अक्षर आकार:

श्रीललिताष्टोत्तरशतनामावलिः २

Shri Lalitashtottarashatanamavali 2

श्रीललिताष्टोत्तरशतनामावलिः २

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्- तारानायकशेखरां स्मितममुखीम् आपीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं विभ्रतीम् सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीम् हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । सर्वालङ्कार-युक्तां सततमभयदां भक्तनम्रां भवानीम् श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥ ॐ भूरूपसकलाधारायै नमः ॐ बीजौषध्यन्नरूपिण्यै नमः । ॐ जरायुजाण्डजोद्भिज्ज- स्वेदजादिशरीरिण्यै नमः । ॐ क्षेत्ररूपायै नमः । ॐ तीर्थरूपायै नमः । ॐ गिरिकाननरूपिण्यै नमः । ॐ जलरूपाखिलाप्यायायै नमः । ॐ तेजःपुञ्जस्वरूपिण्यै नमः । ॐ जगत्प्रकाशिकायै नमः । ॐ अज्ञानतमोहृद्भानुरूपिण्यै नमः । १० ॐ वायुरूपायै नमः । ॐ अखिलव्याप्तायै नमः । ॐ उत्पत्यादिविधायिन्यै नमः । ॐ नभोरूपायै नमः । ॐ इन्दुसूर्यादि- ज्योतिर्भूतावकाशदायै नमः । ॐ घ्राणरूपायै नमः । ॐ गन्धरूपायै नमः । ॐ गन्धग्रहणकारिण्यै नमः । ॐ रसनायै नमः । ॐ रसरूपायै नमः । २० ॐ रसग्रहणकारिण्यै नमः । ॐ चक्षुरूपायै नमः । ॐ रूपरूपायै नमः । ॐ रूपग्रहणकारिण्यै नमः । ॐ त्वग्रूपायै नमः । ॐ स्पर्शरूपायै नमः । ॐ स्पर्शग्रहणकारिण्यै नमः । ॐ श्रोत्ररूपायै नमः । ॐ शब्दरूपायै नमः । ॐ शब्दग्रहणकारिण्यै नमः । ३० ॐ वागिन्द्रियस्वरूपायै नमः । ॐ वाचावृत्तिप्रदायिन्यै नमः । ॐ पाणीन्द्रियस्वरूपायै नमः । ॐ क्रियावृत्तिप्रदायिन्यै नमः । ॐ पादेन्द्रियस्वरूपायै नमः । ॐ गतिवृत्तिप्रदायिन्यै नमः । ॐ पाय्विन्द्रियस्वरूपायै नमः । ॐ विसर्गार्थैककारिण्यै नमः । ॐ रहस्येन्द्रियरूपायै नमः । ॐ विषयानन्ददायिन्यै नमः । ४० ॐ मनोरूपायै नमः । ॐ सङ्कल्पविकल्पादि- स्वरूपिण्यै नमः । ॐ सर्वोपलब्धिहेतवे नमः । ॐ बुद्धिनिश्चयरूपिण्यै नमः । ॐ अहङ्कारस्वरूपायै नमः । ॐ अहङ्कर्तव्यवृत्तिदायै नमः । ॐ चेतनाचित्तरूपायै नमः । ॐ सर्वचैतन्यदायिन्यै नमः । ॐ गुणवैषम्यरूपाढ्य- महत्तत्त्वाभिमानिन्यै नमः । ॐ गुणसाम्याव्यक्तमायामूल- प्रकृतिसञ्चिकायै नमः । ५० ॐ पञ्चीकृतमहाभूत- सूक्ष्मभूतस्वरूपिण्यै नमः । ॐ विद्याऽविद्यात्मिकायै नमः । ॐ मायाबन्धमोचनकारिण्यै नमः । ॐ ईश्वरेच्छारागरूपायै नमः । ॐ प्रकृतिक्षोभकारिण्यै नमः । ॐ कालशक्त्यै नमः । ॐ कालरूपायै नमः । ॐ नियत्यादिनियामिकायै नमः । ॐ धूम्रादिपञ्चव्योमाख्यायै नमः । ॐ यन्त्रमन्त्रकलात्मिकायै नमः । ६० ॐ ब्रह्मरूपायै नमः । ॐ विष्णुरूपायै नमः । ॐ रुद्ररूपायै नमः । ॐ महेश्वर्यै नमः । ॐ सदाशिवस्वरूपायै नमः । ॐ सर्वजीवमय्यै नमः । ॐ शिवायै नमः । ॐ श्रीवाणीलक्ष्म्युमारूपायै नमः । ॐ सदाख्यायै नमः । ॐ चित्कलात्मिकायै नमः । ७० ॐ प्राज्ञतैजसविश्वाख्य- विराट्सूत्रेश्वरात्मिकायै नमः । ॐ स्थूलदेहस्वरूपायै नमः । ॐ सूक्ष्मदेहस्वरूपिण्यै नमः । ॐ वाच्यवाचकरूपायै नमः । ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः । ॐ कार्यकारणरूपायै नमः । ॐ तत्तत्तत्वाधिदेवतायै नमः । ॐ दशनादस्वरूपायै नमः । ॐ नाडीरूपाढ्यकुण्डल्यै नमः । ॐ अकारादिक्षकारान्तवैखरी- वाक्स्वरूपिण्यै नमः । ८० ॐ वेदवेदाङ्गरूपायै नमः । ॐ सूत्रशास्त्रादिरूपिण्यै नमः । ॐ पुराणरूपायै नमः । ॐ सद्धर्मशात्ररूपायै नमः । ॐ परात्परस्यै नमः । ॐ आयुर्वेदस्वरूपायै नमः । ॐ धनुर्वेदस्वरूपिण्यै नमः । ॐ गान्धर्वविद्यारूपायै नमः । ॐ अर्थशास्त्रादिरूपिण्यै नमः । ॐ चतुष्षष्टिकलारूपायै नमः । ९० ॐ निगमागमरूपिण्यै नमः । ॐ काव्येतिहासरूपायै नमः । ॐ गानविद्यादिरूपिण्यै नमः । ॐ पदवाक्यस्वरूपायै नमः । ॐ सर्वभाषास्वरूपिण्यै नमः । ॐ पदवाक्यस्फोटरूपायै नमः । ॐ ज्ञानज्ञेयक्रियात्मिकायै नमः । ॐ सर्वतन्त्रमय्यै नमः । ॐ सर्वयन्त्रतन्त्रादिरूपिण्यै नमः । ॐ वेदमात्रे नमः । १०० ॐ ललितायै नमः । ॐ महाव्याहृतिरूपिण्यै नमः । ॐ अव्याकृतपदानाद्यचिन्त्य- शक्त्यै नमः । ॐ तमोमय्यै नमः । ॐ परस्मै ज्योतिषे नमः । ॐ परब्रह्मसाक्षात्कार- स्वरूपिण्यै नमः । ॐ परब्रह्ममय्यै नमः । ॐ सत्यासत्यज्ञानसुधात्मिकायै नमः । १०८ इति श्रीललिताष्टोत्तरशतनामावलिः समाप्ता ।