अक्षर आकार:

श्रीललिताम्बिका दिव्याष्टोत्तरशतनामस्तोत्रम्

Shri Lalitambika Divyashtottarashatanama Stotram

श्रीललिताम्बिका दिव्याष्टोत्तरशतनामस्तोत्रम्

शिवकामसुन्दर्यम्बाष्टोत्तरशतनामावलिः च ॐ महामनोन्मन्यै नमः । ॐ शक्त्यै नमः । ॐ शिवशक्त्यै नमः । ॐ शिवङ्कर्यै नमः । ॐ इच्छाशक्त्यै नमः । ॐ क्रियाशक्त्यै नमः । ॐ ज्ञानशक्तिस्वरूपिण्यै नमः । ॐ शान्त्यातीता कलायै नमः । ॐ नन्दायै नमः । ॐ शिवमायायै नमः । १० ॐ शिवप्रियायै नमः । ॐ सर्वज्ञायै नमः । ॐ सुन्दर्यै नमः । ॐ सौम्यायै नमः । ॐ सच्चिदानन्दविग्रहायै नमः । ॐ परात्परामय्यै नमः । ॐ बालायै नमः । ॐ त्रिपुरायै नमः । ॐ कुण्डल्यै नमः । ॐ शिवायै नमः । २० ॐ रुद्राण्यै नमः । ॐ विजयायै नमः । ॐ सर्वायै नमः । ॐ सर्वाण्यै नमः । ॐ भुवनेश्वर्यै नमः । ॐ कल्याण्यै नमः । ॐ शूलिन्यै नमः । ॐ कान्तायै नमः । ॐ महात्रिपुरसुन्दर्यै नमः । ॐ मालिन्यै नमः । ३० ॐ मानिन्यै नमः । ॐ शर्वायै नमः । ॐ मग्नोल्लासायै नमः । ॐ मोहिन्यै नमः । ॐ माहेश्वर्यै नमः । ॐ मातङ्ग्यै नमः । ॐ शिवकामायै नमः । ॐ शिवात्मिकायै नमः । ॐ कामाक्ष्यै नमः । ॐ कमलाक्ष्यै नमः । ४० ॐ मीनाक्ष्यै नमः । ॐ सर्वसाक्षिण्यै नमः । ॐ उमादेव्यै नमः । ॐ महाकाल्यै नमः । ॐ श्यामायै नमः । ॐ सर्वजनप्रियायै नमः । ॐ चित्परायै नमः । ॐ चिद्घनानन्दायै नमः । ॐ चिन्मयायै नमः । ॐ चित्स्वरूपिण्यै नमः । ५० ॐ महासरस्वत्यै नमः । ॐ दुर्गायै नमः । ॐ ज्वालायै नमः । ॐ दुर्गाऽतिमोहिन्यै नमः । ॐ नकुल्यै नमः । ॐ शुद्धविद्यायै नमः । ॐ सच्चिदानन्दविग्रहायै नमः । ॐ सुप्रभायै नमः । ॐ स्वप्रभायै नमः । ॐ ज्वालायै नमः । ६० ॐ इन्द्राक्ष्यै नमः । ॐ विश्वमोहिन्यै नमः । ॐ महेन्द्रजालमध्यस्थायै नमः । ॐ मायामयविनोदिन्यै नमः । ॐ शिवेश्वर्यै नमः । ॐ वृषारूढायै नमः । ॐ विद्याजालविनोदिन्यै नमः । ॐ मन्त्रेश्वर्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ महाकाल्यै नमः । ७० ॐ फलप्रदायै नमः । ॐ चतुर्वेदविशेषज्ञायै नमः । ॐ सावित्र्यै नमः । ॐ सर्वदेवतायै नमः । ॐ महेन्द्राण्यै नमः । ॐ गणाध्यक्षायै नमः । ॐ महाभैरवमोहिन्यै नमः । ॐ महामय्यै नमः । ॐ महाघोरायै नमः । ॐ महादेव्यै नमः । ८० ॐ मदापहायै नमः । ॐ महिषासुरसंहन्त्र्यै नमः । ॐ चण्डमुण्डकुलान्तकायै नमः । ॐ चक्रेश्वरी चतुर्वेदायै नमः । ॐ सर्वाद्यै नमः । ॐ सुरनायिकायै नमः । ॐ षड्शास्त्रनिपुणायै नमः । ॐ नित्यायै नमः । ॐ षड्दर्शनविचक्षणायै नमः । ॐ कालरात्र्यै नमः । ९० ॐ कलातीतायै नमः । ॐ कविराजमनोहरायै नमः । ॐ शारदातिलकायै नमः । ॐ तारायै नमः । ॐ धीरायै नमः । ॐ शूरजनप्रियायै नमः । ॐ उग्रतारायै नमः । ॐ महामार्यै नमः । ॐ क्षिप्रमार्यै नमः । ॐ रणप्रियायै नमः । १०० ॐ अन्नपूर्णेश्वरी मातायै नमः । ॐ स्वर्णकान्तितटिप्रभायै नमः । ॐ स्वरव्यञ्जनवर्णाढ्यायै नमः । ॐ गद्यपद्यादिकारणायै नमः । ॐ पदवाक्यार्थनिलयायै नमः । ॐ बिन्दुनादादिकारणायै नमः । ॐ मोक्षेशी महिषी नित्यायै नमः । ॐ भुक्तिमुक्तिफलप्रदायै नमः । ॐ विज्ञानदायी प्राज्ञायै नमः । ॐ प्रज्ञानफलदायिन्यै नमः । ११० ॐ अहङ्कारा कलातीतायै नमः । ॐ पराशक्तिः परात्परायै नमः । ११२ इति श्रीमन्त्रराजकल्पे मोक्षपादे स्कन्देश्वरसंवादे श्रीललितादिव्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । There are 112 names as mentioned in the scan. The nAmAvalI is also titled as shivakAmasundaryambAShTottarashatanAmAvaliH in Nataraja Naama Manjari p 220