अक्षर आकार:

श्रीलक्ष्मीसुप्रभातम्

Shri Lakshmi SuprabhAtam

श्रीलक्ष्मीसुप्रभातम्

मातः प्रसन्नवदनाम्बुजनिर्जिताग्रे? क्षीराब्धिजे सकललोकपवित्रमूर्ते । आर्तः प्रपन्नजनवन्दितपादपद्मे श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ १॥ सद्योविकासि कुसुमेषु सुगन्धमत्ताः गायन्ति मातरमितं भ्रमरा यशस्ते । तन्मञ्जुनादपरिबोधितदिव्यदेवि श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ २॥ स्नात्वामलः सुरगजः सुरदीर्घिकायां शुण्डोधृताब्जविलसद्वदनेन तूर्णम् । सन्तिष्ठते गृहमुखे तव भक्तवर्यः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ ३॥ शोभां तवैव वदनस्य सदा नवीनां सम्प्राप्य भानुरिह लोकतमःप्रहन्ता । प्राचीं दिशं भजति सोऽपि तवैव भक्तः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ ४॥ पद्मानि सन्ति रुचिराणि मनोहराणि वायुस्तथा वहति मन्दगतिः प्रभाते । चेतोहरीह सुषमा प्रकृतेस्तवेयं श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ ५॥ पूर्वाद्रिसानुशिखरात् क्रमतिष्ठितोऽयं भानुः क्षणं लसति देवि महाप्रकाशः । त्वन्मूर्तिराजीतकिरीटमणिप्रकाशः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ ६॥ त्वद्दर्शनार्थमभियान्ति सुरेन्द्रमुख्याः देवास्त्वदीयपदपङ्कजदत्तचित्ताः । आयोज्य तान् लससि कर्मचये त्वमेव श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ ७॥ प्रत्यग्रपुष्पनिचयं स्वकरैर्गृहित्वा त्वत्पूजनाय मनुजा धृतशुभ्रवस्त्राः । आयान्ति मन्दिरमितस्तव भक्तियुक्ताः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ ८॥ पद्मप्रिये रुचिरपद्ममुखी स्मितासि पद्मालये विजितपद्मविभेत्रि तन्वि । ? तन्नि ? तन्मे त्वं पाहि नूनमनिशं जनतां भयार्तेः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ ९॥ अम्ब त्वमेव जगतां प्रतिमा रिरिक्षुः नित्योऽर्पिता लससि शाश्वतधर्मगोप्त्री । त्वामाश्रिता जहति दुःखचयं हि भक्ताः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ १०॥ मातर्मदीयहृदये सदयं वसाना मज्जीवनं हि कुरु सार्थकमात्मदीत्या । त्वामाश्रितो भवति नैव विपद्भयार्तः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ ११॥ त्वं श्रीहरेर्हृदयमेव सदाऽऽश्रितासि प्रीतिं ततो वहसि लोकशुभाय मातः । तत्प्रेममूर्तिरभयं सदयं तनोषि श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ १२॥ हेम(?)प्रफुल्लनयनाञ्चनरीक्षणेन श्रीमन् तनोषि जगतां दयया दयाब्धे । वात्सल्यमूर्तिरसि सन्तत लोकमाता श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ १३॥ त्वन्नेत्रभानुसुविकासितपद्मतल्पो भानुश्चकास्ति गगने सतत प्रकाशः । नित्यं न भक्तवलिनी जलमध्यभागे श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ १४॥ मन्दस्मिताङ्कुरविभा कमनीयशोभः चन्द्रो विभाति रुचिरो नभसि प्रदीप्तः । त्वन्मन्दहास इव भाति हि चन्द्रिकेयं श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ १५॥ त्वन्निर्मलेषु हृदयेषु सदैव रूढा तत्संपदं च सततं द्विगुणां करोषि । सम्पन्नता त्वमसि मङ्गलदेवि मातः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ १६॥ आजन्मनः सकललोकविशिष्टवाञ्छाः सम्पूर्य मोक्षमपि देवि त्वमेव तत्से । त्वामाश्रितोऽस्मि वरदायिनि लोकमातः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ १७॥ नारायणस्य परिपूर्णमहत्स्वरूपे नारायणि प्रियतरे कुरु मान्त्रितार्थम् । त्वं श्रीहरिप्रियतमासि तदीयचित्ता श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ १८॥ नेत्राञ्चलप्रणयवर्षणमत्तचित्तो नारायणस्तव सदा रमते हृदब्जे । तत्प्रेममूर्तिरसि देवि सदैव मातः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ १९॥ पश्यात्र देवि मुनिलोकमविप्रपन्नं श्रीसूक्तमन्त्रजपकोटिपवित्रचित्तम् । पायात्तमुग्रतपसं तव भक्तिपूतं श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ २०॥ पृथ्वी-जलं-तपन-वायु-नभांसि चापि त्वामाश्रितानि खलु कर्म सुशक्तिकानि । सर्वं तवैव महिमेति श्रुति समित्ते श्रीदेवि लक्ष्मि सततं भवतात् प्रभातम् ॥ २१॥ श्रुत्यन्तमूर्त्मिनतमानसपद्मपूगे फुल्लारविन्दनिचये च शिशोश्च हासे । त्वं निर्मले वससि देवि सदैव चित्ते श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ २२॥ लक्ष्मि स्वयं वससि शुद्धधनेऽत्र लोके धान्ये तथैव विजये स्वपराक्रमाप्ते । ज्ञाने च शान्तिसहिते परिपूर्णरूपे श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ २३॥ सायन्तने वससि निर्मलगोसमूहे वत्सप्रिये शिशुषु दोहनकर्मसक्ते । दुग्धेऽपिगोरिहसता परिपोषरूपा श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ २४॥ त्वं पर्वतेषु परिरम्यशिखिस्थलेषु पुष्पादिकेषु निबिडेषु वनस्थलेषु । मन्दाकिनीषु तटिनीषु जलस्थलेषु श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ २५॥ प्राणादि संयमपरेषु सदा हृदन्ते नारायणस्पृतिपरेषु च मानवेषु । मातः सदा लससि बोधमहतरूपा श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ २६॥ त्वामाश्रितो जगति पुण्यफलं समस्तं सम्प्राप्नुते तदनुमोक्षपदं प्रविन्ते । त्वामाश्रितश्च मधुसूदनमाश्रितः सन् श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ २७॥ सम्प्रत्यहो मनुजबुद्धिरतीव दुष्टा सम्पत्फलाय कुरुते खलु दुष्टयत्ना । संस्कार्य ताञ्च जननीव समुद्धरेस्त्वं श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ २८॥ न त्वां विना मनुजजन्मफलं जगत्यां सम्प्राप्नुयां (हि) सकलं विकला स्वशक्त्या । तस्मात्त्वमेव परिपाहि दयां कुरुष्व श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥ २९॥ मधुमथनकटाक्षप्रेमभाण्डाररूपा सकलविमलसम्पद्वृद्धिरूपा च लक्ष्मीः । लसतु मम हृदब्जे पूर्णबोधात्मना सा दिशतु च भुवि सर्वं योग्यमात्यन्तिकं च ॥ ३०॥ ॐ शान्तिः शान्तिः शान्तिः । NA, PSA Easwaran