अक्षर आकार:

श्रीललिताम्बापरमेश्वरस्तुतिः

Shri Lalitambaparameshvarastutih

श्रीललिताम्बापरमेश्वरस्तुतिः

कल्याणशैलधन्वा करधृतकुम्भाक्षमालिकामुद्रः । कलयतु मम सन्तोषं करिचर्मधरः कृपापयोराशिः ॥ १॥ एकात्मकत्वधिषणामेधयतीमीशजीवयोर्नमताम् । एकान्तवासलभ्यामेकां पुण्यावलिं नुमः शम्भोः ॥ २॥ ईशोऽर्धवपुर्यस्या ईप्सितपङ्क्तिर्यदङ्घ्रिनतसुलभा । ईकाररूपिणीं तामीश्वरपत्नीं हृदा सदा कलये ॥ ३॥ लभ्यन्तेऽखिलविभवा लब्धावसरैर्यदीयमन्त्रजपे । लक्ष्मीगीर्विनुता सा लक्ष्या भूयान्मदीयचित्तस्य ॥ ४॥ ह्रीङ्कारपद्मभृङ्गौ ह्रीङ्कारावृत्तिशीलनरसुलभौ । ह्रीङ्कारगिरिमृगेन्द्रौ ह्रीङ्कारेणैव भावयामि शिवौ ॥ ५॥ हरतादाशु जडत्वं हरिदधिपाराध्यपादपाथोजः । हरिणाङ्ककलितचूडो हृतवर्ष्मार्धः कुलाद्रिकन्यकया ॥ ६॥ सत्यं ज्ञानमितीमे सकलाम्नाया वदन्ति यद्रूपम् । सद्गुरुमुखैकवेद्यां सन्मतिदां नौमि तां परामनिशम् ॥ ७॥ कर्मभिरात्मानुगणैः कलितामलभावचित्तकञ्जातैः । कतिपयपुरुषवरेण्यैः कथमपि बुद्धं नमामि शशिमौलिम् ॥ ८॥ हतरिपुवर्गैः शान्तैर्हरिहयपद्मोद्भवादिपदविमुखैः । हंसकरैः परमाद्यैर्हस्ताम्बुजपूजितं नमामि हरम् ॥ ९॥ ललितां कवित्वसरणिं लभते मूकोऽपि यत्कृपालेशात् । लङ्केशाहितविनुतां लम्बोदरमातरं नमस्यामि ॥ १०॥ ह्रीङ्कारगेहगृहिणौ ह्रीङ्कारपयःपयोधिकल्पतरू । ह्रीङ्कारवनमयूरौ ह्रीङ्कारशरीरिणौ शिवौ वन्दे ॥ ११॥ सम्यङ्निरुध्य चेतः सकलानि निगृह्य करणानि । सततं यतिभिर्हृदये समाधिभाव्यां नमामि ललिताम्बाम् ॥ १२॥ कणभुक्कपिलाराध्यः कथिताधिकसौख्यदानकृतदीक्षः । करविधृतहरिणबालः कलाभिवृद्‍ध्यै ममास्तु परमेशः ॥ १३॥ ललनाभिस्त्रिदशानां ललितैर्गीतैः स्तुतात्मचारित्राम् । लसदलकफालदेशां लभ्यां योगैर्नमामि जगदम्बाम् ॥ १४॥ ह्रीङ्कारसौधराजौ ह्रीङ्काराम्भोधिपूर्णसितकिरणौ । ह्रीङ्कारवाच्यरूपौ ह्रीन्निष्कुटकोकिलौ शिवौ कलये ॥ १५॥ आदौ यन्मनुवर्णैर्घटिता रचिता स्तुतिर्येयम् । सा ललिता तामूरीकुर्यादव्याजकरुणाङ्गी ॥ १६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीललिताम्बापरमेश्वरस्तुतिः सम्पूर्णा ।