेपमोहिनी । कटाक्षक्षेपनिरता कल्पवृक्षस्वरूपिणी ॥ १६७॥ पाशाङ्कुशधरा शक्तिर्धारिणी खेटकायुधा । बाणायुधाऽमोघशस्त्रा दिव्यशस्त्राऽस्रवर्षिणी ॥ १६८॥ महास्त्रजालविक्षेपविपक्षक्षयकारिणी । घण्टिनी पाशिनी पाशहस्ता पाशाङ्कुशायुधा ॥ १६९॥ चित्रसिंहासनगता महासिंहासनस्थिता । मन्त्रात्मिका मन्त्रबीजा मन्त्राधिष्ठातृदेवता ॥ १७०॥ सुरूपाऽनेकरूपा च विरूपा बहुरूपिणी । विरूपाक्षप्रियतमा विरूपाक्षमनोरमा ॥ १७१॥ विरूपाक्षा कोटराक्षी कूटस्था कूटरूपिणी । करालास्या विशालास्या धर्मशास्रार्थपारागा ॥ १७२॥ मूलक्रिया मूलरूपा मूलप्रकृतिरूपिणी । कामाक्षी कमनीया च कामेशी भगमङ्गला ॥ १७३॥ सूभगा भोगिनी भोग्या भाग्यदा सुभगा भगा । श्वेताऽरुणा बिन्दुरूपा वेदयोनिर्ध्वनिक्षणा ॥ १७४॥ अध्यात्मविद्या शास्त्रार्थकुशला शैलनन्दिनी । नगाधिराजपुत्री च नगपुत्री नगोद्भवा ॥ १७५॥ गिरीन्द्रबाला गिरिशप्राणतुल्या मनोरमा । प्रसन्ना चारुवदना प्रसन्नास्या प्रसन्नदा ॥ १७६॥ शिवप्राणा पतिप्राणा पतिसम्मोहकारिणी । मृगाक्षी चञ्चलापाङ्गी सुदृष्टिर्हंसगामिनी ॥ १७७॥ नित्यं कुतूहलपरा नित्यानन्दाऽभिनन्दिता । सत्यविज्ञानरूपा च तत्त्वज्ञानैककारिणी ॥ १७८॥ त्रैलोक्यसाक्षिणी लोकधर्माधर्मप्रदर्शिनी । धर्माऽधर्मविधात्री च शम्भुप्राणात्मिका परा ॥ १७९॥ मेनकागर्भसम्भूता मैनाकभगिनी तथा । श्रीकण्ठा कण्ठहारा च श्रीकण्ठहृदयस्थिता ॥ १८०॥ श्रीकण्ठकण्ठजप्या च नीलकण्ठमनोरमा । कालकूटात्मिका कालकूटभक्षणकारिणी ॥ १८१॥ वर्णमाला सिद्धिकला षट्चक्रक्रमवासिनी । मूलकेलीरता स्वाधिष्ठाना तुर्यनिवासिनी ॥ १८२॥ मणिपूरस्थितिः स्निग्धा कुर्मचक्रपरायणा । अनाहतगतिर्दीपशिखा मणिमयाकृतिः ॥ १८३॥ विशुद्धिचक्रसंस्थाना चाज्ञाचक्राब्जमध्यगा । महाकालप्रिया कालकलनैकविधायिनी । अक्षोभ्यपत्नी सङ्क्षोभनाशिनी ते नमो नमः ॥ १८४॥ श्रीमहादेव उवाच - एवं नामसहस्रेण संस्तुता पर्वतात्मजा । वाक्यमेतन्महेशानमुवाच मुनिसत्तम् ॥ १८५॥ श्रीदेव्युवाच - अहं त्वदर्थे शैलेन्द्रतनयात्वमुपागता । त्वं मे प्राणसमो भर्ता त्वदनन्याऽहमङ्गना ॥ १८६॥ त्वं मदर्थे तपस्तीव्रं सुचिरं कृतवानसि । अहं च तपसाराध्या त्वां लप्स्यामि पुनः पतिम् ॥ १८७॥ श्रीमहादेव उवाच - त्वमाराध्यतमा सर्वजननी प्रकृतिः परा । तवाराध्यो जगत्यत्र विद्यते नैव कोऽपि हि ॥ १८८॥ अहं त्वया निजगुणैरनुग्राह्यो महेश्वरि । प्रार्थनीयस्त्वयि शिवे एष एव वरो मम ॥ १८९॥ यत्र यत्र तवेदं हि कालीरूपं मनोहरम् । आविर्भवति तत्रैव शिवरूपस्य मे हृदि ॥ १९०॥ संस्थातव्यं त्वया लोके ख्याता च शववाहना । भविष्यसि महाकाली प्रसीद जगदम्बिके ॥ १९१॥ श्रीमहादेव उवाच - इत्युक्त्त्वा शम्भुना काली कालमेधसमप्रभा । तथेत्युक्त्त्वा समभवत्पुनर्गौरी यथा पुरा ॥ १९२॥ य इदं पठते देव्या नाम्नां भक्त्या सहस्रकम् । स्तोत्रं श्रीशम्भुना प्रोक्तं स देव्याः समतामियात् ॥ १९३॥ अभ्यर्च्य गन्धपुष्पैश्च धूपदीपैर्मेहश्वरीम् । यः पठेत्स्तोत्रामेतच्च स लभेत्परमं पदम् ॥ १९४॥ अनन्यमनसा देवीं स्तोत्रेणानेन यो नरः । संस्तौति प्रत्यहं तस्य सर्वसिद्धिः प्रजायते ॥ १९५॥ राजानो वशगास्तस्य नश्यन्ति रिपवस्तथा । सिंहव्याघ्रमुखाः सर्वे हिंसका दस्यवस्तथा ॥ १९६॥ दूरादेव पलायन्ते तस्य दर्शनमात्रतः । अव्याहताज्ञः सर्वत्र लभते मङ्गलं महत् । अन्ते दुर्गास्मृतिं लब्ध्वा स्वयं देवीकलामियात् ॥ १९७॥ ॥ इति श्रीमहाभागवते उपपुराणे श्रीशिवकृतं श्रीललितासहस्रनामस्तोत्रं नाम त्रयोविंशतितमोऽध्यायः सम्पूर्णः ॥