अक्षर आकार:

श्रीलक्ष्मीस्तोत्रं लोपामुद्रा

Shri LakShmistotra by LopAmudra

श्रीलक्ष्मीस्तोत्रं लोपामुद्रा

॥ पूर्व पीठिका ॥ लोपामुद्रा श्रियाः पादौ धृत्वाननाम सादरम् । ववन्दे स्तवनं चक्रे तव लक्ष्मि सदा सती ॥ १॥ श्रुणु तत् स्तवनं येन स्तावकाः स्युर्धनाश्रयाः । नैकसम्पत् समायुक्ताः त्वया प्रसन्नयेक्षिताः ॥ २॥ ॥ मूलपाठ श्रीलोपामुद्रा उवाच ॥ मातर्नमामि कमले पद्मायतसुलोचने । श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु ते ॥ १॥ क्षीरसागरसत्पुत्रि पद्मगर्भाभसुन्दरि । लक्ष्मि प्रसीद सततं विश्वमातर्नमोऽस्तु ते ॥ २॥ महेन्द्रसदने त्वं श्रीः रुक्मिणि कृष्णभामिनि । चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्वमातर्नमोऽस्तु ते ॥ ३॥ स्मितानने जगध्दात्रि शरण्ये सुखवर्द्धिनि । जातवेदसि दहने विश्वमातर्नमोऽस्तु ते ॥ ४॥ ब्रह्माणि त्वं सर्जनाऽसि विष्णौ त्वं पोषिका सदा । शिवौ संहारिका शक्तिः विश्वमातर्नमोऽस्तु ते ॥ ५॥ त्वया शूरागुणीविज्ञा धन्यामान्याकुलीनका । कलाशीलकलापाढ्यै विश्वमातर्नमोऽस्तु ते ॥ ६॥ त्वया गजस्तुरङ्गश्च स्त्रैणस्तृर्णं सरः सदः । देवो गृहं कणः श्रेष्ठा विश्वमातर्नमोऽस्तु ते ॥ ७॥ त्वया पक्षीपशुः शय्या रत्नं पृथ्वी नरो वधूः । श्रेष्ठा शुध्दा महालक्ष्मि विश्वमातर्नमोऽस्तु ते ॥ ८॥ लक्ष्मि श्रि कमले पद्मे रमे पद्मोद्भवे सति । अब्धिजे विष्णुपत्नि त्वं प्रसीद सततं प्रिये ॥ ९॥ ॥ फल श्रुतिः ॥ इति स्तुता प्रसन्ना च श्रीरुवाच पतिव्रताम् । लोपामुद्रे मुने जाने वां यत हृत्तापकारणम् ॥ १॥ सुचेतनं दुनोत्येव काशीविश्लेषजोऽनलः । युवां वाराणसीं प्राप्य सिध्दिं प्रप्यस्थ ईप्सिताम् ॥ २॥ ये पठिष्यन्ति मत्स्तोत्रं तापदारिद्र्यनाशकम् । इष्टसम्पत्प्रदं तेषां जयसन्ततिकारकम् ॥ ३॥ मम सान्निध्यदं बालग्रहादिव्यधिनाशनम् । भविष्यति मम सारुप्यादिप्रमोक्षणं तथा ॥ ४॥ ॥ श्रीलक्ष्मीनरायणसंहितायां श्रीलोपामुद्राकृत श्रीलक्ष्मीस्तोत्रम् ॥