अक्षर आकार:

श्रीललितासहस्रनामस्तोत्रम् नारदपुराणान्तर्गतम्

LalitAsahasranAmastotram from Naradapurana

श्रीललितासहस्रनामस्तोत्रम् नारदपुराणान्तर्गतम्

॥ नारदपुराणान्तर्गते सकवच श्रीललितासहस्रनामस्तोत्रम् ॥ सनत्कुमार उवाच- अथा सामावृतिस्थानां शक्तीनां समयेन च । or together ?? अथासामावृतिस्थानां as अथ असां आवृत्तिस्थानां शक्तीनां नाम्नां सहस्रं वक्ष्यामि गुरुध्यानपुरःसरम् ॥ १॥ नाथा नव प्रकाशाद्याः सुभगान्ताः प्रकीर्तिताः । भूम्यादीनि शिवान्तानि विद्धि तत्त्वानि नारद ॥ २॥ गुरुजन्मादिपर्वाणि दर्शान्तानि च सप्त वै । एतानि प्राङ्मनोवृत्त्या चिन्तयेत्साधकोत्तमः ॥ ३॥ गुरुस्तोत्रं जपेच्चापि तद्गतेनान्तरात्मना । नमस्ते नाथ भगवञ्शिवाय गुरुरूपिणे ॥ ४॥ विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह । नवाय नवरूपाय परमार्थैकरूपिणे ॥ ५॥ सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते । स्वतन्त्राय दयाकॢप्तविग्रहाय शिवात्मने ॥ ६॥ परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे । विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥ ७॥ प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे । पुरस्तात्पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः ॥ ८॥ सदा मच्चित्तसदने विधेहि भवदासनम् । इति स्तुत्वा गुरुं भक्त्या परां देवीं विचिन्तयेत् ॥ ९॥ गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥ १०॥ प्रणमामि महादेवीं मातृकां परमेश्वरीम् । कालहृल्लोहलोल्लोहकलानाशनकारिणीम् ॥ ११॥ यदक्षरैकमात्रेऽपि संसिद्धे स्पर्द्धते नरः । रविताक्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः ॥ १२॥ यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् । वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ १३॥ यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् । ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥ १४॥ यदेकादशमाधारं बीजं कोणत्रयोद्भवम् । ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥ १५॥ अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् । ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम् ॥ १६॥ नौमीकाराक्षरोद्धारां सारात्सारां परात्पराम् । प्रणमामि महादेवीं परमानन्दरूपिणीम् ॥ १७॥ अथापि यस्या जानन्ति न मनागपि देवताः । केयं कस्मात्क्व केनेति सरूपारूपभावनाम् ॥ १८॥ वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् । देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम् ॥ १९॥ वर्गानुक्रमयोगेन यस्याख्योमाष्टकं स्थितम् । वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम् ॥ २०॥ कामपूर्णजकाराख्यसुपीठान्तर्न्निवासिनीम् । चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥ २१॥ एतत्स्तोत्रं तु नित्यानां यः पठेत्सुसमाहितः । पूजादौ तस्य सर्वास्ता वरदाः स्युर्न संशयः ॥ २२॥ अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् । येन देवासुरनरजयी स्यात्साधकः सदा ॥ २३॥ सर्वतः सर्वदाऽऽत्मानं ललिता पातु सर्वगा । कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ २४॥ दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा । नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम् ॥ २५॥ तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी । महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ २६॥ वामपार्श्वं सदा पातु इतीमेलरिता ततः । माहेश्वरी दिशं पातु त्वरितं सिद्धदायिनी ॥ २७॥ पातु मामूर्ध्वतः शश्वद्देवता कुलसुन्दरी । अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ २८॥ करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला । देहेन्द्रियमनःप्राणाञ्ज्वालामालिनिविग्रहा ॥ २९॥ पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु । कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ ३०॥ पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा । असत्यात्क्रूरचिन्तातो हिंसातश्चौरतस्तथा । स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति ॥ ३१॥ नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः । तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ ३२॥ सिंहारूढास्तथा पान्तु पान्तु ऋक्षगता अपि । रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ ३३॥ तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगताश्च ताः । भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा ॥ ३४॥ भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् । द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ ३५॥ गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः । असङ्ख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा ॥ ३६॥ सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् । कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः ॥ ३७॥ इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् । यस्य सन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ ३८॥ अथ नाम्नां सहस्रं ते वक्ष्ये सावरणार्चनम् । षोडशानामपि मुने स्वस्वक्रमगतात्मकम् ॥ ३९॥ ललिता चापि वा कामेश्वरी च भगमालिनी । नित्यक्लिन्ना च भेरुण्डा कीर्तिता वह्निवासिनी ॥ ४०॥ वज्रेश्वरी तथा दूती त्वरिता कुलसुन्दरी । नित्या संवित्तथा नीलपताका विजयाह्वया ॥ ४१॥ सर्वमङ्गलिका चापि ज्वालामालिनिसञ्ज्ञिता । चित्रा चेति क्रमान्नित्याः षोडशापीष्टविग्रहाः ॥ ४२॥ कुरुकुल्ला च वाराही द्वे एते चेष्टविग्रहे । वशिनी चापि कामेशी मोहिनी विमलारुणा ॥ ४३॥ तपिनी च तथा सर्वेश्वरीचाप्यथ कौलिनी । मुद्राणन्तनुरिष्वर्णरूपा चापार्णविग्रहा ॥ ४४॥ पाशवर्णशरीरा चाकुर्वर्णसुवपुर्द्धरा । त्रिखण्डा स्थापनी सन्निरोधनी चावगुण्ठनी ॥ ४५॥ सन्निधानेषु चापाख्या तथा पाशाङ्कुशाभिधा । नमस्कृतिस्तथा सङ्क्षोभणी विद्रावणी तथा ॥ ४६॥ आकर्षणी च विख्याता तथैवावेशकारिणी । उन्मादिनी महापूर्वा कुशाथो खेचरी मता ॥ ४७॥ बीजा शक्त्युत्थापना च स्थूलसूक्ष्मपराभिधा । अणिमा लघिमा चैव महिमा गरिमा तथा ॥ ४८॥ प्राप्तिः प्रकामिता चापि चेशिता वशिता तथा । भुक्तिः सिद्धिस्तथैवेच्छा सिद्धिरूपा च कीर्तिता ॥ ४९॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराहीन्द्राणी चामुण्डा महालक्ष्मीस्वरूपिणी ॥ ५०॥ कामा बुद्धिरहङ्कारशब्दस्पर्शस्वरूपिणी । रूपरूपा रसाह्वा च गन्धवित्तधृतिस्तथा ॥ ५१॥ नाभबीजामृताख्या च स्मृतिदेहात्मरूपिणी । कुसुमा मेखला चापि मदना मदनातुरा ॥ ५२॥ रेखा संवेगिनी चैव ह्यङ्कुशा मालिनीति च । सङ्क्षोभिणी तथा विद्राविण्याकर्षणरूपिणी ॥ ५३॥ आह्लादिनीति च प्रोक्ता तथा सम्मोहिनीति च । स्तम्भिनी जम्भिनी चैव वशङ्कर्यथ रञ्जिनी ॥ ५४॥ उन्मादिनी तथैवार्थसाधिनीति प्रकीर्तिता । सम्पत्तिपूर्णा सा मन्त्रमयी द्वन्द्वक्षयङ्करी ॥ ५५॥ सिद्धिः सम्पत्प्रदा चैव प्रियमङ्गलकारिणी । कामप्रदा निगदिता तथा दुःखविमोचिनी ॥ ५६॥ मृत्युप्रशमनी चैव तथा विघ्ननिवारिणी । अङ्गसुन्दरिका चैव तथा सौभाग्यदायिनी ॥ ५७॥ ज्ञानैश्वर्यप्रदा ज्ञानमयी चैव च पञ्चमी । विन्ध्यवासनका घोरस्वरूपा पापहारिणी ॥ ५८॥ तथानन्दमयी रक्षारूपेप्सितफलप्रदा । जयिनी विमला चाथ कामेशी वज्रिणी भगा ॥ ५९॥ त्रैलोक्यमोहना स्थाना सर्वाशापरिपूरणी । सर्वसंक्षोभणगता सौभाग्यप्रदसंस्थिता ॥ ६०॥ सवार्थसाधकागारा सर्वरोगहरास्थिता । सर्वरक्षाकरास्थाना सर्वसिद्धिप्रदस्थिता ॥ ६१॥ सर्वानन्दमयाधारबिन्दुस्थानशिवात्मिका । प्रकृष्टा च तथा गुप्ता ज्ञेया गुप्ततरापि च ॥ ६२॥ सम्प्रदायस्वरूपा च कुलकौलनिगर्भगा । रहस्यापरापरप्राकृत्तथैवातिरहस्यका ॥ ६३॥ त्रिपुरा त्रिपुरेशी च तथैव पुरवासिनी । श्रीमालिनी च सिद्धान्ता महात्रिपुरसुन्दरी ॥ ६४॥ नवरत्नमयद्वीपनवखण्डविराजिता । कल्पकोद्यानसंस्था च ऋतुरूपेन्द्रियार्चका ॥ ६५॥ कालमुद्रा मातृकाख्या रत्नदेशोपदेशिका । तत्त्वाग्रहाभिधा मूर्तिस्तथैव विषयद्विपा ॥ ६६॥ देशकालाकारशब्दरूपा सङ्गीतयोगिनी । समस्तगुप्तप्रकटसिद्धयोगिनिचक्रयुक् ॥ ६७॥ वह्निसूर्येन्दुभूताह्वा तथात्माष्टाक्षराह्वया । पञ्चधार्चास्वरूपा च नानाव्रतसमाह्वया ॥ ६८॥ निषिद्धाचाररहिता सिद्धचिह्नस्वरूपिणी । चतुर्द्धा कूर्मभागस्था नित्याद्यर्चास्वरूपिणी ॥ ६९॥ दमनादिसमभ्यर्चा षट्कर्मसिद्धिदायिनी । तिथिवारपृथग्द्रव्यसमर्चनशुभावहा ॥ ७०॥ वायोश्यनङ्गकुसुमा तथैवानङ्गमेखला । अनङ्गमदनानङ्गमदनातुरसाह्वया ॥ ७१॥ मददेगिनिका चैव तथा भुवनपालिनी । शशिलेखा समुद्दिष्टा गतिलेखाह्वया मता ॥ ७२॥ श्रद्धा प्रीती रतिश्चैव धृतिः कान्तिर्मनोरमा । मनोहरा समाख्याता तथैव हि मनोरथा ॥ ७३॥ मदनोन्मादिनी चैव मोदिनी शङ्खिनी तथा । शोषिणी चैव शङ्कारी सिञ्जिनी सुभगा तथा ॥ ७४॥ पूषाचेद्वासुमनसा रतिः प्रीतिर्धृतिस्तथा । ऋद्धिः सौम्या मरीचिश्च तथैव ह्यंशुमालिनी ॥ ७५॥ शशिनी चाङ्गिरा छाया तथा सम्पूर्णमण्डला । तुष्टिस्तथामृताख्या च डाकिनी साथ लोकपा ॥ ७६॥ बटुकेभास्वरूपा च दुर्गा क्षेत्रेशरूपिणी । कामराजस्वरूपा च तथा मन्मथरूपिणी ॥ ७७॥ कन्दर्प्परूपिणी चैव तथा मकरकेतना । मनोभवस्वरूपा च भारती वर्णरूपिणी ॥ ७८॥ मदना मोहिनी लीला जम्भिनी चोद्यमा शुभा । ह्लादिनी द्राविणी प्रीती रती रक्ता मनोरमा ॥ ७९॥ सर्वोन्मादा सर्वमुखा ह्यभङ्गा चामितोद्यमा । अनल्पाव्यक्तविभवा विविधाक्षोभविग्रहा ॥ ८०॥ रागशक्तिर्द्वेषशक्तिस्तथा शब्दादिरूपिणी । नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा ॥ ८१॥ मदद्रवा द्राविणी च द्रविणी चेति कीर्तिता । मदाविला मङ्गला च मन्मथानी मनस्विनी ॥ ८२॥ मोहा मोदा मानमयी माया मन्दा मितावती । विजया विमला चैव शुभा विश्वा तथैव च ॥ ८३॥ विभूतिर्विनता चैव विविधा विनता क्रमात् । कमला कामिनी चैव किराता कीर्तिरूपिणी ॥ ८४॥ कुट्टिनी च समुद्दिष्टा तथैव कुलसुन्दरी । कल्याणी कालकोला च डाकिनी शाकिनी तथा ॥ ८५॥ लाकिनी काकिनी चैव राकिनी काकिनी तथा । इच्छाज्ञाना क्रियाख्या चाप्यायुधाष्टकधारिणी ॥ ८६॥ कपर्दिनी समुद्दिष्टा तथैव कुलसुन्दरी । ज्वालिनी विस्फुलिङ्गा च मङ्गला सुमनोहरा ॥ ८७॥ कनका किनवा विद्या विविधा च प्रकीर्तिता । मेषा वृषाह्वया चैव मिथुना कर्कटा तथा ॥ ८८॥ सिंहा कन्या तुला कीटा चापा च मकरा तथा । कुम्भा मीना च सारा च सर्वभक्षा तथैव च ॥ ८९॥ विश्वात्मा विविधोद्भूतचित्ररूपा च कीर्तिता । निःसपत्ना निरातङ्का याचनाचिन्त्यवैभवा ॥ ९०॥ रक्ता चैव ततः प्रोक्ता विद्याप्राप्तिस्वरूपिणी । हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा ॥ ९१॥ निरञ्जना रागवती तथैव मदनावती । मेखला द्राविणी वेगवती चैव प्रकीर्तिता ॥ ९२॥ कमला कामिनी कल्पा कला च कलिताद्भुता । किराता च तथा काला कदना कौशिका तथा ॥ ९३॥ कम्बुवादनिका चैव कातरा कपटा तथा । कीर्तिश्चापि कुमारी च कुङ्कुमा परिकीर्तिता ॥ ९४॥ भञ्जिनी वेगिनी नागा चपला पेशला सती । रतिः श्रद्धा भोगलोला मदोन्मत्ता मनस्विनी ॥ ९५॥ विह्वला कर्षिणी लोला तथा मदनमालिनी । विनोदा कौतुका पुण्या पुराणा परिकीर्तिता ॥ ९६॥ वागीशी वरदा विश्वा विभवा विघ्नकारिणी । बीजविघ्नहरा विद्या सुमुखी सुन्दरी तथा ॥ ९७॥ सारा च सुमना चैव तथा प्रोक्ता सरस्वती । समया सर्वगा विद्धा शिवा वाणी च कीर्तिता ॥ ९८॥ दूरसिद्धा तथा प्रोक्ताथो विग्रहवती मता । नादा मनोन्मनी प्राणप्रतिष्ठारुणवैभवा ॥ ९९॥ प्राणापाना समाना च व्यानोदाना च कीर्तिता । नागा कूर्मा च कृकला देवदत्ता धनञ्जया ॥ १००॥ फट्कारी किङ्कराराध्या जया च विजया तथा । हुङ्कारी खेचरी चण्डं छेदिनी क्षपिणी तथा ॥ १०१॥ स्त्रीहुङ्कारी क्षेमकारी चतुरक्षररूपिणी । श्रीविद्यामतवर्णाङ्गी काली याम्या नृपार्णका ॥ १०२॥ भाषा सरस्वती वाणी संस्कृता प्राकृता परा । बहुरूपा चित्तरूपा रम्यानन्दा च कौतुका ॥ १०३॥ त्रयाख्या परमात्माख्याप्यमेयविभवा तथा । वाक्स्वरूपा बिन्दुसर्गरूपा विश्वात्मिका तथा ॥ १०४॥ तथा त्रैपुरकन्दाख्या ज्ञात्रादित्रिविधात्मिका । आयुर्लक्ष्मीकीर्तिभोगसौन्दर्यारोग्यदायिका ॥ १०५॥ ऐहिकामुष्मिकज्ञानमयी च परिकीर्तिता । जीवाख्या विजयाख्या च तथैव विश्वविन्मयी ॥ १०६॥ हृदादिविद्या रूपादिभानुरूपा जगद्वपुः । विश्वमोहनिका चैव त्रिपुरामृतसञ्ज्ञिका ॥ १०७॥ सर्वाप्यायनरूपा च मोहिनी क्षोभणी तथा । क्लेदिनी च समाख्याता तथैव च महोदया ॥ १०८॥ सम्पत्करी हलक्षार्णा सीमामातृतनू रतिः । प्रीतिर्मनोभवा वापि प्रोक्ता वाराधिपा तथा ॥ १०९॥ त्रिकूटा चापि षट्कूटा पञ्चकूटा विशुद्धगा । अनाहतगता चैव मणिपूरकसंस्थिता ॥ ११०॥ स्वाधिष्ठानसमासीनाधारस्थाज्ञासमास्थिता । षट्त्रिंशत्कूटरूपा च पञ्चाशन्मिथुनात्मिका ॥ १११॥ पादुकादिकसिद्धीशा तथा विजयदायिनी । कामरूपप्रदा वेतालरूपा च पिशाचिका ॥ ११२॥ विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिका । विशाला मदना तुष्टा कालकण्ठी महाभया ॥ ११३॥ माहेन्द्री शङ्खिनी चैन्द्री मङ्गला वटवासिनी । मेखला सकला लक्ष्मीर्मालिनी विश्वनायिका ॥ ११४॥ सुलोचना सुशोभा च कामदा च विलासिनी । कामेश्वरी नन्दिनी च स्वर्णरेखा मनोहरा ॥ ११५॥ प्रमोदा रागिणी सिद्धा पद्मिनी च रतिप्रिया । कल्याणदा कलादक्षा ततश्च सुरसुन्दरी ॥ ११६॥ विभ्रमा वाहका वीरा विकला कोरका कविः । सिंहनादा महानादा सुग्रीवा मर्कटा शठा ॥ ११७॥ बिडालाक्षा बिडालास्या कुमारी खेचरी भवा । मयूरा मङ्गला भीमा द्विपवक्त्रा खरानना ॥ ११८॥ मातङ्गी च निशाचारा वृषग्राहा वृकानना । सैरिभास्या गजमुखा पशुवक्त्रा मृगानना ॥ ११९॥ क्षोभका मणिभद्रा च क्रीडका सिंहचक्रका । महोदरा स्थूलशिखा विकृतास्या वरानना ॥ १२०॥ चपला कुक्कुटास्या च पाविनी मदनालसा । मनोहरा दीर्घजङ्घा स्थूलदन्ता दशानना ॥ १२१॥ सुमुखा पण्डिता क्रुद्धा वराहास्या सटामुखा । कपटा कौतुका काला किङ्करा कितवा खला ॥ १२२॥ भक्षका भयदा सिद्धा सर्वगा च प्रकीर्तिता । जया च विजया दुर्गा भद्रा भद्रकरी तथा ॥ १२३॥ अम्बिका वामदेवी च महामायास्वरूपिणी । विदारिका विश्वमयी विश्वा विश्वविभञ्जिता ॥ १२४॥ वीरा विक्षोभिणी विद्या विनोदा बीजविग्रहा । वीतशोका विषग्रीवा विपुला विजयप्रदा ॥ १२५॥ विभवा विविधा विप्रा तथैव परिकीर्तिता । मनोहरा मङ्गला च मदोत्सिक्ता मनस्विनी ॥ १२६॥ मानिनी मधुरा माया मोहिनी च तथा स्मृता । भद्रा भवानी भव्या च विशालाक्षी शुचिस्मिता ॥ १२७॥ ककुभा कमला कल्पा कलाथो पूरणी तथा । नित्या चाप्यमृता चैव जीविता च तथा दया ॥ १२८॥ अशोका ह्यमला पूर्णा पूर्णा भाग्योद्यता तथा । विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥ १२९॥ कामिनी खेचरी गर्वा पुराणा परमेश्वरी । गौरी शिवा ह्यमेया च विमला विजया परा ॥ १३०॥ पवित्रा पद्मिनी विद्या विश्वेशी शिववल्लभा । अशेषरूपा ह्यानन्दाम्बुजाक्षी चाप्यनिन्दिता ॥ १३१॥ वरदा वाक्यदा वाणी विविधा वेदविग्रहा । विद्या वागीश्वरी सत्या संयता च सरस्वती ॥ १३२॥ निर्मलानन्दरूपा च ह्यमृता मानदा तथा । पूषा चैव तथा पुष्टिस्तुष्टिश्चापि रतिर्धृतिः ॥ १३३॥ शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूर्णा पूर्णामृता कामदायिनीन्दुकलात्मिका ॥ १३४॥ तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बाधिनी धारिणी क्षमा ॥ १३५॥ धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीः स्वरूपा कपिला हव्यकव्यवहा तथा ॥ १३६॥ घस्मरा विश्वकवला लोलाक्षी लोलजिह्विका । सर्वभक्षा सहस्राक्षी निःसङ्गा च गतिप्रिया ॥ १३७॥ अचिन्त्या चाप्रमेया च पूर्णरूपा दुरासदा । सर्वा संसिद्धिरूपा च पावनीत्येकरूपिणी ॥ १३८॥ तथा यामलवेधाख्या शाक्ते वेदस्वरूपिणी । तथा शाम्भववेधा च भावनासिद्धिसूचिनी ॥ १३९॥ वह्निरूपा तथा दस्रा ह्यमाविध्ना भुजङ्गमा । षण्मुखा रविरूपा च माता दुर्गा दिशा तथा ॥ १४०॥ धनदा केशवा चापि यमी चैव हरा शशा । अश्विनी च यमी वह्निरूपा धात्रीति कीर्तिता ॥ १४१॥ चन्द्रा शिवादितिर्जीवा सर्पिणी पितृरूपिणी । अर्यम्णा च भगा सूर्या त्वाष्ट्रिमारुतिसञ्ज्ञिका ॥ १४२॥ इन्द्राग्निरूपा मित्रा चापीन्द्राणी निरृतिर्जला । वैश्वदेवी हरितभूर्वासवी वरुणा जया ॥ १४३॥ अहिर्बुध्न्या पूषणी च तथा कारस्करामला । उदुम्बरा जम्बुका च खदिरा कृष्णरूपिणी ॥ १४४॥ वंशा च पिप्पला नागा रोहिणा च पलाशका । पक्षका च तथाम्बष्ठा बिल्वा चार्जुनरूपिणी ॥ १४५॥ विकङ्कता च ककुभा सरला चापि सर्जिका । बञ्जुला पनसार्का च शमी हलिप्रियाम्रका ॥ १४६॥ निम्बा मधूकसञ्ज्ञा चाप्यश्वत्था च गजाह्वया । नागिनी सर्पिणी चैव शुनी चापि बिडालिकी ॥ १४७॥ छागी मार्जारिका मूषी वृषभा माहिषी तथा । शार्दूली सैरिभी व्याघ्री हरिणी च मृगी शुनी ॥ १४८॥ कपिरूपा च गोघण्टा वानरी च नराश्विनी । नगा गौर्हस्तिनी चेति तथा षट्चक्रवासिनी ॥ १४९॥ त्रिखण्डा तीरपालाख्या भ्रामणी द्रविणी तथा । सोमा सूर्या तिथिर्वारा योगार्क्षा करणात्मिका ॥ १५०॥ यक्षिणी तारणा व्योमशब्दाद्या प्राणिनी च धीः । क्रोधिनी स्तम्भिनी चण्डोच्चण्डा ब्राह्म्यादिरूपिणी ॥ १५१॥ सिंहस्था व्याघ्रगा चैव गजाश्वगरुडस्थिता । भौमाप्या तैजसी वायुरूपिणी नाभसा तथा ॥ १५२॥ एकवक्त्रा चतुर्वक्त्रा नववक्त्रा कलानना । पञ्चविंशतिवक्त्रा च षड्विंशद्वदना तथा ॥ १५३॥ ऊनपञ्चाशदास्या च चतुःषष्टिमुखा तथा । एकाशीतिमुखा चैव शताननसमन्विता ॥ १५४॥ स्थूलरूपा सूक्ष्मरूपा तेजोविग्रहधारिणी । वृणावृत्तिस्वरूपा च नाथावृत्तिस्वरूपिणी ॥ १५५॥ तत्त्वावृत्तिस्वरूपापि नित्यावृत्तिवपुर्द्धरा ॥ १५६॥ अङ्गावृत्तिस्वरूपा चाप्यायुधावृत्तिरूपिणी । गुरुपङ्क्तिस्वरूपा च विद्यावृत्तितनुस्तथा ॥ १५७॥ ब्रह्माद्यावृत्तिरूपा च परा पश्यन्तिका तथा । मध्यमा वैखरी शीर्षकण्ठताल्वोष्ठदन्तगा ॥ १५८॥ जिह्वामूलगता नासागतोरःस्थलगामिनी । पदवाक्यस्वरूपा च वेदभाषास्वरूपिणी ॥ १५९॥ सेकाख्या वीक्षणाख्या चोपदेशाख्या तथैव च । व्याकुलाक्षरसङ्केता गायत्री प्रणवादिका ॥ १६०॥ जपहोमार्चनध्यानयन्त्रतर्पणरूपिणी । सिद्धसारस्वता मृत्युञ्जया च त्रिपुरा तथा ॥ १६१॥ गारुडा चान्नपूर्णा चाप्यश्वारूढा नवात्मिका । गौरी च देवी हृदया लक्षदा च मतङ्गिनी ॥ १६२॥ निष्कत्रयपदा चेष्टावादिनी च प्रकीर्तिता । राजलक्ष्मीर्महालक्ष्मीः सिद्धलक्ष्मीर्गवानना ॥ १६३॥ इत्येवं ललितादेव्या दिव्यं नामसहस्रकम् । सर्वार्थसिद्धिदं प्रोक्तं चतुर्वर्गफलप्रदम् ॥ १६४॥ एतन्नित्यमुषःकाले यो जपेच्छुद्धमानसः । स योगी ब्रह्मविज्ज्ञानी शिवयोगी तथाऽऽत्मवित् ॥ १६५॥ द्विरावृत्त्या प्रजपतो ह्यायुरारोग्यसम्पदः । लोकानुरञ्जनं नारीनृपावर्जनकर्म च ॥ १६६॥ अपृथक्त्वेन सिद्ध्यन्ति साधकस्यास्य निश्चितम् । त्रिरावृत्त्यास्य वै पुंसो विश्वं भूयाद्वशेऽखिलम् ॥ १६७॥ चतुरावृत्तितश्चास्य समीहितमनारतम् । फलत्येव प्रयोगार्हो लोकरक्षाकरो भवेत् ॥ १६८॥ पञ्चावृत्त्या नरा नार्यो नृपा देवाश्च जन्तवः । भजन्त्येनं साधकं च देव्यामाहितचेतसः ॥ १६९॥ षडावृत्त्या तन्मयः स्यात्साधकश्चास्य सिद्धयः । अचिरेणैव देवीनां प्रसादात्सम्भवन्ति च ॥ १७०॥ सप्तावृत्त्यारिरोगादिकृत्यापस्मारनाशनम् । अष्टावृत्त्या नरो भूपान्निग्रहानुग्रहक्षमः ॥ १७१॥ नवावृत्त्या मन्मथाभो विक्षोभयति भूतलम् । दशावृत्त्या पठेन्नित्यं वाग्लक्ष्मीकान्तिसिद्धये ॥ १७२॥ रुद्रा वृत्त्याखिलर्द्धिश्च तदायत्तं जगद्भवेत् । अर्कावृत्त्या सिद्धिभिः स्याद्दिग्भिर्मर्त्यो हरोपमः ॥ १७३॥ विश्वावृत्त्या तु विजयी सर्वतः स्यात्सुखी नरः । शक्रावृत्त्याखिलेष्टाप्तिः सर्वतो मङ्गलं भवेत् ॥ १७४॥ तिथ्यावृत्त्याखिलानिष्टानयत्नादाप्नुयान्नरः । षोडशावृत्तितो भूयान्नरः साक्षान्महेश्वरः ॥ १७५॥ विश्वं स्रष्टुं पालयितुं संहर्तुं च क्षमो भवेत् । मण्डलं मासमात्रं वा यो जपेद्यद्यदाशयः ॥ १७६॥ तत्तदेवाप्नुयात्सत्यं शिवस्य वचनं यथा । इत्येतत्कथितं विप्र नित्यावृत्त्यर्चनाश्रितम् ॥ १७७॥ नाम्नां सहस्रं मनसोऽभीष्टसम्पादनक्षमम् ॥ १७८॥ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे बृहदुपाख्याने सकवच श्रीललितासहस्रनामस्तोत्रं सम्पूर्णम् ॥ ८९॥ 89th chapter of first part of Naradiyapurana