अक्षर आकार:

श्रीललिताम्बापरमेश्वरस्तवः

Shri Lalitambaparameshvarastavah

श्रीललिताम्बापरमेश्वरस्तवः

कलयतु कन्याणततिं कमलासखपद्मयोनिमुखवन्द्यः । करिमुखषण्मुखयुक्तः कामेशस्त्रिपुरसुन्दरीनाथः ॥ १॥ एकैवाहं जगतीत्यायोधनमध्य अब्रवीदादौ । शुम्भं प्रति सा पायादाद्या शक्तिः कृपापयोराशिः ॥ २॥ ईषदिति मन्यते यत्पदभक्तः शम्भुविष्णुमुखपदवीः । सा मे निश्चलविरतिं दद्याद्विषयेषु विष इवात्यन्तम् ॥ ३॥ लभते परात्मविद्यां सुदृढामेवाशु यत्पदासक्तः । तां नौमि बोधरूपामाद्यां विद्यां शिवाजमुखसेव्याम् ॥ ४॥ ह्रीमान्भवेत्सुरेशस्तद्गुरुरपि यत्पदाब्जभक्तस्य । लक्ष्मीं गिरं च दृष्ट्वा सा मामव्यात्तयोः प्रदानेन ॥ ५॥ हसति विधुं हासेन प्रवालमपि पञ्चशाखमार्दवतः । अधरेण बिम्बमव्यात्सा मा सोमार्धमूर्धपुण्यततिः ॥ ६॥ सकलाम्नायशिरोभिस्तात्पर्येणैव गीयते रूपम् । यस्याः सावतु सततं गङ्गाधरपूर्वपुण्यपरिपाठी ॥ ७॥ कलिमलनिवारणव्रतकृतदीक्षः कालसर्वगर्वहरः । करणवशीकरणपटुप्राभवदः पातु पार्वतीनाथः ॥ ८॥ हरतु तमो हार्दें मे हालाहलराजमानगलदेशः । हंसमनुप्रतिपाद्यः परहंसाराध्यपादपाथोजः ॥ ९॥ ललनाः सुरेश्वराणां यत्पादपाथोजमर्चयन्ति मुदा । सा मे मनसि विहारं रचयतु राकेन्दुगर्वहरवदना ॥ १०॥ ह्रीमन्तः कलयति यो मूलं मूलं समस्तलक्ष्मीनाम् । तं चक्रवर्तिनोऽपि प्रणमन्ति च यान्ति तस्य भृत्यत्वम् ॥ सदनं प्रभवति वाचां यन्मूर्तिध्यानतो हि मूकोऽपि । सरसां सालङ्कारां सा मे वाचं ददातु शिवमहिषी ॥ १२॥ करकलितपाशसृणिशरशरासनः कामधुक्प्रणम्राणाम् । कामेश्वरीहृदम्बुजभानुः पायाद्युवा कोऽपि ॥ १३॥ लब्ध्वा स्वयं पुमर्थांश्चतुरः किञ्चात्मभक्तवर्येभ्यः । दद्याद्यत्पदभक्तः सा मयि करुणां करोतु कामेशी ॥ १४॥ ह्रीङ्कारजपपराणां जीवन्मुक्तिं च भुक्तिं च । या प्रददात्यचिरात्तां नौमि श्रीचक्रराजकृतवसतिम् ॥ १५॥ श्रीमातृपदपयोजासक्तस्वान्तेन केनचिद्यतिना । रचिता स्तुतिरियमवनौ पठतां भक्त्या ददाति शुभपङ्क्तिम् ॥ १६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीललिताम्बापरमेश्वरस्तवः सम्पूर्णः ।