अक्षर आकार:

श्रीलक्ष्मीसहस्रनामस्तोत्रम् २

shrIlakShmIsahasranAmastotram 2

श्रीलक्ष्मीसहस्रनामस्तोत्रम् २

(नारदीयोपपुराणतः) मित्रसह उवाच- भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद । पावनानां हि महसां निदानं त्वं महामुने ॥ १॥ अतर्कितेनागमेन तव तुष्टोऽस्मि सर्वदा । हृदयं निर्वृतं मेऽद्य महादुःखौघपीडितम् ॥ २॥ देवा गृहेषु सन्तुष्टाः तारिताः पितरश्च ये । चिराय मे मनस्यस्ति संशयो बलवत्तरः ॥ ३॥ पृच्छामि त्वामहं तं वै उत्तरं दातुमर्हसि । इष्टं मया च बहुभिः यज्ञैस्सम्पूर्णदक्षिणैः ॥ ४॥ दानानि च महार्हाणि पात्रेषु स्पर्शितानि च । अनृतं नोक्तपूर्वं मे प्रजा धर्मेण पालिताः ॥ ५॥ पतिव्रता महाभागा नित्यं सुस्निग्धभाषिणी । पूज्यान् गृहागतान् सर्वानाराधयति नित्यदा ॥ ६॥ तथा हि सेवते देवान् यथाऽहमपि नाशकम् । भार्याऽनुकूला मे देवी मदयन्ती मनस्विनी ॥ ७॥ तथापि दुःखं सम्प्राप्तं मया द्वादशवार्षिकम् । राक्षसत्वं महाघोरं सम्पूर्णनरकोपमम् ॥ ८॥ तत्र वृत्तानि कार्याणि स्मृत्वा मे वेपते मनः । भक्षिताः कति वा तत्र द्विपदाश्च चतुष्पदाः ॥ ९॥ तत्सर्वमस्तु तन्नैव चिन्त्यते शापहेतुकम् । गुरुपुत्रे गुरुसमः शक्तिः सम्भक्षितो मया ॥ १०॥ ब्रह्महत्याकृतं पापं कथं मे न भविष्यति । शापाद्राक्षसता काले प्राप्ता यद्यपि तन्मया ॥ ११॥ रात्रिन्दिवं मे दहति हृदयं हि सबन्धनम् । न रोचते मे भुक्तिर्वा सुप्तिर्वापि गतिर्बहिः ॥ १२॥ महाबन्धनमेतन्मे राज्यं हि मनुते मनः । किन्नु तत्कारणं येन प्राप्तोऽहं तादृशीं शुचम् ॥ १३॥ वक्तुमर्हसि सर्वज्ञ तत्प्रायश्चित्तविस्तरम् । उपादिश महामन्त्रतन्त्रज्ञ प्रणताय मे ॥ १४॥ श्रीनारद उवाच- श‍ृणु राजन्प्रवक्ष्यामि प्राग्जन्मचरितं तव । येनेदृशं त्वया प्राप्तं दुःखमत्यन्तदुस्सहम् ॥ १५॥ पुराभूद्बाह्मणः कश्चित्ताम्रपर्णिनदीतटे । दरिद्रोऽत्यन्तदुर्भाग्यः बहुपुत्रकुटुम्बवान् ॥ १६॥ कृष्णशर्मेति विख्यातः वेदवेदाङ्गतत्ववित् । तव भार्याऽभवत्पुण्या सदा चण्डी कुरूपिणी ॥ १७॥ किन्तु शक्तिव्रताचारेऽप्रतिमा शुद्धमानसा । कटुवाङ्मानिनी नाम्ना क्षुत्पिपासार्दिता सदा ॥ १८॥ दारिद्र्यशमनार्थं त्वं सर्वलक्षणलक्षितम् । कल्पयित्व श्रियो मूर्तिं भक्त्या पूजितवान्गृहे ॥ १९॥ मानिन्यप्यन्वहं भक्त्या गोमयालेपनादिभिः । रङ्गवल्याप्यलङ्कृत्य पूजास्थानं गृहे तव ॥ २०॥ पायसापूपनैवेद्यैः सा त्वां पर्यचरन्मुदा । एकदा भृगुवारे त्वां सहस्रकमलार्चनम् ॥ २१॥ विधातुं विष्णुपत्न्यास्तु पद्मान्यानयितुं गतः । गतेऽर्धदिवसे गेहं प्राप्य खिन्नोऽनयोदितः ॥ २२॥ हन्तार्धदिवसोऽतीतः कदा देवानसङ्ख्यकान् । अभ्यर्च्याथ श्रियो देव्याः सहस्रकमलार्चनम् ॥ २३॥ कृत्वा भुक्त्वा कदाऽन्नं नो दर्शयिष्यसि ताम्यताम् । बाला रुदन्ति क्षुधिताः पक्वं भवति शीतलम् ॥ २४॥ इति तस्यां भर्त्सयन्त्यां तूष्णीं पूजामधाद्भवान् । सहस्रपद्मपूजायां चलन्त्यां मध्यतस्तु सा ॥ २५॥ असमर्था क्षुधं सोढुं बालैस्सह बुभोज ह । तदा त्वं कुपितोऽप्येनां न च किञ्चिदपि ब्रुवन् ॥ २६॥ गृहान्निर्गत्य शान्तात्मा किं कृत्यमिति चिन्तयन् । निर्यान्तं त्वां तु सा प्राह क्व गच्छसि सुदुर्मते ॥ २७॥ अनिर्वर्त्य श्रियः पूजां प्रारब्धां सुमहादरम् । पृथङ्नैवेद्यमस्तीह नास्माभिर्भक्षितं हि तत् ॥ २८॥ कालात्ययात्क्षुधार्तानां भुक्तिं देवी सहिष्यते । तद्विधेहि श्रियः पूजां मा स्म निष्कारणं क्रुधः ॥ २९॥ नरके मा पतो बुद्ध्या मां च पातय मा वृथा । इति तस्यां ब्रुवाणायां त्वं गृहान्निरगाः क्रुधा ॥ ३०॥ सद्यः सन्यस्य विपिनेऽवात्सीस्त्वं विधिना किल । यतित्वेऽपि सदा बुद्ध्या पूर्वाश्रमकथां स्मरन् ॥ ३१॥ दारिद्र्यं सर्वधर्माणां प्रत्यूहाय प्रवर्तते । सत्यप्यस्मिन्धर्मपत्नी अनुकूला भवेद्यदि ॥ ३२॥ नरस्य जन्म सुखितं नान्यथाऽर्थशतैरपि । वन्ध्याजानिस्स भवतु अनुकूलकलत्रवान् ॥ ३३॥ लभते जन्मसाफल्यमेतद्देव्याः प्रसादजम् । इत्येवं चिन्तयन्नेव त्यक्त्वा देहं तरोस्तले ॥ ३४॥ इक्ष्वाकुवंशे जातस्त्वं राजा मित्रसहाभिधः । रुषा परवशो यस्मादसमाप्य श्रियोऽर्चनम् ॥ ३५॥ निर्गतोऽसि गृहात्तस्माद्दुःखमेतदुपस्थितम् । सापि त्वयि विनिर्याते पश्चात्तापवती भृशम् ॥ ३६॥ प्रक्षालिताङ्घ्रिहस्ताऽथ प्रयताऽऽचम्य सत्वरम् । नैवेद्यं स्वयमीश्वर्यै प्रणम्य च निवेद्य च ॥ ३७॥ अम्ब सर्वस्य लोकस्य जनन्यसि सहस्व तत् । आगांसि मम नागारिकेतनोरःस्थलालये ॥ ३८॥ यस्यां जातौ तु मे भर्ता तत्पूजापुण्यतो भवेत् । भवेयमहमप्यत्र जातौ तं चाप्नुयां यथा ॥ ३९॥ कामक्रोधादिहीना स्यां तथाम्बानुग्रहं कुरु । इति देवीं प्रार्थयन्ती जीवन्ती कृच्छ्रतो भुवि ॥ ४०॥ त्यक्त्वा देहं पुनर्जाता राजवंशे सुपावने । मदयन्तीति नाम्ना वै तव भार्याऽभवत्पुनः ॥ ४१॥ अभुक्ते त्वयि भुत्क्या सा वन्ध्या जाता वधूमणिः । उभयोर्भवतोर्लक्ष्मीपूजायामपराधतः ॥ ४२॥ उभावपि महादुःखं प्राप्तौ द्वादशवर्षिकम् । त्यक्त्वा राज्यं च कोशञ्च दरिद्रावतिदुःखितौ ॥ ४३॥ मा ब्रह्महत्यादोषात्त्वं भैषी राजन् कथञ्चन । यां जातिमनुविष्टो हि तादृशीं त्वं क्रियामधाः ॥ ४४॥ किन्तु भूयश्च्युते राज्याद्भेतव्यं श्रीप्रकोपतः । नाम्नां तदद्य श्रीदेव्याः सहस्रेण शतेन च ॥ ४५॥ अष्टोत्तरेण पद्मानां पुञ्जतस्तां प्रपूजय । भवेत्तव स्थिरं राज्यं दुःखं नाण्वपि ते भवेत् ॥ ४६॥ भार्या ते सापि शुश्रूषां स्वयमेव करोतु ते । वर्षमात्रं पूजिता सा लक्ष्मीर्नारायणप्रिया ॥ ४७॥ युवयोस्सर्वकामानां दात्री स्यान्नात्र संशयः । स्त्रीसङ्गप्रतिहन्ताऽस्ति शापो यद्यपि ते प्रभो ॥ ४८॥ प्रसोष्यते च तनयं तव भार्या कथञ्चन । पुत्रपौत्राभिवृद्ध्या त्वं मोदिष्यसि महेन्द्रवत् ॥ ४९॥ यथा पृष्टं महाभाग दुःखहेतुस्तवोदितः । उक्तस्तत्परिहारोऽपि किमिच्छसि पुनर्वद ॥ ५०॥ राजोवाच- धन्योऽस्म्यनुगृहीतोऽस्मि महर्षे कृपया तव । मत्तो न विद्यते कश्चिल्लोकेऽस्मिन् भाग्यवत्तरः ॥ ५१॥ तव पादाब्जयुगले प्रणामानां शतं शतम् । करोमि पाहि मां विप्र कुलोत्तंस दयानघ ॥ ५२॥ नाम्नां सहस्रं श्रीदेव्या अष्टोत्तरशताधिकम् । प्रब्रूहि मे मुनिश्रेष्ठ पूजाया विधिमप्यथ ॥ ५३॥ जपस्य च विधिं तेषां नाम्नां शुश्रूषवे वद । सूत उवाच- इति राज्ञा मुनिश्रेष्ठः पृष्टस्सविनयं ततः ॥ ५४॥ नमस्कृत्य श्रियै पश्चाद्ध्यात्वोवाच महीपतिम् । श्रीनारद उवाच- सम्यक् पृष्टं महाराज सर्वलोकहितं त्वया ॥ ५५॥ वक्ष्यामि तानि नामानि पूजाञ्चापि यथाक्रमम् । पलमानसुवर्णेन रजतेनाथ ताम्रतः ॥ ५६॥ चतुर्भुजां पद्मधरां वराभयविशोभिनीम् । निषण्णां फुल्लकमले चतुर्दन्तैः सितैर्गजैः ॥ ५७॥ सुवर्णघण्टामुखरैः कृतक्षीराभिषेचनाम् । कटकाङ्गदमञ्जीररशनादि विभूषणैः ॥ ५८॥ विभूषितां क्षौमवस्त्रां सिन्दूरतिलकाञ्चिताम् । प्रसन्नवदनाम्भोजां प्रपन्नार्तिविनाशिनीम् ॥ ५९॥ छत्रचामरहस्ताढ्यैः सेवितामप्सरोगणैः । कृत्वैवं प्रतिमां तां च प्रतिष्ठाप्य यथाविधि ॥ ६०॥ श्रीं लक्ष्म्यै नम इत्येव ध्यानावाहनपूर्वकान् । उवचारांश्चतुष्षष्टिं कल्पयेत गृहे सुधीः ॥ ६१॥ प्रतिमाया अलाभे तु लक्ष्म्यास्सम्प्राप्य चालयम् । कारयेदुपचारांस्तु यथाविध्यर्चकैर्मुदा ॥ ६२॥ तस्याप्यभावे त्वालेख्ये लिखितां वर्णकैस्तथा । पूजयेत्तस्य चाभावे कृतां चन्दनदारुणा ॥ ६३॥ तदभावे चन्दनेन रचितां पूजयेद्रमाम् । एषामभावे विकचे कमले कर्णिकागताम् ॥ ६४॥ ध्यात्वा तथाविधां देवीमादरेण प्रपूजयेत् । कमलानां सहस्रेणाप्यष्टोत्तरशतेन च ॥ ६५॥ अर्चयेदिन्दिरापादौ ध्यात्वाभीष्टानि चेतसि । श्रीदेव्या नामसाहस्रं अष्टोत्तरशताधिकम् ॥ ६६॥ अथातस्सम्प्रवक्ष्यामि श‍ृणु नान्यमना नृप । पारायणप्रकारः ॥ ॐ अस्य श्रीमहालक्ष्मीसहस्रनामस्तोत्रमहामन्त्रस्य नारद ऋषिः । अनुष्टुपछन्दः । श्रीमहालक्ष्मीर्देवता । ह्रां बीजम् । ह्रिं शक्तिः । ह्रूं कीलकम् । श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे श्रीमहालक्ष्मीसहस्रनाममन्त्रजपे विनियोगः ॥ ॐ ह्लां हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । अङ्गुष्ठाभ्याण् नमः । मं ह्लीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो न आवह । तर्जनीभ्यां नमः । हां ह्लूं तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । मध्यमाभ्यां नमः । लं ह्लैं यस्यां हिरण्यं विन्देयं गामश्वम्पुरुषानहम् । अनामिकाभ्यां नमः । क्ष्म्यैं ह्लौं श्रियं देवीमुपह्वये श्रीर्मा देवी जुषतम् । करतलकरपृष्ठाभ्यां नमः ॥ ॐ ह्लां कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । हृदयाय नमः । मं ह्लीं पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् । शिरसे स्वाहा । हां ह्लूं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । शिखायै वषट् । लं ह्लैं तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे । कवचाय हुम् । क्ष्म्यैं ह्रौं आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । नेत्रत्रयाय वौषट् । नमः ह्लः तस्य फलानि तपसा नुदान्तु मायान्तरायाश्च बाह्या अलक्ष्मीः । अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम्- लक्ष्मीदेवीं द्विपद्माभयवरदकरां तप्तकार्तस्वराभां शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमानाम् । रत्नौघाबद्धमौलिं विमलतरदुकूलार्तवालेपनाढ्यां पद्माक्षीं पद्मनाभोरसि कृतवसतिं पद्मगां चिन्तयामि ॥ लं पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पाणि समर्पयामि । यं वाय्वात्मिकायै धूपमाघ्रापयामि । रं वह्न्यात्मिकायै । दीपं दर्शयामि । वं अमृतात्मिकायै । अमृतं निवेदयामि । सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि । पारायणान्ते ॐ ह्लां उपैतु मां देवसखः कीर्तिश्च मणिना सह । हृदयाय नमः । मं ह्लीं प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे । शिरसे स्वाहा । हां ह्लूं क्षुत्पिपासामलां ज्येष्ठां अलक्ष्मीं नाशयाम्यहम् । शिखायै वषट् । लं ह्लैं अभूतिमसमृद्धिञ्च सर्वां निर्णुद मे गृहात् । कवचाय हुम् । क्ष्म्यैं ह्लौं गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । नैत्रत्रयाय वौषट् । नमः ह्लः ईश्वरीं सर्वभूतानां तामिहोपह्नये श्रियम् । अस्त्राय हट् ॥ भूर्भुवस्सुवरोमिति दिग्विमोकः । ध्यानम् । लमित्यादि पञ्चपूजा । अथ श्रीलक्ष्मीसहस्रनामस्तोत्रम् ॥ श्रीनारद उवाच - महालक्ष्मीर्महेशाना महामाया मलापहा । विष्णुपत्नी विधीशार्च्या विश्वयोनिर्वरप्रदा ॥ १॥ धात्री विधात्री धर्मिष्ठा धम्मिल्लोद्भासिमल्लिका । भार्गवी भक्तिजननी भवनाथा भवार्चिता ॥ २॥ भद्रा भद्रप्रदा भव्या भक्ताभीष्टफलप्रदा । प्रळयस्था प्रसिद्धा मा प्रकृष्टैश्वर्यदायिनी ॥ ३॥ विष्णुशक्तिर्विष्णुमाया विष्णुवक्षःस्थलस्थिता । वाग्रूपा वाग्विभूतिज्ञा वाक्प्रदा वरदा वरा ॥ ४॥ सम्पत्प्रदा सर्वशक्तिः संविद्रूपा समाऽसमा । हरिद्राभा हरिन्नाथपूजिता हरिमोहिनी ॥ ५॥ हतपापा हतखला हिताहितविवर्जिता । हिताहितपराऽहेया हर्षदा हर्षरूपिणी ॥ ६॥ वेदशास्त्रालिसंसेव्या वेदरूपा विधिस्तुता । श्रुतिः स्मृतिर्मतिः साध्वी श्रुताऽश्रुतधरा धरा ॥ ७॥ श्रीः श्रिताघध्वान्तभानुः श्रेयसी श्रेष्ठरूपिणी । इन्दिरा मन्दिरान्तस्था मन्दुरावासिनी मही ॥ ८॥ धनलक्ष्मीर्धनकरी धनिप्रीता धनप्रदा । धानासमृद्धिदा धुर्या धुताघा धौतमानसा ॥ ९॥ धान्यलक्ष्मीर्दारिताघा दारिद्र्यविनिवारिणी । वीरलक्ष्मीर्वीरवन्द्या वीरखड्गाग्रवासिनी ॥ १०॥ अक्रोधनाऽलोभपरा ललिता लोभिनाशिनी । लोकवन्द्या लोकमाता लोचनाधःकृतोत्पला ॥ ११॥ हस्तिहस्तोपमानोरुः हस्तद्वयधृताम्बुजा । हस्तिकुम्भोपमकुचा हस्तिकुम्भस्थलस्थिता ॥ १२॥ राजलक्ष्मी राजराजसेविता राज्यदायिनी । राकेन्दुसुन्दरी रस्या रसालरसभाषणा ॥ १३॥ कोशवृद्धिः कोटिदात्री कोटिकोटिरविप्रभा । कर्माराढ्या कर्मगम्या कर्मणां फलदायिनी ॥ १४॥ धैर्यप्रदा धैर्यरूपा धीरा धीरसमर्चिता । पतिव्रता परतरपुरुषार्थप्रदाऽपरा ॥ १५॥ पद्मालया पद्मकरा पद्माक्षी पद्मधारिणी । पद्मिनी पद्मदा पद्मा पद्मशङ्खादिसेविता ॥ १६॥ दिव्या दिव्याङ्गरागाढ्या दिव्यादिव्यस्वरूपधृत् । दयानिधिर्दानपरा दानवारातिभामिनी ॥ १७॥ देवकार्यपरा देवी दैत्येन्द्रपरिपूजिता । नारायणी नादगता नाकराजसमर्चिता ॥ १८॥ नक्षत्रनाथवदना नरसिंहप्रियाऽनला । जगद्रूपा जगन्नाथा जङ्गमाजङ्गमाकृतिः ॥ १९॥ कविता कञ्जनिलया कम्रा कलिनिषेधिनी । कारुण्यसिन्धुः कमला कमलाक्षी कुचोन्नता ॥ २०॥ बलिप्रिया बलिहरी बलिनी बलिसंस्तुता । हीरभूषा हीनदोषा हानिहर्त्री हतासुरा ॥ २१॥ हव्यकव्यार्चिता हत्यादिकपातकनाशिणी । विशुद्धसत्त्वा विवशा विश्वबाधाहरी वधूः ॥ २२॥ ब्रह्माणी ब्रह्मजननी ब्रह्मरूपा बृहद्वपुः । बन्दीकृतामरवधूमोचिनी बन्धुरालका ॥ २३॥ बिलेशयाङ्गनावन्द्या बीभत्सरहिताऽबला । भोगिनी भुवनाधीशा भोगिभोगशयाऽभया ॥ २४॥ दामोदरप्रिया दान्ता दाशेशपरिसेविता । जामदग्न्यप्रिया जह्नुतनया पावनाङ्घिरका ॥ २५॥ क्षीरोदमथनोद्भूता क्षीराक्ता क्षितिरूपिणी । क्षेमङ्करी क्षयकरी क्षेत्रज्ञा क्षेत्रदायिनी ॥ २६॥ स्वयंवृताच्युता स्वीयरक्षिणी स्वत्वदायिनी । तारकेशमुखी तार्क्ष्यस्वामिनी तारिताश्रिता ॥ २७॥ गुणातीता गुणवती गुण्या गरुडसंस्थिता । गेया गयाक्षेत्रगता गानतुष्टा गतिप्रदा ॥ २८॥ शेषरूपा शेषशायिभामिनी शिष्टसम्मता । शेवधिः शोषिताशेषभुवना शोभनाकृतिः ॥ २९॥ पाञ्चरात्रार्चिता पाञ्चजन्यधार्यङ्कवासिनी । पाषण्डद्वेषिणी पाशमोचनी पामरप्रिया ॥ ३०॥ भयङ्करी भयहरी भर्तृभक्ता भवापहा । ह्रीर्ह्रीमती हृततमाः हतमाया हताशुभा ॥ ३१॥ रघुवंशस्नुषा रामा रम्या रामप्रिया रमा । सीरध्वजसुता सीता सीमातीतगुणोज्ज्वला ॥ ३२॥ जानकी जगदानन्ददायिनी जगतीभवा । भूगर्भसम्भवा भूतिः भूषिताङ्गी भृतानता ॥ ३३॥ वेदस्तवा वेदवती वैदेही वेदवित्प्रिया । वेदान्तवेद्या वीर्याढ्या वीरपत्नी विशिष्टधीः ॥ ३४॥ शिवचापारोपपणा शिवा शिवपरार्चिता । साकेतवासिनी साधुस्वान्तगा स्वादुभक्षिणी ॥ ३५॥ गुहागता गुहनता गुहागतमुनिस्तुता । दरस्मिता दनुजसंहर्त्री दशरथस्नुषा ॥ ३६॥ दायप्रदा दानफला दक्षा दाशरथिप्रिया । कान्ता कान्तारगा काम्या कारणातीतविग्रहा ॥ ३७॥ वीरा विराधसंहर्त्री विश्वमायाविधायिनी । वेद्या वैद्यप्रिया वैद्या वेधोविष्णुशिवाकृतिः ॥ ३८॥ खरदूषणकालाग्निः खरभानुकुलस्नुषा । शूरा शूर्पणखाभङ्गकारिणी श्रुतवल्लभा ॥ ३९॥ सुवर्णमृगतृष्णाढ्या सुवर्णसदृशाङ्गका । सुमित्रासुखदा सूतसंस्तुता सुतदारदा ॥ ४०॥ सुमित्रानुग्रहपरा सुमन्त्रा सुप्रतिष्ठिता । श्यामा श्यामलनेत्रान्ता श्यामन्यग्रोधसेविनी ॥ ४१॥ तुङ्गस्थानप्रदा तुङ्गा गङ्गाप्रार्थनतत्परा । गतिप्रिया गर्भरूपा गतिर्गतिमती च गौः ॥ ४२॥ गर्वदूरा गर्वहरी गतिनिर्जितहंसिका । दशाननवधोद्युक्ता दयासिन्धुर्दशातिगा ॥ ४३॥ सेतुहेतुर्हेतुहीना हेतुहेतुमदात्मिका । हनूमत्स्वामिनी हृष्टा हृष्टपुष्टजनस्तुता ॥ ४४॥ वामकेशी वामनेत्री वाद्या वादिजयप्रदा । धनधान्यकरी धर्म्या धर्माधर्मफलप्रदा ॥ ४५॥ समुद्रतनया स्तुत्या समुद्रा सद्रसप्रदा । सामप्रिया सामनुता सान्त्वोक्तिः सायुधा सती ॥ ४६॥ शीतीकृताग्निः शीतांशुमुखी शीलवती शिशुः । भस्मीकृतासुरपुरा भरताग्रजभामिनी ॥ ४७॥ राक्षसीदुःखदा राज्ञी राक्षसीगणरक्षिणी । सरस्वती सरिद्रूपा सन्नुता सद्गतिप्रदा ॥ ४८॥ क्षमावती क्षमाशीला क्षमापुत्री क्षमाप्रदा । भर्तृभक्तिपरा भर्तृदैवता भरतस्तुता ॥ ४९॥ दूषणारातिदयिता दयितालिङ्गनोत्सुका । अल्पमध्याऽल्पधीदूरा कल्पवल्ली कलाधरा ॥ ५०॥ सुग्रीववन्द्या सुग्रीवा व्यग्रीभावावितानता । नीलाश्मभूषा नीलादिस्तुता नीलोत्पलेक्षणा ॥ ५१॥ न्याय्या न्यायपराऽऽराध्या न्यायान्यायफलप्रदा । पुण्यदा पुण्यलभ्या च पुरुषोत्तमभामिनी ॥ ५२॥ पुरुषार्थप्रदा पुण्या पण्या फणिपतिस्तुता । अशोकवनिकास्थानाऽशोका शोकविनाशिनी ॥ ५३॥ शोभारूपा शुभा शुभ्रा शुभ्रदन्ता शुचिस्मिता । पुरुहूतस्तुता पूर्णा पूर्णरूपा परेशया ॥ ५४॥ दर्भाग्रधीर्दहरगा दर्भब्रह्मास्त्रभामिनी । त्रैलोक्यमाता त्रैलोक्यमोहिनी त्रातवायसा ॥ ५५॥ त्राणैककार्या त्रिदशा त्रिदशाधीशसेविता । लक्ष्मणा लक्ष्मणाराध्या लक्ष्मणाग्रजनायिका ॥ ५६॥ लङ्काविनाशिनी लक्ष्या ललना ललिताशया । तारकाख्यप्रिया तारा तारिका तार्क्ष्यगा तरिः ॥ ५७॥ ताटकारातिमहिषी तापत्रयकुठारिका । ताम्राधरा तार्क्ष्यनुता ताम्राक्षी तारितानता ॥ ५८॥ रघुवंशपताका श्रीरघुनाथसधर्मिणी । वनप्रिया वनपरा वनजाक्षी विनीतिदा ॥ ५९॥ विद्याप्रिया विद्वदीड्या विद्याऽविद्याविनाशिनी । सर्वाधारा शमपरा शरभङ्गमुनिस्तुता ॥ ६०॥ बिल्वप्रिया बलिमती बलिसंस्तुतवैभवा । बलिराक्षससंहर्त्री बहुका बहुविग्रहा ॥ ६१॥ क्षत्रियान्तकरारातिभार्या क्षत्रियवंशजा । शरणागतसंरक्षा शरचापासिपूजिता ॥ ६२॥ शरीरभाजितरतिः शरीरजहरस्तुता । कल्याणी करुणामूर्तिः कलुषघ्नी कविप्रिया ॥ ६३॥ अचक्षुरश्रुतिरपादाप्राणा चामना अधीः । अपाणिपादाऽप्यव्यक्ता व्यक्ता व्यञ्जितविष्टपा ॥ ६४॥ शमीप्रिया सकलदा शर्मदा शर्मरूपिणी । सुतीक्ष्णवन्दनीयाङ्घ्रिः सुतवद्वत्सला सुधीः ॥ ६५॥ सुतीक्ष्णदण्डा सुव्यक्ता सुतीभूतजगत्त्रया । मधुरा मधुरालापा मधुसूदनभामिनी ॥ ६६॥ माध्वी च माधवसती माधवीकुसुमप्रिया । परा परभृतालापा परापरगतिप्रदा ॥ ६७॥ वाल्मीकिवदनाम्भोधिसुधा बलिरिपुस्तुता । नीलाङ्गदादिविनुता नीलाङ्गदविभूषिता ॥ ६८॥ विद्याप्रदा वियन्मध्या विद्याधरकृतस्तवा । कुल्या कुशलदा कल्या कला कुशलवप्रसूः ॥ ६९॥ वशिनी विशदा वश्या वन्द्या वन्दारुवत्सला । माहेन्द्री महदा मह्या मीनाक्षी मीनकेतना ॥ ७०॥ कमनीया कलामूर्तिः कुपिताऽकुपिता कृपा । अनसूयाङ्गरागाङ्काऽनसूया सूरिवन्दिता ॥ ७१॥ अम्बा बिम्बाधरा कम्बुकन्धरा मन्थरा उमा । रामानुगाऽऽरामचरी रात्रिञ्चरभयङ्करी ॥ ७२॥ एकवेणीधरा भूमिशयना मलिनाम्बरा । रक्षोहरी गिरिलसद्वक्षोजा ज्ञानविग्रहा ॥ ७३॥ मेधा मेधाविनी मेध्या मैथिली मातृवर्जिता । अयोनिजा वयोनित्या पयोनिधिसुता पृथुः ॥ ७४॥ वानरर्क्षपरीवारा वारिजास्या वरान्विता । दयार्द्राऽभयदा भद्रा निद्रामुद्रा मुदायतिः ॥ ७५॥ गृध्रमोक्षप्रदा गृध्नुः गृहीतवरमालिका । श्वश्रेयसप्रदा शश्वद्भवा शतधृतिप्रसूः ॥ ७६॥ शरत्पद्मपदा शान्ता श्वशुरार्पितभूषणा । लोकाधारा निरानन्दा नीरागा नीरजप्रिया ॥ ७७॥ नीरजा निस्तमा निःस्वा नीरीतिर्नीतिनैपुणा । नारीमणिर्नराकारा निराकाराऽनिराकृता ॥ ७८॥ कौमारी कौशलनिधिः कौशिकी कौस्तुभस्वसा । सुधाकरानुजा सुभ्रूः सुजाता सोमभूषणा ॥ ७९॥ काली कलापिनी कान्तिः कौशेयाम्बरमण्डिता । शशक्षतजसंरक्तचन्दनालिप्तगात्रका ॥ ८०॥ मञ्जीरमण्डितपदा मञ्जुवाक्या मनोरमा । गायत्र्यर्थस्वरूपा च गायत्री गोगतिप्रदा ॥ ८१॥ धन्याऽक्षरात्मिका धेनुः धार्मिका धर्मवर्धिनी । एलालकाऽप्येधमानकृपा कृसरतर्पिता ॥ ८२॥ कृष्णा कृष्णालका कृष्टा कष्टघ्नी खण्डिताशरा । कलालापा कलहकृद्दूरा काव्याब्धिकौमुदी ॥ ८३॥ अकारणा कारणात्मा कारणाविनिवर्तिनी । कविप्रिया कवनदा कृतार्था कृष्णभामिनी ॥ ८४॥ रुक्मिणी रुक्मिभगिनी रुचिरा रुचिदा रुचिः । रुक्मप्रिया रुक्मभूषा रूपिणी रूपवर्जिता ॥ ८५॥पृ अभीष्मा भीष्मतनया भीतिहृद्भूतिदायिनी । सत्या सत्यव्रता सह्या सत्यभामा शुचिव्रता ॥ ८६॥ सम्पन्ना संहिता सम्पत् सवित्री सवितृस्तुता । द्वारकानिलया द्वारभूता द्विपदगा द्विपात् ॥ ८७॥ एकैकात्मैकरूपैकपत्नी चैकेश्वरी प्रसूः । अज्ञानध्वान्तसूर्यार्चिः दारिद्र्याग्निघनावली ॥ ८८॥ प्रद्युम्नजननी प्राप्या प्रकृष्टा प्रणतिप्रिया । वासुदेवप्रिया वास्तुदोषघ्नी वार्धिसंश्रिता ॥ ८९॥ वत्सला कृत्स्नलावण्या वर्ण्या गण्या स्वतन्तिरका । भक्ता भक्तपराधीना भवानी भवसेविता ॥ ९०॥ राधापराधसहनी राधिताशेषसज्जना । कोमला कोमलमतिः कुसुमाहितशेखरा ॥ ९१॥ कुरुविन्दमणिश्रेणीभूषणा कौमुदीरुचिः । अम्लानमाल्या सम्मानकारिणी सरयूरुचिः ॥ ९२॥ कटाक्षनृत्यत्करुणा कनकोज्ज्वलभूषणा । निष्टप्तकनकाभाङ्गी नीलकुञ्चितमूर्धजा ॥ ९३॥ विश‍ृङ्खला वियोनिस्था विद्यमाना विदांवरा । श‍ृङ्गारिणी शिरीषाङ्गी शिशिरा शिरसि स्थिता ॥ ९४॥ सूर्यात्मिका सूरिनम्या सूर्यमण्डलवासिनी । वह्निशैत्यकरी वह्निप्रविष्टा वह्निशोभिता ॥ ९५॥ निर्हेतुरक्षिणी निष्काभरणा निष्कदायिनी । निर्ममा निर्मितजगन्निस्तमस्का निराश्रया ॥ ९६॥ निरयार्तिहरी निघ्ना निहिता निहतासुरा । राज्याभिषिक्ता राज्येशी राज्यदा राजिताश्रिता ॥ ९७॥ राकेन्दुवदना रात्रिचरघ्नी राष्ट्रवल्लभा । श्रिताच्युतप्रिया श्रोत्री श्रीदामसखवल्लभा ॥ ९८॥ रमणी रमणीयाङ्गी रमणीयगुणाश्रया । रतिप्रिया रतिकरी रक्षोघ्नी रक्षिताण्डका ॥ ९९॥ रसरूपा रसात्मैकरसा रसपराश्रिता । रसातलस्थिता रासतत्परा रथगामिनी ॥ १००॥ अश्वारूढा गजारूढा शिबिकातलशायिनी । चलत्पादा चलद्वेणी चतुरङ्गबलानुगा ॥ १०१॥ चञ्चच्चन्द्रकराकारा चतुर्थी चतुराकृतिः । चूर्णीकृताशरा चूर्णालका चूतफलप्रिया ॥ १०२॥ शिखाशीघ्रा शिखाकारा शिखाविधृतमल्लिका । शिक्षाशिक्षितमूर्खालिः शीताऽशीता शताकृतिः ॥ १०३॥ वैष्णवी विष्णुसदृशी विष्णुलोकप्रदा वृषा । वीणागानप्रिया वीणा वीणाधरमुनिस्तुता ॥ १०४॥ वैदिकी वैदिकाचारप्रीता वैदूर्यभूषणा । सुन्दराङ्गी सुहृत्स्फीता साक्षिणी साक्षमालिका ॥ १०५॥ क्रिया क्रियापरा क्रूरा क्रूरराक्षसहारिणी । तल्पस्था तरणिस्थाना तापत्रयनिवारिणी ॥ १०६॥ तीर्णप्रतिज्ञा तीर्थेशी तीर्थपादा तिथिप्रिया । चर्या चरणदा चीर्णा चीराङ्का चत्वरस्थिता ॥ १०७॥ लता लताङ्गी लावण्या लघ्वी लक्ष्याशरालया । लीला लीलाहतखला लीना लीढा शुभावलिः ॥ १०८॥ लूतोपमाना लूनाघा लोलाऽलोलविभूतिदा । अमर्त्या मर्त्यसुलभा मानुषी मानवी मनुः ॥ १०९॥ सुगन्धा सुहिता सूक्ष्मा सूक्ष्ममध्या सुतोज्ज्वला । मणिर्मणिमती मञ्जुगमना महिता मुनिः ॥ ११०॥ मिताऽमितसुखाकारा मीलिता मीनलोचना । गोमती गोकुलस्थाना गोदा गोकुलवासिनी ॥ १११॥ गजेन्द्रगामिनी गम्या माद्री मायाविनी मधुः । त्रिलोचननुता त्रिष्टुबनष्टुप्पङ्क्तिरूपिणी ॥ ११२॥ द्विपात्त्रिपादष्टपदी नवपाच्च चतुष्पदी । पङ्क्त्याननोपदेष्ट्री च शारदा पङ्क्तिपावनी ॥ ११३॥ शेखरीभूतशीतांशुः शेषतल्पाधिशायिनी । शेमुषी मुषिताशेषपातका मातृकामयी ॥ ११४॥ शिववन्द्या शिखरिणी हरिणी करिणी सृणिः । जगच्चक्षुर्जगन्माता जङ्गमाजङ्गमप्रसूः ॥ ११५॥ सर्वशब्दा सर्वमुक्तिः सर्वभक्तिस्समाहिता । क्षीरप्रिया क्षालिताघा क्षीराम्बुधिसुताऽक्षया ॥ ११६॥ मायिनी मथनोद्भूता मुग्धा दुग्धोपमस्थिता । वशगा वामनयना हंसिनी हंससेविता ॥ ११७॥ अनङ्गाऽनङ्गजननी सुतुङ्गपददायिनी । विश्वा विश्वेडिता विश्वधात्री विश्वाधिकार्थदा ॥ ११८॥ गद्यपद्यस्तुता गन्त्री गच्छन्ती गरुडासना । पश्यन्ती श‍ृण्वती स्पर्शकर्त्री रसनिरूपिणी ॥ ११९॥ भृत्यप्रिया भृतिकरी भरणीया भयापहा । प्रकर्षदा प्रसिद्धेशा प्रमाणं प्रमितिः प्रमा ॥ १२०॥ आकाशरूपिण्यध्यस्ता मध्यस्था मध्यमा मितिः । तलोदरी तलकरी तटिद्रूपा तरङ्गिणी ॥ १२१॥ अकम्पा कम्पितरिपुः जम्भारिसुखदायिनी । दयाविष्टा शिष्टसुहृत् विष्टरश्रवसःप्रिया ॥ १२२॥ हृषीकसुखदा हृद्याऽभीता भीतार्तिहारिणी । माता मनुमुखाराध्या मातङ्गी मानिताखिला ॥ १२३॥ भृगुप्रिया भ्रुगुसुता भार्गवेड्या महाबला । अनुकूलाऽमलतनुः लोपहीना लिपिस्तुता ॥ १२४॥ अन्नदाऽन्नस्वरूपऽन्नपूर्णाऽपर्णा ऋणापहा । वृन्दा वृन्दावनरतिः बन्दीभूतामरीस्तुता ॥ १२५॥ तेजस्विनी तुर्यपूज्या तेजस्त्रितयरूपिणी । षडास्यजयदा षष्ठी षडूर्मिपरिवर्जिता ॥ १२६॥ षड्जप्रिया सत्त्वरूपा सव्यमार्गप्रपूजिता । सनातनतनुस्सन्ना सम्पन्मूर्तिः सरीसृपा ॥ १२७॥ जिताशा जन्मकर्मादिनाशिनी ज्येष्ठरूपिणी । जनार्दनहृदावासा जनानन्दा जयाऽजनिः ॥ १२८॥ वासना वासनाहन्त्री वामा वामविलोचना । पयस्विनी पूततनुः पात्री परिषदर्चिता ॥ १२९॥ महामोहप्रमथिनी महाहर्षा महाधृतिः । महावीर्या महाचर्या महाप्रीता महागुणा ॥ १३०॥ महाशक्तिर्महासक्तिः महाज्ञाना महारतिः । महापूज्या महेज्या च महालाभप्रदा मही ॥ १३१॥ महासम्पन्महाकम्पा महालक्ष्या महाशया । महारूपा महाधूपा महामतिर्महामहा ॥ १३२॥ महारोगहरी मुक्ता महालोभहरी मृडा । मेदस्विनी मातृपूज्या मेया मा मातृरूपिणी ॥ १३३॥ नित्यमुक्ता नित्यबुद्धा नित्यतृप्ता निधिप्रदा । नीतिज्ञा नीतिमद्वन्द्या नीता प्रीताच्युतप्रिया ॥ १३४॥ मित्रप्रिया मित्रविन्दा मित्रमण्डलशोभिनी । निरङ्कुशा निराधारा निरास्थाना निरामया ॥ १३५॥ निर्लेपा निःस्पृहा नीलकबरी नीरजासना । निराबाधा निराकर्त्री निस्तुला निष्कभूषिता ॥ १३६॥ निरञ्जना निर्मथना निष्क्रोधा निष्परिग्रहा । निर्लोभा निर्मला नित्यतेजा नित्यकृपान्विता ॥ १३७॥ धनाढ्या धर्मनिलया धनदा धनदार्चिता । धर्मकर्त्री धर्मगोप्त्री धर्मिणी धर्मदेवता ॥ १३८॥ धारा धरित्री धरणिः धुतपापा धुताशरा । स्त्रीदेवताऽक्रोधनाथाऽमोहाऽलोभाऽमितार्थदा ॥ १३९॥ कालरूपाऽकालवशा कालज्ञा कालपालिनी । ज्ञानिध्येया ज्ञानिगम्या ज्ञानदानपरायणा ॥ १४०॥ इति श्रीनारदीयोपपुराणान्तर्गतं श्रीलक्ष्मीसहस्रनामस्तोत्रं २ सम्पूर्णम् ॥