अक्षर आकार:

लघुसप्तशतीस्तोत्रम्

laghusaptashatIstotram

लघुसप्तशतीस्तोत्रम्

श्रीगणेशाय नमः ॥ यत्कर्म धर्मनिलयं प्रवदन्ति तज्ज्ञा यज्ञादिकं तदखिलं सकलं त्वयैव । त्वां चेतनायत इति प्रविचार्यं चित्ते नित्यं त्वदीयचरणौ शरणं प्रपद्ये ॥ १॥ पाथोधिनाथतनयापतिरेव शेष- पर्यङ्कलालितवपुः पुरुषः पुराणः । त्वन्मोहपाशविवशो जगदम्ब सोऽपि व्याघूर्णमाननयनः शयनं चकार ॥ २॥ तत्कौतुकं जननि यस्य जनार्दनस्य कर्णप्रसूतमलजौ मधुकैटभाख्यौ । तस्यापि यौ न भवतः सुलभौ विहन्तुं त्वन्मायया कवलितौ विलयं गतौ तौ ॥ ३॥ यन्माहिषं वपुरपूर्वबलोपपन्नं यन्नाकनायकपराक्रमजित्वरं च । यल्लोकशोकजननप्रतिबद्धहार्दं तल्लीलयैव दलितं गिरिजे भवत्या ॥ ४॥ यो धूम्रलोचन इति प्रथितः पृथिव्यां भस्मीबभूव समरे तव हुङ्कृतेन । सर्वासुरक्षयकरे गिरिराजकन्ये मन्ये स्वमन्युदहने कृत एष होमः ॥ ५॥ केषामपि त्रिदशनायकपूर्वकाणां जेतुं न जातु सुलभाविति चण्डमुण्डौ । तौ दुर्मदौ तु परमाम्बरतुल्यरूपे मातस्तवासि कुलिशात्पतितौ विशीर्णौ ॥ ६॥ दौत्येन ते शिव इति प्रथितप्रभावो देवोऽपि दानवपतेः सदनं जगाम । भूयोऽपि तस्य चरितं प्रथयाञ्चकार सा त्वं प्रतीति शिवदूतिविजृम्भितं तत् ॥ ७॥ चित्रं तदेतदमरैरपि ये न पेयाः शस्त्राभिधातपतिताद्रुधिरादपर्णे । भूमौ बभूवुरमिताः प्रतिरक्तबीजा- स्तेऽपि त्वयैव गगने गिलिताः समस्ताः ॥ ८॥ आश्चर्यमेतदखिलं यदभूः सुरारि- त्रैलोक्यवैभवविलुण्ठनजुष्टपाणी । शस्त्रैर्निहत्य भुवि शुम्भनिशुम्भसंज्ञौ नीतौ त्वया जननि तावपि नाकलोकम् ॥ ९॥ त्वत्तेजसि प्रलयकालहुताशनेऽस्मिन्- नस्तं प्रयान्ति भुवनान्यखिलानि सद्यः । तस्मिन्निपत्य शलभा इव दानवेन्द्रा भस्मीभन्वति हि भवानि किमत्र चित्रम् ॥ १०॥ किं वर्णयामि भवतीं भवति प्रताप- संवर्धनप्रणयिनी प्रणमज्जनेथु । तत्किं पृणामि भवतीं भवति प्रताप- संवर्धनि प्रणयिनीं विपदास्थितेषु ॥ ११॥ वामे करे तदितरे च तथोपरिष्टात् पात्रं सुधारसयुतं वरमातुलिङ्गम् । खेटं गदां च दधतीं भवतीं भवानीं ध्यायन्ति येऽरुणनिभां कृतिनस्त एव ॥ १२॥ यद्वारुणात्परमिदं जगदम्ब यस्ते बीजं स्मरेदनुदिनं मदनादिरूढम् । मायाङ्कितं तिलकितं तरुणेन्दुबिन्दु नादैरतीन्द्रमिह राज्यमसौ भुनक्ति ॥ १३॥ आवाहनं यजनवर्णनमग्निहोत्रं कर्मार्पणं तव विसर्जनमत्र देवि । मोहान्मया कृतमिदं सकलापराधं मातः क्षमस्व वरदे बहिरन्तरस्थे ॥ १४॥ अन्तःस्थिताप्यखिलजन्तुषु तन्तुरूपा विद्योतसे बहिरिहाखिलवस्तुरूपा । का भूरिशब्दरचना वचनातिगासि दीनं जनं जननि मामिह निष्प्रपञ्चम् ॥ १५॥ एतत्पठेदनुदिनं दनुजान्तकारि चण्डीचरित्रमतुलं भुवि यस्त्रिकालम् । श्रीमान्सुखी दनुजपूर्णभगः क्षमी स्या- द्योगी चिरन्तनवपुः कविचक्रवर्ती ॥ १६॥ इति लघुसप्तशतीस्तोत्रं सम्पूर्णम् ॥