अक्षर आकार:

श्रीलक्ष्मी आर्यावृत्तम्

Shri Lakshmi AryAvrittam

श्रीलक्ष्मी आर्यावृत्तम्

आर्यावृत्तविचित्र नार्यास्सा जगति सौभगत्वकरी । वाय्वा(वार्या)काशाद्यखिला भूर्यावद्धार्यते त्वया देव्या ॥ १॥ उन्मीलय मन्नयने त्वं मान्ये लक्ष्मि लोकमान्यासि । चिन्मयसुभगावयवे कर्मकरः स्यामहं च तव कमितुः ॥ २॥ मन्मथजननि मनोज्ञेऽहम्ममतारहितयोगिकुलमहिते । दृङ्मलमुन्मूलय मे सम्यक् श्रीकृष्णमूर्तिमीक्षेऽहम् ॥ ३॥ कल्मषखण्डनशीले रम्यकपोले सरोजमुखि सुतनो । अम्लानपद्महस्ते निर्मलमच्चक्षुरीक्षतां कृष्णम् ॥ ४॥ पूर्वं त्रिगुणमयी या सर्वं कार्यं करोति या पश्चात् । चार्वम्बुजाक्षदीक्षादक्षं मेऽक्षीह सा रमा कुर्यात् ॥ ५॥ वश्यं यस्याः सकलं दृश्यं यस्याः समस्तमपि विश्वम् । नश्यत्सु या न नश्येत्क्लिश्यत्सु च या कदाऽपि न क्लिश्येत् ॥ ६॥ ज्ञप्तेः करणानि च षट्पञ्चकृतेर्हेतुभूतकराणानि । बुध्येयुर्यत्कृतं सिध्येद्वै तत्फलं च यत्कृपया ॥ ७॥ सा श्रीराश्रितरक्षादिक्षा दुष्कर्मशिक्षणे च पटुः । अश्वास्यं हि दिदृक्षोर्मेऽक्ष्णोस्तद्वीक्षणोत्सवं दद्यात् ॥ ८॥ सङ्गीतसाङ्गवेदा मङ्गलदेवी मनोज्ञसर्वाङ्गी । भङ्गादिदोषरहिता तं गुणराशिं ममेक्षयेत्स्वपतिम् ॥ ९॥ शक्तिः संवित्स्फूर्तिर्मूर्तिः प्रवृत्तिश्च युद्वशे नित्यम् । शक्ता त्वमेव सुजनोद्धर्त्री तं चेत्प्रदर्शय स्वपतिम् ॥ १०॥ var तन्मे प्रदर्शय कुण्डलरत्नतिलकलसन्नासामणिकण्ठसूत्रहारधरा । अङ्गदकङ्कणकाञ्चीसत्कञ्चुकपीतवसनरशनाभा ॥ ११॥ सद्रत्नखचितकिङ्किणिमुद्राग्रैवेयनूपुरादिरुचा । भद्रोद्यदिन्दुवदना पद्मा मे मध्ववरदमीक्षयतु ॥ १२॥ या देवी निजरमणस्याङ्कगता पश्यति स्म तं सततम् । तस्याः स्तुतिमिति कृतवान्कृष्णदृगर्थी स वादिराजयतिः ॥ १३॥ ॥ इति श्रीमद्वादिराजपुज्यचरणविरचितं श्रीलक्ष्मी आर्यावृत्तं सम्पूर्णम् ॥