अक्षर आकार:

श्रीललिताहृदयस्तोत्रम् २

Shri Lalita Hridaya Stotram 2

श्रीललिताहृदयस्तोत्रम् २

॥ पूर्व-पीठिका ॥ अगस्त्य उवाच - हयग्रीव ! दया-सिन्धो ! ललितायाः शुभं मम । हृदयं च महोत्कृष्टं कथयस्व महा-मुने ॥ १॥ हयग्रीव उवाच- श‍ृणु त्वं शिष्य ! वाक्यं मे हृदयं कथयामि ते । महा-देव्यास्तथा शक्तेः प्रीति-सम्पाद-कारकम् ॥ २॥ बीजात्मकं महा-मन्त्र-रूपकं परमं निजम् । कामेश्वर्याः स्वाङ्ग-भूतं डामर्यादिभिरावृतम् ॥ ३॥ कामाकर्ष्यादि-संयुक्तं पञ्च-काम-दुघान्वितम् ॥ नव-वल्लि-समायुक्तं कादि-हादि-मतान्वितम् ॥ ४॥ त्रिकूट-दर्शितं गुप्तं हृदयोत्तममेव च । मूल-प्रकृति-व्यक्तादि-कला-शोधन-कारकम् ॥ ५॥ विमर्श-रूपकं चैव विद्या-शक्ति-षडङ्गकम् । षडध्व-मार्ग-पीठस्थं सौर-शाक्तादि-संज्ञकम् ॥ ६॥ अभेद-भेद-नाशं च सर्व-वाग्-वृत्ति-दायकम् । तत्त्व-चक्र-मयं तत्त्व-बिन्दु-नाद-कलान्वितम् ॥ ७॥ प्रभा-यन्त्र-समायुक्तं मूल-चक्र-मयान्वितम् । कण्ठ-शक्ति-मयोपेतं भ्रामरी-शक्ति-रूपकम् ॥ ८॥ विनियोगः - ॐ अस्य श्रीललिता-हृदय-स्तोत्र-माला-मन्त्रस्य श्रीआनन्द-भैरव ऋषिः । अमृत-विराट् छन्दः । श्रीललिता-वाग्देवता-प्रसाद-सिद्धये जपे विनियोगाय नमः ॥ ऋष्यादि-न्यासं कृत्वा कर-सम्पुटे कूट-त्रयं द्विरावृत्य षडङ्ग-द्वयं कुर्यात् ॥ ध्यानम् - द्रां द्रीं क्लीं बीज-रूपे, हसित-कह-कहे, ब्रह्म-देहान्तरङ्गे ! ब्लूं सः क्रों वर्ण-माले, सुर-गण-नमिते, तत्त्व-रूपे ! हसखफ्रेम् । ह्सां ह्सीं ह्सौं बीज-रूपे, परम-सुख-करे, वीर-मातः ! स्वयम्भूः । ऐं सहखफ्रें बीज-तत्त्वे, कलित-कुल-कले ! ते नमः शुद्ध-वीरे ॥ १॥ इति ध्यात्वा, मनसा पञ्चधोपचर्य, नव-मुद्राः प्रदर्य, मूलं त्रि-वारं जप्त्वा, योनिमुद्रया प्रणमेत् ॥ अथ हृदय-स्तोत्रम् । हृदयाम्बुज-मध्यस्था ब्रह्मात्मैक्य-प्रदायिनी । त्रिपुराम्बा त्रिकोणस्था पातु मे हृदयं सदा ॥ १॥ अवर्ण-मालिका शक्तिर्वर्णमाला-स्वरूपिणी । नित्याऽनित्या तत्त्वगा सा निराकार-मयान्विता ॥ २॥ शब्द-ब्रह्म-मयी शब्द-बोधाकार-स्वरूपिणी । सांविदी वादि-संसेव्या सर्व-श्रुतिभिरीडिता ॥ ३॥ महा-वाक्योपदेशानी स्वर-नाडी-गुणान्विता । ह्रीङ्कार-चक्र-मध्यस्था ह्रीमुद्यान-विहारिणी ॥ ४॥ ह्रीं मोक्ष-कारिणी ह्रीं ह्रीं, महा-ह्रीङ्कार-धारिणी । काल-कण्ठी महा-देवी कुरु-कुल्ला कुलेश्वरी ॥ ५॥ ऐं ऐं प्रकाश-रूपेण, ऐं बीजान्तर-वासिनी । ईशस्था ईदृशी चेशी ईं ईं वीज-करी तथा ॥ ६॥ लक्ष्मी-नारायणान्तःस्था लक्ष्यालक्ष्य-करी तथा । शिवस्था हेति-वर्णस्था स-शक्तेर्वर्ण-रूपिणी ॥ ७॥ कमलस्था कला-माला ह्रां ह्रीं ह्रीं ह्रीं मुखी तथा । लावण्य-सुन्दरी पातु लक्ष्य-कोणाग्रमन्विता ॥ ८॥ लां लां लीं लीं सुरैः स्तुत्या सां सीं सूं सैं सुरार्चिता । कां कीं कूं काकिनी सेव्या लां लीं लूं काकिनी-स्तुता ॥ ६॥ बिन्दु-चक्रेश्वरी पातु द्वितीया-वर्ण-देवता । वसु-कोणेश्वरी देवी द्वि-दशारेश्वरी च माम् ॥ १०॥ मन्वस्त्र-चक्र-मध्यस्था नाग-पत्रेश्वरी सदा । षोडशारेश्वरी नित्या मण्डल-त्रय-देवता ॥ ११॥ भूपुर-त्रय-मध्यस्था द्वादश-ग्रन्थि-भेदिनी । हंसी हसी सु-बीजस्था हरिद्रादिभिरर्चिता ॥ १२॥ अनन्त-कोटि-जन्मस्था जन्माजन्मत्व-वर्जिता । अमृताम्भोधि-मध्यस्था अमृतेशादि-सेविता ॥ १३॥ मृतामृत-करी मूल-विराट्-शक्तिः परात्मिका । आत्मनं पातु मे नित्यं तथा सर्वाङ्गमेव च ॥ १४॥ अष्ट-दिक्षु कराली सा ऊर्ध्वाधः-प्रान्तके तथा । गुरु-शक्ति-महा-विद्या गुरु-मण्डल-गामिनी ॥ १५॥ सर्व-चक्रेश्वरी सर्व-ब्रह्मादिभिः सु-वन्दिता । सत्त्व-शक्तिः रजः-शक्तिस्तमः-शक्तिः परात्मिका ॥ १६॥ प्रपञ्चेशी सु-कालस्था महा-वेदान्त-गर्भिता । कूटस्था कूट-मध्यस्था कूटाकूट-विवर्जिता ॥ १७॥ योगाङ्गी योग-मध्यस्था अष्ट-योग-प्रदायिनी । नव-शक्तिः कृती माता अष्ट-सिद्धि-स्वरूपिणी ॥ १८॥ नव-वीरावली रम्या मुक्ति-कन्या मुकुन्दगा । उपदेश-करी विद्या महा-मुख्य-विराजिता ॥ १६॥ मुख्याऽमुख्या महा-मुख्या मूल-बीज-प्रवर्तिका । दिक्-पालकाः सदा पान्तु श्रीचक्राधि-देवताः ॥ २०॥ दिग्-योगिन्यष्टकं पातु तथा भैरव चाष्टकम् । षडङ्ग-देवताः पान्तु नित्या-षोडशिकास्तथा ॥ २१॥ नाथ-शक्तिः सदा पातु त्रिकोणान्तर-दीपिका । त्रि-सारा त्रय-कर्माणि नाशिनी त्रयं दर्शति ॥ २२॥ त्रि-काला शोषणी शोष-कारिणी शोषणेश्वरी । भुक्ति-मुक्ति-प्रदा बाला भुवनाम्बा बगलेश्वरी ॥ २३॥ var बुधेश्वरी अतृप्तिस्तृप्ति-सन्तुष्टा तृप्ता तृप्त-करी सदा । आम्नाय-शक्तयः पान्तु आदि-शेष-सु-तल्पिनी ॥ २४॥ राज्यत्वं देहि मे नित्यं आदि-शम्भु-स्वरूपिणी । सर्व-रोग-हरा सर्व-कैवल्य-पद-दायिनी ॥ २५॥ फल-श्रुतिः - इदं तु हृदयं दिव्यं ललिता-प्रीति-दायकम् । अनेन च समं नास्ति स्तोत्रं प्रख्यात-वैभवम् ॥ २६॥ शक्ति-रूपं शक्ति-गुप्तं प्रकटाङ्गे प्रभुं शुभम् । मूल-विद्यात्मकं मूल-ब्रह्म-सम्भव-कारणम् ॥ २७॥ नादादि-शक्ति-संयुक्तमभूतमद्भुतं महत् । रोगहं पापहं विघ्न-नाशनं विघ्न-हारिणम् ॥ २८॥ चिरायुष्य-प्रदं सर्व-मृत्यु-दारिद्रय-नाशनम् । क्रोधहं मुक्तिदं मुक्ति-दायकं परं मे सुखम् ॥ २६॥ रुद्रदं मृडपं विष्णुं दण्डकं ब्रह्म-रूपकम् । विचित्रं च सुचित्रं च सुन्दरं च सु-गोचरम् ॥ ३०॥ नाभक्ताय न दुष्टाय नाविश्वस्ताय देशिकः । न दापयेत् परं विद्या-हृदयं मन्त्र-गर्भितम् ॥ ३१॥ स्तोत्राणामुत्तमं स्तोत्रं मन्त्राणामुत्तमं मनुम् । बीजानामुत्तमं बीजं शाक्तानामुत्तमं शिवम् ॥ ३२॥ पठेद् भक्त्या त्रि-कालेषु अर्ध-रात्रे तथैव च । वाक्-सिद्धि-दायकं नित्यं पर-विद्या-विमोहकम् ॥ ३३॥ स्व-विद्या-स्थापकं चान्यद् यन्त्र-तन्त्रादि-भेदनम् । कृत्तिका-नक्षत्र-कूर्माख्ये चक्रे स्थित्वा जपेन्मनुम् ॥ ३४॥ इति श्रीमहत्तर-योनि-विद्याया महा-तन्त्रे श्रीललिता-हृदयं सम्पूर्णम् ॥