अक्षर आकार:

श्रीललिताम्बिका दिव्याष्टोत्तरशतनामस्तोत्रम्

Shri Lalitambika Divyashtottarashatanama Stotram

श्रीललिताम्बिका दिव्याष्टोत्तरशतनामस्तोत्रम्

शिवकामसुदर्यम्बाष्टोत्तरशतनामस्तोत्रम् च ॥ पूर्व पीठिका ॥ श्री षण्मुख उवाच । वन्दे विघ्नेश्वरं शक्तिं वन्दे वाणीं विधिं हरिम् । वन्दे लक्ष्मीं हरं गौरीं वन्दे माया महेश्वरम् ॥ १॥ वन्दे मनोन्मयीं देवीं वन्दे देवं सदाशिवम् । वन्दे परशिवं वन्दे श्रीमत्त्रिपुरसुन्दरीम् ॥ २॥ पञ्चब्रह्मासनासीनां सर्वाभीष्टार्थसिद्धये । सर्वज्ञ ! सर्वजनक ! सर्वेश्वर ! शिव ! प्रभो ! ॥ ३॥ नाम्नामष्टोत्तरशतं श्रीदेव्याः सत्यमुत्तमम् । श्रोतुमिच्छाम्यऽहं तात! नामसारात्मकं स्तवम् ॥ ४॥ श्रीशिव उवाच । तद्वदामि तव स्नेहाच्छृणु षण्मुख ! तत्त्वतः । महामनोन्मनी शक्तिः शिवशक्तिः शिवङ्करी । शिवश्ङ्करी इच्छाशक्तिः क्रियाशक्तिः ज्ञानशक्तिस्वरूपिणी ॥ १॥ शान्त्यातीता कला नन्दा शिवमाया शिवप्रिया । सर्वज्ञा सुन्दरी सौम्या सच्चिदानन्दविग्रहा ॥ २॥ परात्परामयी बाला त्रिपुरा कुण्डली शिवा । रुद्राणी विजया सर्वा सर्वाणी भुवनेश्वरी ॥ ३॥ कल्याणी शूलिनी कान्ता महात्रिपुरसुन्दरी । मालिनी मानिनी शर्वा मग्नोल्लासा च मोहिनी ॥ ४॥ माहेश्वरी च मातङ्गी शिवकामा शिवात्मिका । कामाक्षी कमलाक्षी च मीनाक्षी सर्वसाक्षिणी ॥ ५॥ उमादेवी महाकाली श्यामा सर्वजनप्रिया । चित्परा चिद्घनानन्दा चिन्मया चित्स्वरूपिणी ॥ ६॥ महासरस्वती दुर्गा ज्वाला दुर्गाऽतिमोहिनी । नकुली शुद्धविद्या च सच्चिदानन्दविग्रहा ॥ ७॥ सुप्रभा स्वप्रभा ज्वाला इन्द्राक्षी विश्वमोहिनी । महेन्द्रजालमध्यस्था मायामयविनोदिनी ॥ ८॥ शिवेश्वरी वृषारूढा विद्याजालविनोदिनी । मन्त्रेश्वरी महालक्ष्मीर्महाकाली फलप्रदा ॥ ९॥ चतुर्वेदविशेषज्ञा सावित्री सर्वदेवता । महेन्द्राणी गणाध्यक्षा महाभैरवमोहिनी ॥ १०॥ महामयी महाघोरा महादेवी मदापहा । महिषासुरसंहन्त्री चण्डमुण्डकुलान्तका ॥ ११॥ चक्रेश्वरी चतुर्वेदा सर्वादिः सुरनायिका । षड्शास्त्रनिपुणा नित्या षड्दर्शनविचक्षणा ॥ १२॥ कालरात्रिः कलातीता कविराजमनोहरा । शारदा तिलका तारा धीरा शूरजनप्रिया ॥ १३॥ उग्रतारा महामारी क्षिप्रमारी रणप्रिया । अन्नपूर्णेश्वरी माता स्वर्णकान्तितटिप्रभा ॥ १४॥ स्वरव्यञ्जनवर्णाढ्या गद्यपद्यादिकारणा । पदवाक्यार्थनिलया बिन्दुनादादिकारणा ॥ १५॥ मोक्षेशी महिषी नित्या भुक्तिमुक्तिफलप्रदा । विज्ञानदायिनी प्राज्ञा प्रज्ञानफलदायिनी ॥ १६॥ अहङ्कारा कलातीता पराशक्तिः परात्परा । नाम्नामष्टोत्तरशतं श्रीदेव्याः परमाद्भुतम् ॥ १७॥ ॥ फलश्रुति ॥ सर्वपापक्षय करं महापातकनाशनम् । सर्वव्याधिहरं सौख्यं सर्वज्वरविनाशनम् ॥ १॥ ग्रहपीडाप्रशमनं सर्वशत्रुविनाशनम् । आयुरारोग्यधनदं सर्वमोक्षशुभप्रदम् ॥ २॥ देवत्वममरेशत्वं ब्रह्मत्वं सकलप्रदम् । अग्निस्तम्भं जलस्तम्भं सेनास्तम्भादिदायकम् ॥ ३॥ शाकिनीडाकिनीपीडा हाकिन्यादिनिवारणम् । देहरक्षाकरं नित्यं परतन्त्रनिवारणम् ॥ ४॥ मन्त्रं यन्त्रं महातन्त्रं सर्वसिद्धिप्रदं नृणाम् । सर्वसिद्धिकरं पुंसामदृश्यत्वाकरं वरम् ॥ ५॥ सर्वाकर्षकरं नित्यं सर्वस्त्रीवश्यमोहनम् । मणिमन्त्रौषधीनां च सिद्धिदं शीघ्रमेव च ॥ ६॥ भयश्चौरादिशमनं दुष्टजन्तुनिवारणम् । पृथिव्यादिजनानां च वाक्स्थानादिपरो वशम् ॥ ७॥ नष्टद्रव्यागमं सत्यं निधिदर्शनकारणम् । सर्वथा ब्रह्मचारीणां शीघ्रकन्याप्रदायकम् ॥ ८॥ सुपुत्रफलदं शीघ्रमश्वमेधफलप्रदम् । योगाभ्यासादि फलदं श्रीकरं तत्त्वसाधनम् ॥ ९॥ मोक्षसाम्राज्यफलदं देहान्ते परमं पदम् । देव्याः स्तोत्रमिदं पुण्यं परमार्थं परमं पदम् ॥ १०॥ विधिना विष्णुना दिव्यं सेवितं मया च पुरा । सप्तकोटिमहामन्त्रपारायणफलप्रदम् ॥ ११॥ चतुर्वर्गप्रदं नृणां सत्यमेव मयोदितम् । नाम्नामष्टोत्तरशतं यच्छाम्यऽहं सुखप्रदम् ॥ १२॥ कल्याणीं परमेश्वरीं परशिवां श्रीमत्त्रिपुरसुन्दरीं मीनाक्षीं ललिताम्बिकामनुदिनं वन्दे जगन्मोहिनीम् । चामुण्डां परदेवतां सकलसौभाग्यप्रदां सुन्दरीं देवीं सर्वपरां शिवां शशिनिभां श्री राजराजेश्वरीम् ॥ इति श्रीमन्त्रराजकल्पे मोक्षपादे स्कन्देश्वरसंवादे श्रीललितादिव्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । The stotra is also titled as shivakAmasundaryambAShTottarashatanAmastotram in Nataraja Naama Manjari p 218