अक्षर आकार:

श्रीलक्ष्मी विशेषमन्त्राः

shrIlakShmI visheShamantrAH

श्रीलक्ष्मी विशेषमन्त्राः

चतुरक्षर लक्ष्मीमन्त्रम् अस्य श्रीचतुरक्षरलक्ष्मीमहामन्त्रस्य - भृगु ऋषिः - निचृच्छन्दः - श्रीलक्ष्मीः देवता - मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः । ऋष्यादि न्यासः भृगु ऋषये नमः शिरसि - निचृच्छन्दसे नमः मुखे श्रीलक्ष्मी देवतायै नमः हृदि - विनियोगाय नमः सर्वाङ्गे करन्यासः ॐ श्रां अङ्गुष्टाभ्यां नमः । ॐ श्रीं तर्जनीभ्यां नमः । ॐ श्रूं मध्यमाभ्यां नमः । ॐ श्रैं अनामिकाभ्यां नमः । ॐ श्रौं कनिष्ठिकाभ्यां नमः । ॐ श्रःकरतलकरपृष्ठाभ्यां नमः ॥ ॐ श्रां ज्ञानाय हृदयाय नमः । ॐ श्रीं ऐश्वर्याय शिरसे स्वाहा । ॐ श्रूं शक्त्यै शिखायै वषट् । ॐ श्रैं बलाय कवचाय हुं । ॐ श्रौं तेजसे नेत्राभ्यां वौषट् । ॐ श्रः वीर्याय अस्त्राय फट् । ॐ भूर्भुवस्युवः इति दिग्बन्धः ॥ ध्यानम् । माणिक्यप्रतिमप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजैः, हस्तग्राहितरत्नकुभसलिलैरासिच्यमानां मुदा । हस्ताब्जैर्वरदानमम्बुजयुगाभीतिर्दधानां हरेः, कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजासनाम् ॥ मूलमन्त्रः - ऐं - श्रीं - ह्रीं - क्लीं । षडक्षरी श्रीमन्त्रम् अस्य श्रीमन्त्रस्य - भृगुः ऋषिः - निचृच्छन्दः - श्रीमहालक्ष्मीः देवता - सर्वयन्त्रस्य प्राणप्रतिष्ठादि सर्वतेजोबलप्रकाशादि सर्वशक्त्याप्तये जपे विनियोगः । ॐ बीजं- श्रीं शक्तिः -श्रियै कीलकम् । ऋष्यादि न्यासः भृगु ऋषये नमः शिरसि - निचृच्छन्दसे नमः मुखे श्रीमहालक्ष्मी देवतायै नमः हृदि - विनियोगायनमः सर्वाङ्गे करन्यासः ॐ श्रां अङ्गुष्टाभ्यां नमः । ॐ श्रीं तर्जनीभ्यां नमः । ॐ श्रूं मध्यमाभ्यां नमः । ॐ श्रैं अनामिकाभ्यां नमः । ॐ श्रौं कनिष्ठिकाभ्यां नमः । ॐ श्रः करतलकरपृष्ठाभ्यांनमः । हृदयादिन्यासः ॐ श्रां ज्ञानाय हृदयाय नमः । ॐ श्रीं ऐश्वर्याय शिरसे स्वाहा । ॐ श्रूं शक्त्यै शिखायै वषट् । ॐ श्रैं बलाय कवचाय हुं । ॐ श्रौं तेजसे नेत्राभ्यां वौषट् । ॐ श्रः वीर्याय अस्त्राय फट् । ॐ भूर्भुवस्सुवरोम् इति दिग्बन्धः ॥ ध्यानम् वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् । भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सेवितां पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ मूलमन्त्रः - ॐ - श्रीं - श्रियै - नमः । श्रीलक्ष्मी बीजमन्त्रम् अस्य श्री एकाक्षरीलक्ष्मीमहामन्त्रस्य - भृगुः ऋषिः - निचृच्छन्दः - श्रीलक्ष्मीः देवता - मम धनाप्तये जपे विनियोगः । ऋष्यादि न्यासः भृगु ऋषये नमः शिरसि - निचृच्छन्दसे नमः मुखे श्रीलक्ष्मी देवतायै नमः हृदि - विनियोगाय नमः सर्वाङ्गे करन्यासः ॐ श्रां अङ्गुष्टाभ्यां नमः । ॐ श्रीं तर्जनीभ्यां नमः । ॐ श्रूं मध्यमाभ्यां नमः । ॐ श्रैं अनामिकाभ्यां नमः । ॐ श्रौं कनिष्ठिकाभ्यां नमः । ॐ श्रःकरतलकरपृष्ठाभ्यां नमः ॥ हृदयादि न्यासः ॐ श्रां हृदयाय नमः । ॐ श्रीं शिरसे स्वाहा । ॐ श्रूं शिखायै वषट् । ॐ श्रैं कवचाय हुं । ॐ श्रौं नेत्राभ्यां वौषट् । ॐ श्रः अस्त्राय पट् । ॐ भूर्भुवस्सुवरोम् इति दिग्बन्धः ॥ ध्यानम् । कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुर्भिर्गजैः हस्ताक्षिप्तहिरण्मयामृतघटैरासिच्यमानां श्रियम् । बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां क्ष्मौमाबद्धनितम्बबिम्बलसितां वन्देऽरविन्दस्थिताम् ॥ (ध्यानानन्तरं सर्वतोभद्रमण्डले मण्डूकादि परतत्वान्तपीठदेवताः संस्थापयेत् - सम्पूजयेत्ततः पूर्वद्यष्टसु दिक्षु नवपीठशक्तीः पूजयेत् ।) पूर्वे - ॐ विभूत्यै नमः । आग्नेये - ॐ उन्मत्यै नमः । दक्षिणस्यां - ॐ कान्त्यै नमः । नैरृत्ये - ॐ सृष्ट्यै नमः । पश्चिमे - ॐ कीर्त्यै नमः । वायव्ये - ॐ सन्ध्यायै नमः । उत्तरे - ॐ पुष्ट्यै नमः । ईशान्ये - ॐ उत्कृष्ट्यै नमः । पीठमध्ये - ॐ ऋत्यै नमः । (ततः स्वर्णादि निर्मितं यन्त्रं अग्नि उद्धारणपूर्वकं श्रीं कमलासनायै नमः इति मन्त्रेण पुष्पाद्यासनं दत्वा पीठमध्ये संस्थाप्य, प्राणप्रतिष्ठां कृत्वा मूलेन मूर्तिं प्रकल्प्य, आवाहनादि उपचारैः संपूज्य देव्याज्ञां गृहीत्वा आवरणपूजां कुर्यात् ।) प्रथमावरणपूजा - षट्कोणकेसरेषु अग्निकोणे - ॐ श्रां हृदयाय नमः । नैरृत्ये - ॐ श्रीं शिरसे स्वाहा । वायव्ये - ॐ श्रूं शिखायै वषट् । ईशान्ये - ॐ श्रैं कवचाय हुं । पूज्यपूजकयोर्मध्ये - ॐ श्रौं नेत्रत्रयाय वौषट् । देवी पश्चिमे - ॐ श्रः अस्त्राय पट् । इति षडङ्गानि पूजयेत् ततः पुष्पाञ्जलिं आदाय मूलं उच्चार्य - ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ द्वितीयावरणपूजा - पूज्यपूज्यकयोः अन्तराले प्राच्यादि दिशः प्रकल्पयेत् पूर्वे ॐ वसुदेवाय नमः वासुदेव श्रीपादुकाम् । दक्षिणे ॐ सङ्कर्षणाय नमः । पश्चिमे ॐ प्रद्युम्नाय नमः । उत्तरे ॐ अनिरुद्धाय नमः । आग्नेये ॐ दमकाय नमः । नेरृत्ये ॐ सलिलाय नमः । वायव्ये ॐ गुग्गुलाय नमः । ईशान्ये ॐ गुरुण्डिकाय नमः । देव्याः दक्षिणे ॐ शङ्खनिधये नमः ॐ वसुन्धारायै नमः । देव्याः वामे ॐ पद्मनिधये नमः ॐ वसुमत्यै नमः । (इति पूजयित्वा पुष्पाञ्जलिं आदाय -) ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ तृतीयावरण पूजा - ततः पत्राग्रेषु पूर्वादि क्रमेण - पूर्वे ॐ बलाक्यै नमः बलाकी श्रीपादुकाम् । आग्नेये ॐ विमलायै नमः । दक्षिणे ॐ कमलायै नमः । नेरृत्ये ॐ वनमालिकायै नमः । पश्चिमे ॐ विभीषिकायै नमः । वायव्ये ॐ पालिकायै नमः । उत्तरे ॐ शार्ङ्ग्यै नमः । ईशान्ये ॐ वसुमालिकायै नमः । (इति पूजयित्वा पुष्पाञ्जलिं आदाय -) ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ दश दिक्पालक पूजा - भूपुरे प्राकारादि क्रमेण - पूर्वे ॐ लं इन्द्राय नमः । आग्नेये ॐ रं अग्नये नमः । दक्षिणे ॐ यं यमाय नमः । नैरृत्ये ॐ क्षं निरृतये नमः । पश्चिमे ॐ वं वरुणाय नमः । वायव्ये ॐ यं वायवे नमः । उत्तरे ॐ कं कुबेराय नमः । ईशान्ये ॐ हं ईशानाय नमः । ईशान-पूर्वयोर्मध्ये ॐ अं ब्रह्मणे नमः । निरृति-पश्चिमयोर्मध्ये ॐ ह्रीं अनन्ताय नमः । इति दश दिक्पालकान् पूजयेत् - अस्त्र पूजा - तत् बाह्ये - पूर्वे ॐ वं वज्राय नमः । आग्नेये ॐ शं शक्तये नमः । दक्षिणे ॐ दं दण्डाय नमः । नैरृत्ये ॐ खं खड्गायनमः । पश्चिमे ॐ पं पाशाय नमः । वायव्ये ॐ अं अङ्कुशाय नमः । उत्तरे ॐ गं गदायै नमः । ईशान्ये ॐ त्रिं त्रिशूलाय नमः । ईशान-पूर्वयोर्मध्ये ॐ पं पद्माय नमः । निरृति-पश्चिमयोर्मध्ये ॐ चं चक्राय नमः । इति अस्त्राणि पूजयेत् - घूपदीपादि नीराजनानन्तरं सम्यक् पूजयित्वा जपं कुर्यत् । इति श्रीलक्ष्मी विशेषमन्त्राः सम्पूर्णाः ।