अक्षर आकार:

श्रीलक्ष्मीहयवदन प्रपत्तिः

Shri Lakshmihayavadana Prapattih

श्रीलक्ष्मीहयवदन प्रपत्तिः

विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ १॥ ब्रह्माणमादौ व्यदधादमुष्मै वेदाश्च यः स्म प्रहिणोति नित्यान् । स्वगोचरज्ञानविधायिनं तं देवं हयग्रीवमहं प्रपद्ये ॥ २॥ उद्गीथतारस्वरपूर्वमन्तःप्रविश्य पातालतलादहार्षीत् । आम्नायमाकण्ठहयो य एतं देवं हयग्रीवमहं प्रपद्ये ॥ ३॥ प्रदाय पुत्राय पुनः श्रुतीर्यो जघान दैत्यौ नियताब्धिवासम् । हव्यैश्च कव्यैश्च तमर्च्यमानं देवं हयग्रीवमहं प्रपद्ये ॥ ४॥ यन्नाभिनालीकदलस्थनीरविन्दूत्थितौ तौ मधुकैटभाख्यौ । वेदापहाराय तमो रजस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ५॥ काम्यार्च्यतां प्राप्य वरं सुरेषु गतेषु यज्ञाग्रहरोऽर्थितो यः । अदर्शयत् काय हयं वपुस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ६॥ यो जायमानं पुरुषं प्रपश्यन् मोक्षार्थचिन्तापरमातनोति । विद्याधिदेवं मधुसूदनं तं देवं हयग्रीवमहं प्रपद्ये ॥ ७॥ आदित्यबिम्बेऽश्ववपुर्दधत्सन् अयातयामान् निगमानदिक्षत् । यो याज्ञवल्क्याय दयानिधिं तं देवं हयग्रीवमहं प्रपद्ये ॥ ८॥ विज्ञानदानप्रथिता जगत्यां व्यासादयो वागपि दक्षिणा सा । यद्वीक्षणांशाहितवैभवांस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ९॥ मत्स्यादिरूपाणि यथा तथैव नानाविधाचार्यवपूंषि गृह्णन् । वेदान्तविद्याः प्रचिनोति यस्तं देवं हयग्रीवमहं प्रपद्ये ॥ १०॥ श्रेष्ठः कृतज्ञः सुलभोऽन्वितानां शान्तः सुबुद्धिः प्रथितो हि वाजी । तदाननाविष्कृतसद्गुणौघं देवं हयग्रीवमहं प्रपद्ये ॥ ११॥ हस्तैर्दधानं दरचक्रकोशव्याख्यानमुद्राः सितपद्मपीठम् । विद्याख्यलक्ष्म्यञ्चितवामभागं देवं हयग्रीवमहं प्रपद्ये ॥ १२॥ इति श्रीलक्ष्मीहयवदनप्रपत्तिः समाप्ता ।