अक्षर आकार:

लक्ष्मीगायत्री

Lakshmi Gayatri

लक्ष्मीगायत्री

श्रीलक्ष्मीः कल्याणी कमला कमलालया पत्मा । मामकचेतस्सद्मनि हृतपद्मे वसतु विष्णुना साकम् ॥ १॥ तत्सदों श्रीमिति पदैश्चतुर्भिश्चतुरागमैः । चतुर्मुखस्तुता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २॥ सच्चित्सुखा त्रयीमूत्तिस्सर्वपुण्यफलात्मिका । सर्वेशमहिषी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ३॥ विद्यावेदान्तसिद्धान्तविवेचनविचारजा । विष्णुस्वरूपिणी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ४॥ तुरीयाद्वैतविज्ञानसिद्धिसत्त्वस्वरूपिणि । सर्वतत्त्वमयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ५॥ वरदाभयदाम्भोजाधरपाणिचतुष्टया । वागीशजननी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ६॥ रेचकैः पूरकैः पूर्णकुम्भकैः पूतदेहिभिः । मुनिभिर्भाविता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ७॥ णीत्यक्षरमुपासन्तो यत्प्रसादेन सन्ततिम् । कुलस्यप्राप्नुयुर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ८॥ यन्त्रमन्त्रक्रियासिद्धिरूपा सर्वसुखात्मिका । यजनादिमयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ९॥ भगवत्यच्युते विष्णावनन्ते नित्यवासिनी । भगवत्यमलामह्यमिन्दिरेष्टं प्रयच्छतु ॥ १०॥ गोविप्रवेदसूर्याग्निगङ्गाबिल्वसुवर्णगा । सालग्राममयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ११॥ देवता देवतानाञ्च क्षीरसागरसम्भवा । कल्याणी भार्गवी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १२॥ वक्ति यो वचसा रित्यं सत्यमेव न चानृतम् । तस्मिन् न्यायमते मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १३॥ स्यमन्तकादि मणि यो यत्प्रसादांशकांशकाः । अनन्तविभवा मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १४॥ धीराणां व्यासवाल्मीकिपूर्वाणां वाचकं तपः । यत्प्राप्तिफलदं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १५॥ महानुभावैर्मुनिभिर्महाभागैस्तपस्विभिः । आराध्य प्रार्थिता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १६॥ हिमाचलसुतावाणी सख्यसौहार्दलक्षणा । या मूलप्रकृतिर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १७॥ धिया भक्त्या भिया वाचा तपश्शौचक्रियार्जवैः । सद्भिस्समर्चिता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १८॥ योगेन कर्मणा भक्त्या श्रद्धया श्रीस्समाप्यते । सत्यश्शौचपरैर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १९॥ योगक्षेमौ सुखादीनां पुण्यजानां निजार्थिने । ददाति दयया मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २०॥ मनश्शरीराणि चेतांसि करणानि सुखानि च । यदधीनानि सा मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २१॥ प्रज्ञामायुर्बलं वित्तं प्रजामारोग्यमीशतां । यशः पुण्यं सुखं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २२॥ चोरारिव्यालरोगार्णग्रहपीडानिवारिणी । अनीतेरभयं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २३॥ दयामाश्रितवात्सल्यं दाक्षिण्यं सत्यशीलता । नित्यं या वहते मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २४॥ या देव्यव्याजकरुणा या जगज्जननी रमा । स्वतन्त्रशक्तिर्या मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २५॥ ब्रह्मण्यसुब्रह्मण्योक्तां गायत्र्यक्षरसम्मिताम् । इष्टसिद्धिर्भवेन्नित्यं पठतामिन्दिरास्तुतिम् ॥ २६॥ इति लक्ष्मीगायत्रीस्तुतिस्सम्पूर्णा ।