अक्षर आकार:

श्रीललितालकारादिअष्टोत्तरशतनामावली

shrIlalitAlakArAdiaShTottarashatanAmAvalI

श्रीललितालकारादिअष्टोत्तरशतनामावली

श्रीललितात्रिपुरसुन्दर्यै नमः । श्रीललितालकारादिशतनामस्तोत्रसाधना । विनियोगः - ॐ अस्य श्रीललितालकारादिशतनाममालामन्त्रस्य श्रीराजराजेश्वरो ॠषिः । अनुष्टुप्छन्दः । श्रीललिताम्बा देवता । क ए ई ल ह्रीं बीजम् । स क ल ह्रीं शक्तिः । ह स क ह ल ह्रीं उत्कीलनम् । श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगः । ॠष्यादि न्यासः - ॐ श्रीराजराजेश्वरोॠषये नमः- शिरसि । ॐ अनुष्टुप्छन्दसे नमः- मुखे । ॐ श्रीललिताम्बादेवतायै नमः- हृदि । ॐ क ए ई ल ह्रीं बीजाय नमः- लिङ्गे । ॐ स क ल ह्रीं शक्त्तये नमः- नाभौ । ॐ ह स क ह ल ह्रीं उत्कीलनाय नमः- सर्वाङ्गे । ॐ श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगाय नमः- अञ्जलौ । करन्यासः - ॐ ऐं क ए ई ल ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं ह स क ह ल ह्रीं तर्जनीभ्यां नमः । ॐ सौः स क ल ह्रीं मध्यमाभ्यां नमः । ॐ ऐं क ए ई ल ह्रीं अनामिकाभ्यां नमः । ॐ क्लीं ह स क ह ल ह्रीं कनिष्ठिकाभ्यां नमः । ॐ सौं स क ल ह्रीं करतलकरपृष्ठाभ्यां नमः । अङ्ग न्यासः - ॐ ऐं क ए ई ल ह्रीं हृदयाय नमः । ॐ क्लीं ह स क ह ल ह्रीं शिरसे स्वाहा । ॐ सौं स क ल ह्रीं शिखायै वषट् । ॐ ऐं क ए ई ल ह्रीं कवचाय हुम् । ॐ क्लीं ह स क ह ल ह्रीं नेत्रत्रयाय वौषट् । ॐ सौं स क ल ह्रीं अस्त्राय फट् । ध्यानम् । बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥ मानसपूजनम् । ॐ लं पृथिव्यात्मकं गन्धं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं श्रीललितात्रिपुराप्रीतये घ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं श्रीललितात्रिपुराप्रीतये दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीललितात्रिपुराप्रीतये निवेदयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः ॥ श्रीललितालकारादिशतनामजपसाधना - श्रीललितायै नमः । श्रीलक्ष्म्यै नमः । श्रीलोलाक्ष्यै नमः । श्रीलक्ष्मणायै नमः । श्रीलक्ष्मणार्चितायै नमः । श्रीलक्ष्मणप्राणरक्षिण्यै नमः । श्रीलाकिन्यै नमः । श्रीलक्ष्मणप्रियायै नमः । श्रीलोलायै नमः । श्रीलकारायै नमः । १० श्रीलोमशायै नमः । श्रीलोलजिह्वायै नमः । श्रीलज्जावत्यै नमः । श्रीलक्ष्यायै नमः । श्रीलाक्ष्यायै नमः । श्रीलक्षरतायै नमः । श्रीलकाराक्षरभूषितायै नमः । श्रीलोललयात्मिकायै नमः । श्रीलीलायै नमः । श्रीलीलावत्यै नमः । २० श्रीलाङ्गल्यै नमः । श्रीलावण्यामृतसारायै नमः । श्रीलावण्यामृतदीर्घिकायै नमः । श्रीलज्जायै नमः । श्रीलज्जामत्यै नमः । श्रीलज्जायै नमः । श्रीललनायै नमः । श्रीललनप्रियायै नमः । श्रीलवणायै नमः । श्रीलवल्यै नमः । ३० श्रीलसायै नमः । श्रीलाक्षिव्यै नमः । श्रीलुब्धायै नमः । श्रीलालसायै नमः । श्रीलोकमात्रे नमः । श्रीलोकपूज्यायै नमः । श्रीलोकजनन्यै नमः । श्रीलोलुपायै नमः । श्रीलोहितायै नमः । श्रीलोहिताक्ष्यै नमः । ४० श्रीलिङ्गाख्यायै नमः । श्रीलिङ्गेश्यै नमः । श्रीलिङ्गगीत्यै नमः । श्रीलिङ्गभवायै नमः । श्रीलिङ्गमालायै नमः । श्रीलिङ्गप्रियायै नमः । श्रीलिङ्गाभिधायिन्यै नमः । श्रीलिङ्गायै नमः । श्रीलिङ्गनामसदानन्दायै नमः । श्रीलिङ्गामृतप्रीतायै नमः । ५० श्रीलिङ्गार्चिनप्रीतायै नमः । श्रीलिङ्गपूज्यायै नमः । श्रीलिङ्गरूपायै नमः । श्रीलिङ्गस्थायै नमः । श्रीलिङ्गालिङ्गनतत्परायै नमः । श्रीलतापूजनरतायै नमः । श्रीलतासाधकतुष्टिदायै नमः । श्रीलतापूजकरक्षिण्यै नमः । श्रीलतासाधनसिद्धिदायै नमः । श्रीलतागृहनिवासिन्यै नमः । ६० श्रीलतापूज्यायै नमः । श्रीलताराध्यायै नमः । श्रीलतापुष्पायै नमः । श्रीलतारतायै नमः । श्रीलताधारायै नमः । श्रीलतामय्यै नमः । श्रीलतास्पर्शनसन्त्ष्टायै नमः । श्रीलताऽऽलिङ्गनहर्षतायै नमः । श्रीलताविद्यायै नमः । श्रीलतासारायै नमः । ७० श्रीलताऽऽचारायै नमः । श्रीलतानिधये नमः । श्रीलवङ्गपुष्पसन्तुष्टायै नमः । श्रीलवङ्गलतामध्यस्थायै नमः । श्रीलवङ्गलतिकारूपायै नमः । श्रीलवङ्गहोमसन्तुष्टायै नमः । श्रीलकाराक्षरपूजितायै नमः । श्रीलकारवर्णोद्भवायै नमः । श्रीलकारवर्णभूषितायै नमः । श्रीलकारवर्णरुचिरायै नमः । ८० श्रीलकारबीजोद्भवायै नमः । श्रीलकाराक्षरस्थितायै नमः । श्रीलकारबीजनिलयायै नमः । श्रीलकारबीजसर्वस्वायै नमः । श्रीलकारवर्णसर्वाङ्ग्यै नमः । श्रीलक्ष्यछेदनतत्परायै नमः । श्रीलक्ष्यधरायै नमः । श्रीलक्ष्यघूर्णायै नमः । श्रीलक्षजापेनसिद्धिदायै नमः । श्रीलक्षकोटिरूपधरायै नमः । ९० श्रीलक्षलीलाकलालक्ष्यायै नमः । श्रीलोकपालेनार्चितायै नमः । श्रीलाक्षारागविलोपनायै नमः । श्रीलोकातीतायै नमः । श्रीलोपमुद्रायै नमः । श्रीलज्जाबीजस्वरूपिण्यै नमः । श्रीलज्जाहीनायै नमः । श्रीलज्जामय्यै नमः । श्रीलोकयात्राविधायिन्यै नमः । श्रीलास्यप्रियायै नमः । १०० श्रीलयकर्यै नमः । श्रीलोकलयायै नमः । श्रीलम्बोदर्यै नमः । श्रीलघिमादिसिद्धिदात्र्यै नमः । श्रीलावण्यनिधिदायिन्यै नमः । श्रीलकारवर्णग्रथितायै नमः । श्रीलँबीजायै नमः । श्रीललिताम्बिकायै नमः । १०८ इति श्रीकौलिकार्णवे श्रीभैरवीसंवादे षट्कर्मसिद्धदायक श्रीमल्ललिताया लकारादिशतनामावलिः समाप्ता ।