अक्षर आकार:

श्रीललितालकारादिशतनामस्तोत्रम्

Shri Lalita Lakaradi Shatanama Stotram

श्रीललितालकारादिशतनामस्तोत्रम्

श्रीललितात्रिपुरसुन्दर्यै नमः । श्रीललितालकारादिशतनामस्तोत्रसाधना । विनियोगः - ॐ अस्य श्रीललितालकारादिशतनाममालामन्त्रस्य श्रीराजराजेश्वरो ॠषिः । अनुष्टुप्छन्दः । श्रीललिताम्बा देवता । क ए ई ल ह्रीं बीजम् । स क ल ह्रीं शक्तिः । ह स क ह ल ह्रीं उत्कीलनम् । श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगः । ॠष्यादि न्यासः - ॐ श्रीराजराजेश्वरोॠषये नमः- शिरसि । ॐ अनुष्टुप्छन्दसे नमः- मुखे । ॐ श्रीललिताम्बादेवतायै नमः- हृदि । ॐ क ए ई ल ह्रीं बीजाय नमः- लिङ्गे । ॐ स क ल ह्रीं शक्त्तये नमः- नाभौ । ॐ ह स क ह ल ह्रीं उत्कीलनाय नमः- सर्वाङ्गे । ॐ श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगाय नमः- अञ्जलौ । करन्यासः - ॐ ऐं क ए ई ल ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं ह स क ह ल ह्रीं तर्जनीभ्यां नमः । ॐ सौः स क ल ह्रीं मध्यमाभ्यां नमः । ॐ ऐं क ए ई ल ह्रीं अनामिकाभ्यां नमः । ॐ क्लीं ह स क ह ल ह्रीं कनिष्ठिकाभ्यां नमः । ॐ सौं स क ल ह्रीं करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः - ॐ ऐं क ए ई ल ह्रीं हृदयाय नमः । ॐ क्लीं ह स क ह ल ह्रीं शिरसे स्वाहा । ॐ सौं स क ल ह्रीं शिखायै वषट् । ॐ ऐं क ए ई ल ह्रीं कवचाय हुम् । ॐ क्लीं ह स क ह ल ह्रीं नेत्रत्रयाय वौषट् । ॐ सौं स क ल ह्रीं अस्त्राय फट् । ध्यानम् । बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥ मानसपूजनम् । ॐ लं पृथिव्यात्मकं गन्धं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं श्रीललितात्रिपुराप्रीतये घ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं श्रीललितात्रिपुराप्रीतये दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीललितात्रिपुराप्रीतये निवेदयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः ॥ श्रीललितात्रिपुरसुन्दर्यै नमः । श्रीललितालकारादिशतनामस्तोत्रसाधना । पूर्वपीठिका - कैलासशिखरासीनं देवदेवं जगद्गरूम् । पप्रच्छेशं परानन्दं भैरवी परमेश्वरम् ॥ १॥ श्रीभैरव्युवाच । कौलेश ! श्रोतुमिच्छामि सर्वमन्त्रोत्तमोत्तमम् । ललिताया शतनाम सर्वकामफलप्रदम् ॥ २॥ श्रिभैरवोवाच । श‍ृणु देवी महाभागे स्तोत्रमेतदनुत्तमं पठनद्धारणादस्य सर्वसिद्धीश्वरो भवेत् ॥ ३॥ षट्कर्माणि सिद्ध्यन्ति स्तवस्यास्य प्रसादतः । गोपनीयं पशोरग्रे स्वयोनिमपरे यथा ॥ ४॥ विनियोगः । ललिताया लकारादि नामशतकस्य देवि ! । राजराजेश्वरो ऋषिः प्रोक्तो छन्दोऽनुष्टुप् तथा ॥ ५॥ देवता ललितादेवी षट्कर्मसिद्ध्यर्थे तथा । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ६॥ वाक्कामशक्त्तिबीजेन करषडङ्गमाचरेत् । प्रयोगे बालात्र्यक्षरी योजयित्वा जपं चरेत् ॥ ७॥ अथ मूल श्रीललितालकारादिशतनामस्तोत्रम् । ललिता लक्ष्मी लोलाक्षी लक्ष्मणा लक्ष्मणार्चिता । लक्ष्मणप्राणरक्षिणी लाकिनी लक्ष्मणप्रिया ॥ १॥ लोला लकारा लोमशा लोलजिह्वा लज्जावती । लक्ष्या लाक्ष्या लक्षरता लकाराक्षरभूषिता ॥ २॥ लोललयात्मिका लीला लीलावती च लाङ्गली । लावण्यामृतसारा च लावण्यामृतदीर्घिका ॥ ३॥ लज्जा लज्जामती लज्जा ललना ललनप्रिया । लवणा लवली लसा लाक्षकी लुब्धा लालसा ॥ ४॥ लोकमाता लोकपूज्या लोकजननी लोलुपा । लोहिता लोहिताक्षी च लिङ्गाख्या चैव लिङ्गेशी ॥ ५॥ लिङ्गगीति लिङ्गभवा लिङ्गमाला लिङ्गप्रिया । लिङ्गाभिधायिनी लिङ्गा लिङ्गनामसदानन्दा ॥ ६॥ लिङ्गामृतप्रिता लिङ्गार्चनप्रिता लिङ्गपूज्या । लिङ्गरूपा लिङ्गस्था च लिङ्गालिङ्गनतत्परा ॥ ७॥ लतापूजनरता च लतासाधकतुष्टिदा । लतापूजकरक्षिणी लतासाधनसध्दिदा ॥ ८॥ लतागृहनिवाकसिनी लतापूज्या लताराध्या । लतापुष्पा लतारता लताधारा लतामयी ॥ ९॥ लतास्पर्शनसन्तुष्टा लताऽऽलिङ्गनहर्षिता । लताविद्या लतासारा लताऽऽचारा लतानिधी ॥ १०॥ लवङ्गपुष्पसन्तुष्टा लवङ्गलतामध्यस्था । लवङ्गलतिकारूपा लवङ्गहोमसन्तुष्टा ॥ ११॥ लकाराक्षारपूजिता च लकारवर्णोद्भवा । लकारवर्णभूषिता लकारवर्णरूचिरा ॥ १२॥ लकारबीजोद्भवा तथा लकाराक्षरस्थिता । लकारबीजनिलया लकारबीजसर्वस्वा ॥ १३॥ लकारवर्णसर्वाङ्गी लक्ष्यछेदनतत्परा । लक्ष्यधरा लक्ष्यघूर्णा लक्षजापेनसिद्धदा ॥ १४॥ लक्षकोटिरूपधरा लक्षलीलाकलालक्ष्या । लोकपालेनार्चिता च लाक्षारागविलेपना ॥ १५॥ लोकातीता लोपामुद्रा लज्जाबीजस्वरूपिणी । लज्जाहीना लज्जामयी लोकयात्राविधायिनी ॥ १६॥ लास्यप्रिया लयकरी लोकलया लम्बोदरी । लघिमादिसिद्धदात्री लावण्यनिधिदायिनी । लकारवर्णग्रथिता लम्बीजा ललिताम्बिका ॥ १७॥ फलश्रुतिः । इति ते कथितं ! गुह्याद्गुह्यतरं परम् । प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि । यः पठेत्साधकश्रेष्ठो त्रैलोक्यविजयी भवेत् ॥ १॥ सर्वपापिविनिर्ममुक्तः स याति ललितापदम् । शून्यागारे शिवारण्ये शिवदेवालये तथा ॥ २॥ शून्यदेशे तडागे च नदीतीरे चतुष्पथे । एकलिङ्गे ऋतुस्नातागेहे वेश्यागृहे तथा ॥ ३॥ पठेदष्टोत्तरशतनामानि सर्वसिद्धये । साधको वाञ्छां यत्कुर्यात्तत्तथैव भविष्यति ॥ ४॥ बह्माण्डगोलके याश्च याः काश्चिज्जगतीतले । समस्ताः सिद्धयो देवी ! करामलकवत्सदा ॥ ५॥ साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः । स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ६॥ अयुतावर्त्तनाद्देवि ! पुरश्चर्याऽस्य गीयते । पुरश्चर्यायुतः स्तोत्रः सर्वकर्मफलप्रदः ॥ ७॥ सहस्रं च पठेद्यस्तु मासार्ध साधकोत्तमः । दासीभूतं जगत्सर्वं मासार्धाद्भवति ध्रुवम् ॥ ८॥ नित्यं प्रतिनाम्ना हुत्वा पालशकुसुमैर्नरः । भूलोकस्थाः सर्वकन्याः सर्वलोकस्थितास्तथा ॥ ९॥ पातालस्थाः सर्वकन्याः नागकन्याः यक्षकन्याः । वशीकुर्यान्मण्डलार्धात्संशयो नात्र विद्यते ॥ १०॥ अश्वत्थमूले पठेत्शतवार ध्यानपूर्वकम् । तत्क्षणाद्व्याधिनाशश्च भवेद्देवी ! न संशयः ॥ ११॥ शून्यागारे पठेत्स्तोत्रं सहस्रं ध्यानपूर्ववकम् । लक्ष्मी प्रसीदति ध्रुवं स त्रैलोक्यं वशिष्यति ॥ १२॥ प्रेतवस्त्रं भौमे ग्राह्यं रिपुनाम च कारयेत् । प्राणप्रतिष्ठा कृत्वा तु पूजां चैव हि कारयेत् ॥ १३॥ श्मशाने निखनेद्रात्रौ द्विसहस्रं पठेत्ततः । जिहवास्तम्भनमाप्नोति सद्यो मूकत्वमाप्नुयात् ॥ १४॥ श्मशाने पठेत् स्तोत्रं अयुतार्ध सुबुद्धिमान् । शत्रुक्षयो भवेत् सद्यो नान्यथा मम भाषितम् ॥ १५॥ प्रेतवस्त्रं शनौ ग्राह्यं प्रतिनाम्ना सम्पुटितम् । शत्रुनाम लिखित्वा च प्राणप्रतिष्ठां कारयेत् ॥ १६॥ ततः ललितां सम्पूज्यय कृष्णधत्तूरपुष्पकैः । श्मशाने निखनेद्रात्रौ शतवारं पठेत् स्तोत्रम् ॥ १७॥ ततो मृत्युमवाप्नोति देवराजसमोऽपि सः । श्मशानाङ्गारमादाय मङ्गले शनिवारे वा ॥ १८॥ प्रेतवस्त्रेण संवेष्ट्य बध्नीयात् प्रेतरज्जुना । दशाभिमन्त्रितं कृत्वा खनेद्वैरिवेश्मनि ॥ १९॥ सप्तरात्रान्तरे तस्योच्चाटनं भ्रामणं भवेत् । कुमारी पूजयित्वा तु यः पठेद्भक्तितत्परः ॥ २०॥ न किञ्चिद्दुर्लभं तस्य दिवि वा भुवि मोदते । दुर्भिक्षे राजपीडायां सग्रामे वैरिमध्यके ॥ २१॥ यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः । तत्र तत्राभयं तस्य भवत्येव न संशयः ॥ २२॥ वामपार्श्वे समानीय शोधितां वरकामिनीम् । जपं कृत्वा पठेद्यस्तु सिद्धिः करे स्थिता ॥ २३॥ दरिद्रस्तु चतुर्दश्यां कामिनीसङ्गमैः सह । अष्टवारं पठेद्यस्तु कुबेरसदृशो भवेत् ॥ २४॥ श्रीललिता महादेवीं नित्यं सम्पूज्य मानवः । प्रतिनाम्ना जुहुयात्स धनराशिमवाप्नुयात् ॥ २५॥ नवनीत चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि । वन्ध्यां पुत्रप्रदं देवि ! नात्र कार्या विचारणा ॥ २६॥ कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे । बहुपुत्रवती नारी सुभगा जायते ध्रुवम ॥ २७॥ उग्र उग्रं महदुग्रं स्तवमिदं ललितायाः । सुविनीताय शान्ताय दान्तायातिगुणाय च ॥ २८॥ भक्त्ताय ज्येष्ठपुत्राय गरूभक्त्तिपराय च । भक्तभक्ताय योग्याय भक्तिशक्तिपराय च ॥ २९॥ वेश्यापूजनयुक्ताय कुमारीपूजकाय च । दुर्गाभक्ताय शैवाय कामेश्वरप्रजापिने ॥ ३०॥ अद्वैतभावयुक्ताय शक्तिभक्तिपराय च । प्रदेयं शतनामाख्यं स्वयं ललिताज्ञया ॥ ३१॥ खलाय परतन्त्राय परनिन्दापराय च । भ्रष्टाय दुष्टसत्त्वाय परीवादपराय च ॥ ३२॥ शिवाभक्त्ताय दुष्टाय परदाररताय च । वेश्यास्त्रीनिन्दकाय च पञ्चमकारनिन्दके ॥ ३३॥ न स्त्रोत्रं दर्शयेद्देवी ! मम हत्याकरो भवेत् । तस्मान्न दापयेद्देवी ! मनसा कर्मणा गिरा ॥ ३४॥ अन्यथा कुरुते यस्तु स क्षीणायुर्भवेद्ध्रुवम । पुत्रहारी च स्त्रीहारी राज्यहारी भवेद्ध्रुवम ॥ ३५॥ मन्त्रक्षोभश्च जायते तस्य मृत्युर्भविष्यति । क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा ॥ ३६॥ क्रमदीक्षायुतो देवी ! क्रमाद् राज्यमवाप्नुयात् । क्रमदीक्षासमायुक्तः कल्पोक्तसिद्धिभाग् भवेत् ॥ ३७॥ विधेर्लिपिं तु सम्मार्ज्य किङ्करत्व विसृज्य च । सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ ३८॥ क्रमदीक्षायुतो देवी ! मम समो न संशयः । गोपनीयं गोपनीयं गोपनीयं सदाऽनघे ॥ ३९॥ स दीक्षितः सुखी साधुः सत्यवादी नजितेन्द्रयः । स वेदवक्ता स्वाध्यायी सर्वानन्दपरायणाः ॥ ४०॥ स्वस्मिन्ललिता सम्भाव्य पूजयेज्जगदम्बिकाम् । त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ॥ ४१॥ गुरुरूपं शिवं ध्यात्वा शिवरूपं गुरुं स्मरेत् । सदाशिवः स एव स्यान्नात्र कार्या विचारणा ॥ ४२॥ इति श्रीकौलिकार्णवे श्रीभैरवीसंवादे षट्कर्मसिद्धदायक श्रीमल्ललिताया लकारादिशतनामस्तोत्रं सम्पूर्णम् ।