अक्षर आकार:

श्रीलक्ष्मीस्तुतिः २

Shri Lakshmi Stuti 2

श्रीलक्ष्मीस्तुतिः २

(पृथ्वी) पयोधितनये रमेऽमतसहोदर त्वां भजे दयामयि सदा दयां कुरु मयि त्वमेतावती । कराम्बुजनिवासिनी भव सदा ममोद्धारिणी मदीयसदने सदा निवस पद्मनाभप्रिये ॥ १॥ सरोजवदनाम्बुजे सरसिजासनाधिष्ठिते सरोरुहपदाम्बुजे सरसिजोरुपद्मासने । सरोजनयने सदा सरसिजप्रिये देवते मदन्तरनिवासिनी भव सदा जगन्मोहिनी ॥ २॥ नमामि हरिवल्लभां सकलभाग्यदामिन्दिरां भजामि भवतारिणीं सकलभक्तकामप्रदाम् । स्तवीमि मनसा तथा स्तवनगायनैस्त्वां सदा भवामि नतमस्तकस्तव पुरो हिरण्यप्रदे ॥ ३॥ नमन्ति मुनिनां गणा नृपतयो महीपा अपि स्तुवन्ति विबुधास्तथा मनुजराक्षसास्त्वां सदा । त्वयैव मधुसूदनो भवति देवि लक्ष्मीयुत- स्त्वया विरहितः प्रभुर्भवति वामनो सिन्धुजे ॥ ४॥ त्वमेव कृपया धनं वितर देवि दीने जने भवामि नतमस्तकस्तव पुरः सुरैः पूजिते । अशेषभयनाशिनी त्वमसि शेषशय्याङ्गने नतोऽस्मि पदपङ्कजे तव च लक्ष्म्यतोऽहं सदा ॥ ५॥ सरोजवदने सदा तव कृपाकटाक्षं क्षिप स्मिताननसरोरुहे मधुतरां गिरं देहि मे । ममाशिवविनाशिनी भव सदा सुचन्द्रानने भवाब्धिसलिलाद् द्रुतं जननि तारयेमं जनम् ॥ ६॥ भ्रमामि भववालुकानिकरतप्तदेहः सदा कृपासलिलवर्षिणी भव दयाम्बुकादम्बिनी । तवैव कृपया दयामयि मनः सदैवाऽस्तु मे स्वधर्मपरिपालने, कुरु च मां समर्थं जने ॥ ७॥ हिरण्मयि सुवर्णदे कनकदेवते पाहि मां प्रयच्छ सुधनं सदा विधनिने हिरण्याथिने । त्वदीयचरणाम्बुजे सरसिजे मम प्रार्थना त्वया सह निरन्तरं वसतु मद्गृहे माधवः ॥ ८॥ लक्ष्मीस्तुतिमिमां रम्यां श्रद्धया यः पठेन्नरः । विनाश्य विपदं तस्य लक्ष्मीः सौभाग्यदा भवेत् ॥ ९॥ इति श्री आपटीकरविरचिता श्रीलक्ष्मीस्तुतिः समाप्ता ।