अक्षर आकार:

श्रीलक्ष्मीसहस्रनामस्तोत्रम् १

shrIlakShmIsahasranAmastotram 1

श्रीलक्ष्मीसहस्रनामस्तोत्रम् १

अस्य श्रीमहालक्ष्मीसहस्रनामस्तोत्रमहामन्त्रस्य श्रीमहाविष्णुर्भगवान् ऋषिः, अनुष्टुप्छन्दः, श्रीमहालक्ष्मीः देवता । श्रीं बीजम् ह्रीं शक्तिः, ह्रैं कीलकम् । श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ पद्मानने पद्मकरे सर्वलोकैकपूजिते । सान्निध्यं कुरु मे चित्ते विष्णुवक्षःस्थलस्थिते ॥ १॥ भगवद्दक्षिणे पार्श्वे श्रियं देवीमवस्थिताम् । ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥ २॥ चारुस्मितां चारुदतीं चारुनेत्राननभ्रुवम् । सुकपोलां सुकर्णाग्रन्यस्तमौक्तिककुण्डलाम् ॥ ३॥ सुकेशां चारुबिम्बोष्ठीं रत्नतुङ्गघनस्तनीम् । अलकाग्रैरलिनिभैरलङ्कृतमुखाम्बुजम् ॥ ४॥ लसत्कनकसङ्काशां पीनसुन्दरकन्धराम् । निष्ककण्ठीं स्तनालम्बिमुक्ताहारविराजिताम् ॥ ५॥ नीलकुन्तलमध्यस्थमाणिक्यमकुटोज्ज्वलाम् । शुक्लमाल्याम्बरधरां तप्तहाटकवर्णिनीम् ॥ ६॥ अनन्यसुलभैस्तैस्तैर्गुणैः सौम्यमुखैर्निजैः । अनुरूपानवद्याङ्गीं हरेर्नित्यानपायिनीम् ॥ ७॥ श्रीर्वासुदेवमहिषी पुम्प्रधानेश्वरेश्वरी । अचिन्त्यानन्तविभवा भावाभावविभाविनी ॥ १॥ अहम्भावात्मिका पद्मा शान्तानन्तचिदात्मिका । ब्रह्मभावं गता त्यक्तभेदा सर्वजगन्मयी ॥ २॥ षाड्गुण्यपूर्णा त्रय्यन्तरूपात्मानपगामिनी । एकयोग्याऽशून्यभावाकृतिस्तेजः प्रभाविनी ॥ ३॥ भाव्यभावकभावात्मभाव्या कामधुगाऽऽत्मभूः । भावाभावमयी दिव्या भेद्यभेदकभावनी ॥ ४॥ जगत्कुटुम्बिन्यखिलाधारा कामविजृम्भिणी । पञ्चकृत्यकरी पञ्चशक्तिमय्यात्मवल्लभा ॥ ५॥ भावाभावानुगा सर्वसम्मताऽऽत्मोपगूहिनी । अपृथक्चारिणी सौम्या सौम्यरूपव्यवस्थिता ॥ ६॥ आद्यन्तरहिता देवी भवभाव्यस्वरूपिणी । महाविभूतिः समतां गता ज्योतिर्गणेश्वरी ॥ ७॥ स्वातन्त्र्यरूपा देवोरःस्थिता तद्धर्मधर्मिणी । सर्वभूतेश्वरी सर्वभूतमाताऽऽत्ममोहिनी ॥ ९॥ सर्वाङ्गसुन्दरी सर्वव्यापिनी प्राप्तयोगिनी । विमुक्तिदायिनी भक्तिगम्या संसारतारिणी ॥ १०॥ धर्मार्थसाधिनी व्योमनिलया व्योमविग्रहा । पञ्चव्योमपदी रक्षव्यावृतिः प्राप्यपूरिणी ॥ ११॥ आनन्दरूपा सर्वाप्तिशालिनी शक्तिनायिका । हिरण्यवर्णा हैरण्यप्राकारा हेममालिनी ॥ १२॥ प्रत्नरत्ना भद्रपीठा वेशिनी रजतस्रजा । स्वाज्ञाकार्यमरा नित्या सुरभिर्व्योमचारिणी ॥ १३॥ योगक्षेमवहा सर्वसुलभेच्छाक्रियात्मिका । करुणाग्रानतमुखी कमलाक्षी शशिप्रभा ॥ १४॥ कल्याणदायिनी कल्या कलिकल्मषनाशिनी । प्रज्ञापरिमिताऽऽत्मानुरूपा सत्योपयाचिता ॥ १५॥ मनोज्ञेया ज्ञानगम्या नित्यमुक्तात्मसेविनी । कर्तृशक्तिः सुगहना भोक्तृशक्तिर्गुणप्रिया ॥ १६॥ ज्ञानशक्तिरनौपम्या निर्विकल्पा निरामया । अकलङ्काऽमृताधारा महाशक्तिर्विकासिनी ॥ १७॥ महामाया महानन्दा निःसङ्कल्पा निरामया । एकस्वरूपा त्रिविधा सङ्ख्यातीता निरञ्जना ॥ १८॥ आत्मसत्ता नित्यशुचिः परशक्तिः सुखोचिता । नित्यशान्ता निस्तरङ्गा निर्भिन्ना सर्वभेदिनी ॥ १९॥ असङ्कीर्णाऽविधेयात्मा निषेव्या सर्वपालिनी । निष्कामना सर्वरसाऽभेद्या सर्वार्थ साधिनी ॥ २०॥ अनिर्देश्याऽपरिमिता निर्विकारा त्रिलक्षणा । भयङ्करी सिद्धिरूपाऽव्यक्ता सदसदाकृतिः ॥ २१॥ अप्रतर्क्याऽप्रतिहता नियन्त्री यन्त्रवाहिनी । हार्दमूर्तिर्महामूर्तिः अव्यक्ता विश्वगोपिनी ॥ २२॥ वर्धमानाऽनवद्याङ्गी निरवद्या त्रिवर्गदा । अप्रमेयाऽक्रिया सूक्ष्मा परनिर्वाणदायिनी ॥ २३॥ अविगीता तन्त्रसिद्धा योगसिद्धाऽमरेश्वरी । विश्वसूतिस्तर्पयन्ती नित्यतृत्पा महौषधिः ॥ २४॥ शब्दाह्वया शब्दसहा कृतज्ञा कृतलक्षणा । त्रिवर्तिनी त्रिलोकस्था भूर्भुवःस्वरयोनिजा ॥ २५॥ अग्राह्याऽग्राहिकाऽनन्ताह्वया सर्वातिशायिनी । व्योमपद्मा कृतधुरा पूर्णकामा महेश्वरी ॥ २६॥ सुवाच्या वाचिका सत्यकथना सर्वपालिनी । लक्ष्यमाणा लक्षयन्ती जगज्ज्येष्ठा शुभावहा ॥ २७॥ जगत्प्रतिष्ठा भुवनभर्त्री गूढप्रभावती । क्रियायोगात्मिका मूर्तिः हृदब्जस्था महाक्रमा ॥ २८॥ परमद्यौः प्रथमजा परमाप्ता जगन्निधिः । आत्मानपायिनी तुल्यस्वरूपा समलक्षणा ॥ २९॥ तुल्यवृत्ता समवया मोदमाना खगध्वजा । प्रियचेष्टा तुल्यशीला वरदा कामरूपिणी ॥ ३०॥ समग्रलक्षणाऽनन्ता तुल्यभूतिः सनातनी । महर्द्धिः सत्यसङ्कल्पा बह्वृचा परमेश्वरी ॥ ३१॥ जगन्माता सूत्रवती भूतधात्री यशस्विनी । महाभिलाषा सावित्री प्रधाना सर्वभासिनी ॥ ३२॥ नानावपुर्बहुभिदा सर्वज्ञा पुण्यकीर्तना । भूताश्रया हृषीकेश्वर्यशोका वाजिवाहिका ॥ ३३॥ ब्रह्मात्मिका पुण्यजनिः सत्यकामा समाधिभूः । हिरण्यगर्भा गम्भीरा गोधूलिः कमलासना ॥ ३४॥ जितक्रोधा कुमुदिनी वैजयन्ती मनोजवा । धनलक्ष्मीः स्वस्तिकरी राज्यलक्ष्मीर्महासती ॥ ३५॥ जयलक्ष्मीर्महागोष्ठी मघोनी माधवप्रिया । पद्मगर्भा वेदवती विविक्ता परमेष्ठिनी ॥ ३६॥ सुवर्णबिन्दुर्महती महायोगिप्रियाऽनघा । पद्मे स्थिता वेदमयी कुमुदा जयवाहिनी ॥ ३७॥ संहतिर्निर्मिता ज्योतिः नियतिर्विविधोत्सवा । रुद्रवन्द्या सिन्धुमती वेदमाता मधुव्रता ॥ ३८॥ विश्वम्भरा हैमवती समुद्रेच्छाविहारिणी । अनुकूला यज्ञवती शतकोटिः सुपेशला ॥ ३९॥ धर्मोदया धर्मसेव्या सुकुमारी सभावती । भीमा ब्रह्मस्तुता मध्यप्रभा देवर्षिवन्दिता ॥ ४०॥ देवभोग्या महाभागा प्रतिज्ञापूर्णशेवधिः । सुवर्णरुचिरप्रख्या भोगिनी भोगदायिनी ॥ ४१॥ वसुप्रदोत्तमवधूः गायत्री कमलोद्भवा । विद्वत्प्रिया पद्मचिह्ना वरिष्ठा कमलेक्षणा ॥ ४२॥ पद्मप्रिया सुप्रसन्ना प्रमोदा प्रियपार्श्वगा । विश्वभूषा कान्तिमती कृष्णा वीणारवोत्सुका ॥ ४३॥ रोचिष्करी स्वप्रकाशा शोभमानविहङ्गमा । देवाङ्कस्था परिणतिः कामवत्सा महामतिः ॥ ४४॥ इल्वलोत्पलनाभाऽधिशमनी वरवर्णिनी । स्वनिष्ठा पद्मनिलया सद्गतिः पद्मगन्धिनी ॥ ४५॥ पद्मवर्णा कामयोनिः चण्डिका चारुकोपना । रतिस्नुषा पद्मधरा पूज्या त्रैलोक्यमोहिनी ॥ ४६॥ नित्यकन्या बिन्दुमालिन्यक्षया सर्वमातृका । गन्धात्मिका सुरसिका दीप्तमूर्तिः सुमध्यमा ॥ ४७॥ पृथुश्रोणी सौम्यमुखी सुभगा विष्टरश्रुतिः । स्मितानना चारुदती निम्ननाभिर्महास्तनी ॥ ४८॥ स्निग्धवेणी भगवती सुकान्ता वामलोचना । पल्लवाङ्घ्रिः पद्ममनाः पद्मबोधा महाप्सराः ॥ ४९॥ विद्वत्प्रिया चारुहासा शुभदृष्टिः ककुद्मिनी । कम्बुग्रीवा सुजघना रक्तपाणिर्मनोरमा ॥ ५०॥ पद्मिनी मन्दगमना चतुर्दंष्ट्रा चतुर्भुजा । शुभरेखा विलासभ्रूः शुकवाणी कलावती ॥ ५१॥ ऋजुनासा कलरवा वरारोहा तलोदरी । सन्ध्या बिम्बाधरा पूर्वभाषिणी स्त्रीसमाह्वया ॥ ५२॥ इक्षुचापा सुमशरा दिव्यभूषा मनोहरा । वासवी पाण्डरच्छत्रा करभोरुस्तिलोत्तमा ॥ ५३॥ सीमन्तिनी प्राणशक्तिः विभीषण्यसुधारिणी । भद्रा जयावहा चन्द्रवदना कुटिलालका ॥ ५४॥ चित्राम्बरा चित्रगन्धा रत्नमौलिसमुज्ज्वला । दिव्यायुधा दिव्यमाल्या विशाखा चित्रवाहना ॥ ५५॥ अम्बिका सिन्धुतनया सुश्रेणिः सुमहासना । सामप्रिया नम्रिताङ्गी सर्वसेव्या वराङ्गना ॥ ५६॥ गन्धद्वारा दुराधर्षा नित्यपुष्टा करीषिणी । देवजुष्टाऽऽदित्यवर्णा दिव्यगन्धा सुहृत्तमा ॥ ५७॥ अनन्तरूपाऽनन्तस्था सर्वदानन्तसङ्गमा । यज्ञाशिनी महावृष्टिः सर्वपूज्या वषट्क्रिया ॥ ५८॥ योगप्रिया वियन्नाभिः अनन्तश्रीरतीन्द्रिया । योगिसेव्या सत्यरता योगमाया पुरातनी ॥ ५९॥ सर्वेश्वरी सुतरणिः शरण्या धर्मदेवता । सुतरा संवृतज्योतिः योगिनी योगसिद्धिदा ॥ ६०॥ सृष्टिशक्तिर्द्योतमाना भूता मङ्गलदेवता । संहारशक्तिः प्रबला निरुपाधिः परावरा ॥ ६१॥ उत्तारिणी तारयन्ती शाश्वती समितिञ्जया । महाश्रीरजहत्कीर्तिः योगश्रीः सिद्धिसाधनी ॥ ६२॥ पुण्यश्रीः पुण्यनिलया ब्रह्मश्रीर्ब्राह्मणप्रिया । राजश्री राजकलिता फलश्रीः स्वर्गदायिनी ॥ ६३॥ देवश्रीरद्भुतकथा वेदश्रीः श्रुतिमार्गिणी । तमोऽपहाऽव्ययनिधिः लक्षणा हृदयङ्गमा ॥ ९४॥ मृतसञ्जीविनी शुभ्रा चन्द्रिका सर्वतोमुखी । सर्वोत्तमा मित्रविन्दा मैथिली प्रियदर्शना ॥ ६५॥ सत्यभामा वेदवेद्या सीता प्रणतपोषिणी । मूलप्रकृतिरीशाना शिवदा दीप्रदीपिनी ॥ ६६॥ अभिप्रिया स्वैरवृत्तिः रुक्मिणी सर्वसाक्षिणी । गान्धारिणी परगतिः तत्वगर्भा भवाभवा ॥ ६७॥ अन्तर्वृत्तिर्महारुद्रा विष्णुदुर्गा महाबला । मदयन्ती लोकधारिण्यदृश्या सर्वनिष्कृतिः ॥ ६८॥ देवसेनाऽऽत्मबलदा वसुधा मुख्यमातृका । क्षीरधारा घृतमयी जुह्वती यज्ञदक्षिणा ॥ ६९॥ योगनिद्रा योगरता ब्रह्मचर्या दुरत्यया । सिंहपिञ्छा महादुर्गा जयन्ती खङ्गधारिणी ॥ ७०॥ सर्वार्तिनाशिनी हृष्ट सर्वेच्छापरिपूरिका । आर्या यशोदा वसुदा धर्मकामार्थमोक्षदा ॥ ७१॥ त्रिशूलिनी पद्मचिह्ना महाकालीन्दुमालिनी । एकवीरा भद्रकाली स्वानन्दिन्युल्लसद्गदा ॥ ७२॥ नारायणी जगत्पूरिण्युर्वरा द्रुहिणप्रसूः । यज्ञकामा लेलिहाना तीर्थकर्युग्रविक्रमा ॥ ७३॥ गरुत्मदुदयाऽत्युग्रा वाराही मातृभाशिणी । अश्वक्रान्ता रथक्रान्ता विष्णुक्रान्तोरुचारिणी ॥ ७४॥ वैरोचनी नारसिंही जीमूता शुभदेक्षणा । दीक्षाविदा विश्वशक्तिः बीजशक्तिः सुदर्शनी ॥ ७५॥ प्रतीता जगती वन्यधारिणी कलिनाशिनी । अयोध्याऽच्छिन्नसन्ताना महारत्ना सुखावहा ॥ ७६॥ राजवत्यप्रतिभया विनयित्री महाशना । अमृतस्यन्दिनी सीमा यज्ञगर्भा समेक्षणा ॥ ७७॥ आकूतिऋग्यजुस्सामघोषाऽऽरामवनोत्सुका । सोमपा माधवी नित्यकल्याणी कमलार्चिता ॥ ७८॥ योगारूढा स्वार्थजुष्टा वह्निवर्णा जितासुरा । यज्ञविद्या गुह्यविद्याऽध्यात्मविद्या कृतागमा ॥ ७९॥ आप्यायनी कलातीता सुमित्रा परभक्तिदा । काङ्क्षमाणा महामाया कोलकामाऽमरावती ॥ ८०॥ सुवीर्या दुःस्वप्नहरा देवकी वसुदेवता । सौदामिनी मेघरथा दैत्यदानवमर्दिनी ॥ ८१॥ श्रेयस्करी चित्रलीलैकाकिनी रत्नपादुका । मनस्यमाना तुलसी रोगनाशिन्युरुप्रदा ॥ ८२॥ तेजस्विनी सुखज्वाला मन्दरेखाऽमृताशिनी । ब्रह्मिष्ठा वह्निशमनी जुषमाणा गुणात्यया ॥ ८३॥ कादम्बरी ब्रह्मरता विधात्र्युज्ज्वलहस्तिका । अक्षेभ्या सर्वतोभद्रा वयस्या स्वस्तिदक्षिणा ॥ ८४॥ सहस्रास्या ज्ञानमाता वैश्वानर्यक्षवर्तिनी । प्रत्यग्वरा वारणवत्यनसूया दुरासदा ॥ ८५॥ अरुन्धती कुण्डलिनी भव्या दुर्गतिनाशिनी । मृत्युञ्जया त्रासहरी निर्भया शत्रुसूदिनी ॥ ८६॥ एकाक्षरा सत्पुरन्ध्री सुरपक्षा सुरातुला । सकृद्विभाता सर्वार्तिसमुद्रपरिशोषिणी ॥ ८७॥ बिल्वप्रियाऽवनी चक्रहृदया कम्बुतीर्थगा । सर्वमन्त्रात्मिका विद्युत्सुवर्णा सर्वरञ्जिनी ॥ ८८॥ ध्वजछत्राश्रया भूतिर्वैष्णवी सद्गुणोज्ज्वला । सुषेणा लोकविदिता कामसूर्जगदादिभूः ॥ ८९॥ वेदान्तयोनिर्जिज्ञासा मनीषा समदर्शिनी । सहस्रशक्तिरावृत्तिः सुस्थिरा श्रेयसां निधिः ॥ ९०॥ रोहिणी रेवती चन्द्रसोदरी भद्रमोहिनी । सूर्या कन्याप्रिया विश्वभावनी सुविभाविनी ॥ ९१॥ सुप्रदृश्या कामचारिण्यप्रमत्ता ललन्तिका । मोक्षलक्ष्मीर्जगद्योनिः व्योमलक्ष्मीः सुदुर्लभा ॥ ९२॥ भास्करी पुण्यगेहस्था मनोज्ञा विभवप्रदा । लोकस्वामिन्यच्युतार्था पुष्कला जगदाकृतिः ॥ ९३॥ विचित्रहारिणी कान्ता वाहिनी भूतवासिनी । प्राणिनी प्राणदा विश्वा विश्वब्रह्माण्डवासिनी ॥ ९४॥ सम्पूर्णा परमोत्साहा श्रीमती श्रीपतिः श्रुतिः । श्रयन्ती श्रीयमाणा क्ष्मा विश्वरूपा प्रसादिनी ॥ ९५॥ हर्षिणी प्रथमा शर्वा विशाला कामवर्षिणी । सुप्रतीका पृश्निमती निवृत्तिर्विविधा परा ॥ ९६॥ सुयज्ञा मधुरा श्रीदा देवरातिर्महामनाः । स्थूला सर्वाकृतिः स्थेमा निम्नगर्भा तमोनुदा ॥ ९७॥ तुष्टिर्वागीश्वरी पुष्टिः सर्वादिः सर्वशोषिणी । शक्त्यात्मिका शब्दशक्तिः विशिष्टा वायुमत्युमा ॥ ९८॥ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिर्नयात्मिका । व्याली सङ्कर्षिणी द्योता महादेव्यपराजिता ॥ ९९॥ कपिला पिङ्गला स्वस्था बलाकी घोषनन्दिनी । अजिता कर्षिणी नीतिर्गरुडा गरुडासना ॥ १००॥ ह्लादिन्यनुग्रहा नित्या ब्रह्मविद्या हिरण्मयी । मही शुद्धविधा पृथ्वी सन्तानिन्यंशुमालिनी ॥ १०१॥ यज्ञाश्रया ख्यातिपरा स्तव्या वृष्टिस्त्रिकालगा । सम्बोधिणि शब्दपुर्णा विजयांऽशुमती कला ॥ १०२॥ शिवा स्तुतुप्रिया ख्यातिः जीवयन्ती पुनर्वसुः । दीक्षा भक्तार्तिहा रक्षा परीक्षा यज्ञसम्भवा ॥ १०३॥ आर्द्रा पुष्करिणी पुण्या गण्या दारिद्र्यभञ्जिनी । धन्या मान्या पद्मनेमिः भार्गवी वंशवर्धनी ॥ १०४॥ तीक्ष्णप्रवृत्तिः सत्कीर्तिः निषेव्याऽघविनाशिनी । संज्ञा निःसंशया पूर्वा वनमाला वसुन्धरा ॥ १०५॥ पृथुर्महोत्कटाऽहल्या मण्डलाऽऽश्रितमानदा । सर्वा नित्योदितोदारा जृम्भमाणा महोदया ॥ १०६॥ चन्द्रकान्तोदिता चन्द्रा चतुरश्रा मनोजवा । बाला कुमारी युवतिः करुणा भक्तवत्सला ॥ १०७॥ मेदिन्य्युपनिषन्मिश्रा सुमवीरुद्धनेश्वरी । दुर्मर्षणी सुचरिता बोधा शोभा सुवर्चला ॥ १०८॥ यमुनाऽक्षौहिणी गङ्गा मन्दाकिन्यमरालया । गोदा गोदावरी चन्द्रभागा कावेर्युदन्वती ॥ १०९॥ सिनीवाली कुहू राका वारणा सिन्धुमत्यमा । वृद्धिः स्थितिर्ध्रुवा बुद्धिः त्रिगुणा गुणगह्वरा ॥ ११०॥ पूर्तिर्मायात्मिका स्फूर्तिर्व्याख्या सूत्रा प्रजावती । विभूतिर्निष्कला रम्भा रक्षा सुविमला क्षमा ॥ १११॥ प्राप्तिर्वासन्तिकालेखा भूरिबीजा महागदा । अमोघा शान्तिदा स्तुत्या ज्ञानदोत्कर्षिणी शिखा ॥ ११२॥ प्रकृतिर्गोमती लीला कमला कामधुग्विधिः । प्रज्ञा रामा परा सन्ध्या सुभद्रा सर्वमङ्गला ॥ ११३॥ नन्दा भद्रा जया रिक्ता तिथिपूर्णाऽमृतम्भरा । काष्ठा कामेश्वरी निष्ठा काम्या रम्या वरा स्मृतिः ॥ ११४॥ शङ्खिनी चक्रिणी श्यामा समा गोत्रा रमा दितिः । शान्तिर्दान्तिः स्तुतिः सिद्धिः विरजाऽत्युज्ज्वलाऽव्यया ॥ ११५॥ वाणी गौरीन्दिरा लक्ष्मीः मेधा श्रद्धा सरस्वती । स्वधा स्वाहा रतिरुषा वसुविद्या धृतिः सहा ॥ ११६॥ शिष्टेष्टा च शुचिर्धात्री सुधा रक्षोघ्न्यजाऽमृता । रत्नावली भारतीडा धीरधीः केवलाऽऽत्मदा ॥ ११७॥ या सा शुद्धिः सस्मिता का नीला राधाऽमृतोद्भवा । परधुर्यास्पदा ह्रीर्भूः कामिनी शोकनाशिनी ॥ ११८॥ मायाकृती रसघना नर्मदा गोकुलाश्रया । अर्कप्रभा रथेभाश्वनिलयेन्दुप्रभाऽद्भुता ॥ ११९॥ श्रीः कृशानुप्रभा वज्रलम्भना सर्वभूमिदा । भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥ १२०॥ अश्वपूर्वा रथमध्या हस्तिनादप्रबोधिनी । सर्वलक्षणलक्षण्या सर्वलोकप्रियङ्करी ॥ १२१॥ सर्वोत्कृष्टा सर्वमयी भवभङ्गापहारिणी । वेदान्तस्था ब्रह्मनीतिः ज्योतिष्मत्यमृतावहा ॥ १२२॥ भूताश्रया निराधारा संहिता सुगुणोत्तरा । सर्वातिशायिनी प्रीतिः सर्वभूतस्थिता द्विजा । सर्वमङ्गलमाङ्गल्या दृष्टादृष्टफलप्रदा ॥ १२३॥ इति श्रीलक्ष्मीसहस्रनामस्तोत्रं सम्पूर्णम् ।