अक्षर आकार:

श्रीललिताकवचम्

Shri Lalita Kavacha

श्रीललिताकवचम्

। नारदपुराणान्तर्गते । सनत्कुमार उवाच- अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् । येन देवासुरनरजयी स्यात्साधकः सदा ॥ १॥ सर्वतः सर्वदाऽऽत्मानं ललिता पातु सर्वगा । कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ २॥ दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा । नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम् ॥ ३॥ तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी । महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ ४॥ वामपार्श्वं सदा पातु इतीमेलरिता ततः । माहेश्वरी दिशं पातु त्वरितं सिद्धदायिनी ॥ ५॥ पातु मामूर्ध्वतः शश्वद्देवता कुलसुन्दरी । अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ ६॥ करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला । देहेन्द्रियमनःप्राणाञ्ज्वालामालिनिविग्रहा ॥ ७॥ पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु । कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ ८॥ पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा । असत्यात्क्रूरचिन्तातो हिंसातश्चौरतस्तथा । स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति ॥ ९॥ नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः । तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ १०॥ सिंहारूढास्तथा पान्तु पान्तु ऋक्षगता अपि । रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ ११॥ तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगताश्च ताः । भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा ॥ १२॥ भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् । द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ १३॥ गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः । असङ्ख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा ॥ १४॥ सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् । कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः ॥ १५॥ इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् । यस्य सन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ १६॥ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे बृहदुपाख्याने श्रीललिताकवचं सम्पूर्णम् ॥ अध्यायः ८९॥ 89th chapter of first part of Naradiyapurana. Kavacha verses are 23-38.