अक्षर आकार:

श्रीलक्ष्मीहयग्रीवमङ्गलम्

Shri Lakshmihayagrivamangalam

श्रीलक्ष्मीहयग्रीवमङ्गलम्

अशेषवेदरूपाय यथार्थज्ञानदायिने । विद्यालक्ष्मीसमेताय वाजिवक्त्राय मङ्गलम् ॥ १॥ पालने ज्ञानदाने च प्रवणादनिरुद्धतः । आविर्भूताय वेधोऽर्थमश्वग्रीवाय मङ्गलम् ॥ २॥ स्वनाभिपद्मजायादौ स्वोपदिष्टाः श्रुतीः समाः । स्थिरं पुनरदाद्योऽस्मै तुरङ्गास्याय मङ्गलम् ॥ ३॥ मध्वाभान्मधुमब्बिन्दोः कैटभं कठिनादपि । कृत्वाऽरी शिक्षिताजाय गन्धर्वास्याय मङ्गलम् ॥ ४॥ पादव्यवस्था यत्रार्थवशेनैव मृगात्मने । यजुषे यज्ञरूपाय हयग्रीवाय मङ्गलम् ॥ ५॥ यदुद्गीथस्वरत्रस्तौ दैत्यौ वेदापहारिणौ । प्रणवोद्गीथरूपाय पुण्यह्रेषाय मङ्गलम् ॥ ६॥ वामपुस्तकहस्तस्वभुजाश्लिष्टरमात्मने । व्याख्यामुद्रान्यहस्ताय वाजिवक्त्राय मङ्गलम् ॥ ७॥ शरद्घनस्थचन्द्राय पुण्डरीकस्थमूर्तये । शङ्खचक्रधरायास्तु सैन्धवास्याय मङ्गलम् ॥ ८॥ ज्ञानामृतघटीयन्त्रसाक्षचिन्मुद्रपाणये । मुमुक्षाहेतुवीक्षाय मधुहन्त्रेऽस्तु मङ्गलम् ॥ ९॥ यस्याक्षरसमाम्नायो ह्यकारादिर्हलन्त्यवाक् । मध्ये हयवरश्लिष्टो हयास्यस्यास्य मङ्गलम् ॥ १०॥ अश्विदध्यङ्याज्ञवल्क्यकश्यपादिश्रिताङ्घ्रये । वैष्णवक्रतुनेष्टाय वाजिवक्त्राय मङ्गलम् ॥ ११॥ रजोमूर्तेर्वधूं वाणीं कुर्वते सत्त्वहेतवे । तमोमूर्तिञ्च सर्वज्ञं तुरगास्याय मङ्गलम् ॥ १२॥ रामदेशितमार्गेण पाञ्चालेनार्चिताङ्घ्रये । व्यासादिजप्यमन्त्राय वाजिकण्ठाय मङ्गलम् ॥ १३॥ सर्वसूक्ष्मार्थविज्ञानं साधुव्याहारधोरणी । यन्मन्त्रजपतस्तस्मै हयग्रीवाय मङ्गलम् ॥ १४॥ दशावतारा यस्य स्युः पाश्चात्याः वेधसां गुरोः । हव्यकव्यभुजे तस्मै हयग्रीवाय मङ्गलम् ॥ १५॥ श्रवणोदग्रकर्णाय श्रवणर्क्षोद्भवाय च । श्रवणग्राह्यवाग्दात्रे श्रीहयास्याय मङ्गलम् ॥ १६॥ यत्कटाक्षकलालेशकलनात्सकलाः कलाः । स्वयमाविर्भवन्त्यस्मै शीर्षण्यश्वाय मङ्गलम् ॥ १७॥ धर्माविरुद्धयोरर्थकामयोरमृतस्य च । हेतुं वाचं ददानाय हयग्रीवाय मङ्गलम् ॥ १८॥ सर्वविद्याप्रतिष्ठानब्रह्मविद्याप्रदायिने । वागीश्वरेश्वरायास्तु वाजिवक्त्राय मङ्गलम् ॥ १९॥ ज्ञानाय ज्ञानरूपाय ज्ञानिने ज्ञानदायिने । सर्वोत्तमाय श्रीशाय हयग्रीवाय मङ्गलम् ॥ २०॥ य इदं श्रीहयग्रीवमङ्गलं नियतं पठेत् । विद्यावाग्धनवंशायुर्वृद्धिसौख्यानि सोऽश्नुते ॥ २१॥ इति श्रीलक्ष्मीहयग्रीवमङ्गलं सम्पूर्णम् ।