अक्षर आकार:

श्रीललितापुष्पाञ्जलिस्तोत्रम्

shrIlalitApuShpA~njalistotram

श्रीललितापुष्पाञ्जलिस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ ॥ श्रीललितात्रिपुरसुन्दर्यै नमः ॥ ॐ समस्तमुनियक्षकिम्पुरुषसिद्धविद्याधर- ग्रहासुरसुराप्सरोगणमुखैर्गणैः सेविते! । निवृत्तितिलकाम्बराप्रकृतिशान्तिविद्याकला- कलापमधुराकृते कलित एष पुष्पाञ्जलिः ॥ १॥ त्रिवेदकृतविग्रहे, त्रिविधकृत्यसन्धायिनि, त्रिरूपसमवायिनि त्रिपुरमार्गसञ्चारिणि! । त्रिलोचनकुटुम्बिनि त्रिगुणसंविदुद्युत्पदे त्रयि, त्रिपुरसुन्दरि, त्रिजगदीशि! पुष्पाञ्जलिः ॥ २॥ पुरन्दरजलाधिपान्तककुबेररक्षोहर- प्रभञ्जनधनञ्जयप्रभृतिवन्दनानन्दिते! । प्रवालपदपीठीकानिकटनित्यवर्तिस्वभू- विरिञ्चिविहितस्तुते! विहित एष पुष्पाञ्जलिः ॥ ३॥ यदानतिबलादहङ्कृतिरुदेति विद्यावय- स्तपोद्रविणरूपसौरभकवित्वसंविन्मयि! । जरामरणजन्मजं भयमुपैति तस्यै समा- खिलसमीहितप्रसवभूमि! तुभ्यं नमः ॥ ४॥ निरावरणसंविदुद्भ्रमपरास्तभेदोल्लसत्- परात्परचिदेकतावरशरीरिणि, स्वैरिणि! । रसायनतरङ्गिणीरुचितरङ्गसञ्चारिणि!, प्रकामपरिपूरिणि! प्रकृत एष पुष्पाञ्जलिः ॥ ५॥ तरङ्गयति सम्पदं तदनुसंहरत्यापदं सुखं वितरति श्रियं परिचिनोति हन्ति द्विषः । क्षिणोति दुरितानि यत् प्रणतिरम्ब! तस्यै सदा शिवङ्करि! शिवे पदे, शिवपुरन्ध्रि तुभ्यं नमः ॥ ६॥ शिवे, शिवसुशीतलामृततरङ्गगन्धोल्लस- न्नवावरणदेवते!, नवनवामृतस्पन्दिनी! । गुरुक्रमपुरस्कृते! गुणशरीरनित्योज्ज्वले! षडङ्गपरिवारिते! कलित एष पुष्पाञ्जलिः ॥ ७॥ त्वमेव जननी पिता त्वमथ बन्धवस्त्वं सखा त्वमायुरपरा त्वमाभरणमात्मनस्त्वं कलाः । त्वमेव वपुषः स्थितिस्त्वमखिला यतिस्त्वं गुरुः प्रसीद परमेश्वरि! प्रणतपात्रि, तुभ्यं नमः ॥ ८॥ कञ्जासनादिसुरवृन्दलसत्किरीटकोटिप्रघर्षणसमुज्ज्वलदङ्घ्रिपीठे । त्वामेव यामि शरणं विगतान्यभावं दीनं विलोकय यदार्द्रविलोकनेन ॥ ९॥