अक्षर आकार:

श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम्

shrIlakShmyaShTottarashatanAmastotram

श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम्

एतत्स्तोत्रं महालक्ष्मीर्महेशना इत्यारब्धस्य सहस्रनामस्तोत्रस्याङ्गभूतम् । ब्रह्मजा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी । सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १॥ सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा । संविन्मयी सदाचारा सदातुष्टा सदानता ॥ २॥ कौमुदी कुमुदानन्दा कुः कुत्सिततमोहरी । हृदयार्तिहरी हारशोभिनी हानिवारिणी ॥ ३॥ सम्भाज्या संविभज्याऽऽज्ञा ज्यायसी जनिहारिणी । महाक्रोधा महातर्षा महर्षिजनसेविता ॥ ४॥ कैटभारिप्रिया कीर्तिः कीर्तिता कैतवोज्झिता । कौमुदी शीतलमनाः कौसल्यासुतभामिनी ॥ ५॥ कासारनाभिः का सा याऽऽप्येषेयत्ताविवर्जिता । अन्तिकस्थाऽतिदूरस्था हृदयस्थाऽम्बुजस्थिता ॥ ६॥ मुनिचित्तस्थिता मौनिगम्या मान्धातृपूजिता । मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुका ॥ ७॥ महीस्थिता च मध्यस्था द्युस्थिताऽधःस्थितोर्ध्वग । भूतिर्विभूतिः सुरभिः सुरसिद्धार्तिहारिणी ॥ ८॥ अतिभोगाऽतिदानाऽतिरूपाऽतिकरुणाऽतिभाः । विज्वरा वियदाभोगा वितन्द्रा विरहासहा ॥ ९॥ शूर्पकारातिजननी शून्यदोषा शुचिप्रिया । निःस्पृहा सस्पृहा नीलासपत्नी निधिदायिनी ॥ १०॥ कुम्भस्तनी कुन्दरदा कुङ्कुमालेपिता कुजा । शास्त्रज्ञा शास्त्रजननी शास्त्रज्ञेया शरीरगा ॥ ११॥ सत्यभास्सत्यसङ्कल्पा सत्यकामा सरोजिनी । चन्द्रप्रिया चन्द्रगता चन्द्रा चन्द्रसहोदरी ॥ १२॥ औदर्यौपयिकी प्रीता गीता चौता गिरिस्थिता । अनन्विताऽप्यमूलार्तिध्वान्तपुञ्जरविप्रभा ॥ १३॥ मङ्गला मङ्गलपरा मृग्या मङ्गलदेवता । कोमला च महालक्ष्मीः नाम्नामष्टोत्तरं शतम् । फलश्रुतिः नारद उवाच- इत्येवं नामसाहस्रं साष्टोत्तरशतं श्रियः । कथितं ते महाराज भुक्तिमुक्तिफलप्रदम् ॥ १॥ भूतानामवताराणां तथा विष्णोर्भविष्यताम् । लक्ष्म्या नित्यानुगामिन्याः गुणकर्मानुसारतः ॥ २॥ उदाहृतानि नामानि सारभूतानि सर्वतः । इदन्तु नामसाहस्रं ब्रह्मणा कथितं मम ॥ ३॥ उपांशुवाचिकजपैः प्रीयेतास्य हरिप्रिया । लक्ष्मीनामसहस्रेण श्रुतेन पठितेन वा ॥ ४॥ धर्मार्थी धर्मलाभी स्यात् अर्थार्थी चार्थवान् भवेत् । कामार्थी लभते कामान् सुखार्थी लभते सुखम् ॥ ५॥ इहामुत्र च सौख्याय लक्ष्मीभक्तिहितङ्करी । इदं श्रीनामसाहस्रं रहस्यानां रहस्यकम् ॥ ६॥ गोप्यं त्वया प्रयत्नेन अपचारभयाच्छ्रियः । नैतद्व्रात्याय वक्तव्यं न मूर्खाय न दम्भिने ॥ ७॥ न नास्तिकाय नो वेदशास्त्रविक्रयकारिणे । वक्तव्यं भक्तियुक्ताय दरिद्राय च सीदते ॥ ८॥ सकृत्पठित्व श्रीदेव्याः नामसाहस्रमुत्तमम् । दारिद्र्यान्मुच्यते पुर्वं जन्मकोटिभवान्नरः ॥ ९॥ त्रिवारपठनादस्याः सर्वपापक्षयो भवेत् । पञ्चचत्वारिंशदहं सायं प्रातः पठेत्तु यः ॥ १०॥ तस्य सन्निहिता लक्ष्मीः किमतोऽधिकमाप्यते । अमायां पौर्णमास्यां च भृगुवारेषु सङ्क्रमे ॥ ११॥ प्रातः स्नात्वा नित्यकर्म यथाविधि समाप्य च स्वर्णपात्रेऽथ रजते कांस्यपात्रेऽथवा द्विजः ॥ १२॥ निक्षिप्य कुङ्कुमं तत्र लिखित्वाऽष्टदलाम्बुजम् । कर्णिकामध्यतो लक्ष्मीं बीजं साधु विलिख्य च ॥ १३॥ प्रागादिषु दलेष्वस्य वाणीब्राह्म्यादिमातृकाः । विलिख्य वर्णतोऽथेदं नामसाहस्रमादरात् ॥ १४॥ यः पठेत् तस्य लोकस्तु सर्वेऽपि वशगास्ततः । राज्यलाभः पुत्रपौत्रलाभः शत्रुजयस्तथा ॥ १५॥ सङ्कल्पादेव तस्य स्यात् नात्र कार्या विचारणा । अनेन नामसहस्रेणार्चयेत् कमलां यदि ॥ १६॥ कुङ्कुमेनाथ पुष्पैर्वा न तस्य स्यात्पराभवः । उत्तमोत्तमता प्रोक्ता कमलानामिहार्चने ॥ १७॥ तदभावे कुङ्कुमं स्यात् मल्लीपुष्पाञ्जलिस्ततः । जातीपुष्पाणि च ततः ततो मरुवकावलिः ॥ १८॥ पद्मानामेव रक्तत्वं श्लाघितं मुनिसत्तमैः । अन्येषां कुसुमानान्तु शौक्ल्यमेव शिवार्चने ॥ १९॥ प्रशस्तं नृपतिश्रेष्ठ तस्माद्यत्नपरो भवेत् । किमिहात्र बहूक्तेन लक्ष्मीनामसहस्रकम् ॥ २०॥ वेदानां सरहस्यानां सर्वशास्त्रगिरामपि । तन्त्राणामपि सर्वेषां सारभूतं न संशयः ॥ २१॥ सर्वपापक्षयकरं सर्वशत्रुविनाशनम् । दारिद्र्यध्वंसनकरं पराभवनिवर्तकम् ॥ २२॥ विश्लिष्टबन्धुसंश्लेषकारकं सद्गतिप्रदम् । तन्वन्ते चिन्मयात्म्यैक्यबोधादानन्ददायकम् ॥ २३॥ लक्ष्मीनामसहस्रं तत् नरोऽवश्यं पठेत्सदा । योऽसौ तात्पर्यतः पाठी सर्वज्ञः सुखितो भवेत् ॥ २४॥ अकारादिक्षकारान्तनामभिः पूजयेत्सुधीः । तस्य सर्वेप्सितार्थसिद्धिर्भवति निश्चितम् ॥ २५॥ श्रियं वर्चसमारोग्यं शोभनं धान्यसम्पदः । पशूनां बहुपुत्राणां लाभश्च सम्भावेद्ध्रुवम् ॥ २६॥ शतसंवत्सरं विंशत्युतरं जीवितं भवेत् । मङ्गलानि तनोत्येषा श्रीविद्यामङ्गला शुभा ॥ २७॥ इति नारदीयोपपुराणान्तर्गतं श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।