अक्षर आकार:

श्रीललिताष्टोत्तरशतनामावली

shrIlalitAShTottarashatanAmAvalI

श्रीललिताष्टोत्तरशतनामावली

श्रीकामेश्वर्यै नमः । श्रीकामशक्त्यै नमः । श्रीकामदायिन्यै नमः । श्रीसौभग्यदायिन्यै नमः । श्रीकामरूपायै नमः । श्रीकामकलायै नमः । श्रीकामिन्यै नमः । श्रीकमलासनायै नमः । श्रीकमलायै नमः । श्रीकलनाहीनायै नमः । १० श्रीकमनीयायै नमः । श्रीकलावत्यै नमः । श्रीपद्यपायै नमः । श्रीभारत्यै नमः । श्रीसेव्यायै नमः । श्रीकल्पिताऽशेषसंस्थित्यै नमः । श्रीअनुत्तरायै नमः । श्रीअनघायै नमः । श्रीअनन्तायै नमः । श्रीअद्भुतरूपायै नमः । २० श्रीअनलोद्भवायै नमः । श्रीअतिलोकचरित्रायै नमः । श्रीअतिसुन्दर्यै नमः । श्रीअतिशुभप्रदायै नमः । श्रीविश्वायै नमः । श्रीआद्यायै नमः । श्रीअतिविस्तारायै नमः । श्रीअर्चनतुष्टायै नमः । श्रीअमितप्रभायै नमः । श्रीएकरूपायै नमः । ३० श्रीएकवीरप्रियायै नमः । श्रीएकनाथप्रियायै नमः । श्रीएकान्तप्रियायै नमः । श्रीअर्चनप्रीयायै नमः । श्रीएकायै नमः । श्रीएकभावतुष्टायै नमः । श्रीएकरसप्रीयायै नमः । श्रीएकान्तजनप्रीयायै नमः । श्रीएधमानप्रभायै नमः । श्रीवैधभक्तायै नमः । ४० श्रीपातकनाशिन्यै नमः । श्रीएलामोदमुखायै नमः । श्रीनोऽद्रिशक्तायुधायै नमः । श्रीसमस्थित्यै नमः । श्रीईहाशून्येप्सितेशादिसेव्येशानायै नमः । श्रीवराङ्गनायै नमः । श्रीईश्वराज्ञापिकेकारभाव्येप्सितफलप्रदायै नमः । श्रीईशानेत्यै नमः । श्रीहरेशैषायै नमः । श्रीचारुणाक्षीश्वरेश्वर्यै नमः । ५० श्रीललितायै नमः । श्रीललनारूपायै नमः । श्रीलयहीनायै नमः । श्रीलसततनवे नमः । श्रीलयसर्वायै नमः । श्रीलयक्षोण्यै नमः । श्रीलयकर्त्रे नमः । श्रीलयात्मिकायै नमः । श्रीलघिमायै नमः । श्रीलघुमध्याढ्यायै नमः । ६० श्रीललमानायै नमः । श्रीलघुद्रुतायै नमः । श्रीहयारूढायै नमः । श्रीहतायै नमः । श्रीअमित्रायै नमः । श्रीहरकान्तायै नमः । श्रीहरिस्तुतायै नमः । श्रीहयग्रीवेष्टदायै नमः । श्रीहालाप्रियायै नमः । श्रीहर्षसमुद्भवायै नमः । ७० श्रीहर्षणायै नमः । श्रीहल्लकाभाङ्ग्यै नमः । श्रीहस्त्यन्तैश्वर्यदायिन्यै नमः । श्रीहलहस्तार्चितपदायै नमः । श्रीहविप्रसादिन्यै नमः । श्रीदानप्रसादिन्यै नमः । श्रीरामायै नमः । श्रीरामार्चितायै नमः । श्रीराज्ञ्यै नमः । श्रीरम्यायै नमः । ८० श्रीरवमय्यै नमः । श्रीरत्यै नमः । श्रीरक्षिण्यै नमः । श्रीरमण्यै नमः । श्रीराकाऽऽदित्यादिमण्डलप्रियायै नमः । श्रीरक्षिताऽखिललोकेश्यै नमः । श्रीरक्षोगणनिषूदिन्यै नमः । श्रीअन्तान्तकारिण्यम्भोजक्रियान्तकभयङ्कर्यै नमः । श्रीअम्बुरूपायै नमः । श्रीअम्बुजायै नमः । ९० श्रीकराम्बुजायै नमः । श्रीजातवरप्रदायै नमः । श्रीअन्तःपूजाक्रियान्तःस्थायै नमः । श्रीअन्तर्ध्यानवचोमय्यै नमः । श्रीअन्तकाऽरातिवामाङ्कस्थितायै नमः । श्रीअन्तःसुखरूपिण्यै नमः । श्रीसर्वज्ञायै नमः । श्रीसर्वगायै नमः । श्रीसारायै नमः । श्रीसमायै नमः । १०० श्रीसमसुखायै नमः । श्रीसत्यै नमः । श्रीसन्तत्यै नमः । श्रीसन्ततायै नमः । श्रीसोमायै नमः । श्रीसर्वायै नमः । श्रीसांख्यायै नमः । श्रीसनातन्यै नमः । १०८