अक्षर आकार:

श्रीलाकिनीदेवीस्तोत्रम्

Shri Lakinidevi Stotram

श्रीलाकिनीदेवीस्तोत्रम्

अथैकोनपञ्चाशत्तमः पटलः आनन्दभैरवी उवाच षट्चक्रभेदनार्थाय सर्वसिद्धसुसिद्धये । वक्ष्यामि लाकिनीदेवीस्तोत्रं परमदुर्लभम् ॥ ४९-१॥ यत्पाठादतिसन्तोषं प्राप्नोति यतिरीश्वर । तत्क्रियासारसम्पन्नं स्तवनं लाकिनीप्रियम् ॥ ४९-२॥ अस्य श्रीलाकिनीस्तोत्रस्य महाविष्णुकहोड-ऋषि-र्गायत्रीच्छन्दो महासिद्धिदमृत्युञ्जयमहारुद्र लाकिनी सरस्वतीदेवता मणिपूरभेदने जपे विनियोगः ॥ ओं बीजाक्षरमूर्तिमार्ति हरिणीमार्यां जयां बुद्धिदां दीनानामपराधकोटिहननीं संज्ञामणिं योगिनाम् । त्वामाद्यामनुरागिणीं गुणगणामोदैकहेतुस्थलां स्थित्यन्तःकृतकौतुकीमवरदे वन्दे मुदा लाकिनीम् ॥ ४९-३॥ हेरम्बार्चनसिद्धिदाद्वयगता कोटिप्रभा भास्करा साकारा किरणोज्ज्वला सुखमयी वेदध्वनिप्राणिनी । कोपाकोपितलक्षणा तरुतराकल्पाशयासंशया कृत्वैवं वरवर्णिनी समवतु श्रीलाकिनी कङ्किनी ॥ ४९-४॥ केयूरामलहारमालशुभगा वीरासना स्थायिनी भार्या रुद्रपतेः प्रवालविमला वक्त्रोत्पलस्रग्धरा । माता योगवतां सती परा परपदा माध्वीरसाच्छादिता त्वं मां पाहि कृपामयी यमगतं मृत्युञ्जये श्रीधरे ॥ ४९-५॥ आकाङ्क्षीकुलसङ्ख्यका क्षयकरी शत्रुप्रभादेर्दया भक्तानामतिदुःखहा शशिमुखी योन्यानना कामुकी । कामस्थानमकामदोषशतकं शीघ्रं त्वलक्षेमदा जीवन्मुक्तिपदं विधेहि समरे सर्गद्रुहस्य प्रियम् ॥ ४९-६॥ त्वं पञ्चाननपूजिता त्वमशिता त्वं बालविद्यागति- स्त्वं सत्यं कवितासु वाक्यकविता त्वं केवलानन्ददा । त्वं लाक्षारुणरूपिणी त्वमवरा त्वं लिङ्गसंहारिणी त्वं साक्षादमृतप्रदा त्वमजरा त्वं लाकिनी पातु माम् ॥ ४९-७॥ नानामङ्गलधर्मराज्यजडिता संस्कारबोधाश्रया लिङ्गस्थाचलपुत्रिका नवगृहे सङ्कामयन्ती शिवा । मे लिङ्गोपरि रुद्रनाथ विपथव्याभेदनं सङ्गमं शीघ्रं कारय देवि मोक्षतुरिकं कोटीव चन्द्रोज्ज्वला ॥ ४९-८॥ चन्द्राभासकलाश्रया श्रयति या शब्दच्छटा या समा माया मोहभिदा दया दयति या कृष्णक्रिया मोहिनी । लक्ष्मीर्नीलकलेवरामलमणेः पूर्वं सदा रक्षतु श्रीविद्या भयदायिनी त्वमपि सा मे नाभिमूलोदया ॥ ४९-९॥ मात्रा मुद्रामनननिलया मालिनी मन्त्रविद्या विश्वेशानी शयनरहिता शीतवातातपस्था । सत्यासत्या वचनभवगा गौरि माता त्वमेव प्राणान् रक्ष प्रथमकिरणामाश्रये त्वामनन्ताम् ॥ ४९-१०॥ सिद्धासिद्धा शशिरविकला केवलाम्भोजसंस्था स्थित्यानन्दा नयनस्वचलाम्भोजमध्यप्रकाशा । नित्यं श्रद्धागतिपथकरा कर्त्री कामानहर्त्री नाद्यस्तोत्रं भज भज भजे त्वामनन्तां स्वरूपे ॥ ४९-११॥ पीतापीता पवनगमना धारणध्यानयोगा कालाकाला कलिकुलकला निष्कला ज्ञानरूपा । कृष्णानन्दा मदनकुहरा केकरा शङ्करी वा । त्वं श्रीधात्री धवलकमलं नाभिमूले प्रवक्ष्ये ॥ ४९-१२॥ श्वेता श्वेतारुणशतकरा भावनाज्ञानसिद्धिः प्रीताप्रीता परमगहना चारुणामाननायाः । त्वं सा विद्या विधिबुधवरा धारणाज्ञानगम्या रम्यारम्या रमणनिरता नीरदा पातु नाभिम् ॥ ४९-१३॥ मन्दोद्बन्धप्रियवधुलता नीरवानावहन्त्री क्षेत्राक्षेत्रा परचरगता भुक्तिमुक्तिप्रकाशा । कौलाकौलाज्ञापितनयना गञ्जना वातमुग्धा मुग्धामुग्धामतिधनपतेर्नाभिसंस्थेऽवनाभिम् ॥ ४९-१४॥ हंसी सिंहासनगतपदा चक्रविद्या सुसूक्ष्मा श्रीविद्या त्वं नवविलचरा सुन्दरी रक्तवर्णा । स्वर्णाम्भोजोपरि शुभमना चक्रमध्ये प्रतिष्ठा सर्वा वर्णा परिजनदयानाभिपद्मं च रक्षा ॥ ४९-१५॥ ब्रह्मानन्दा नृपगणमहापूजया शोभिताङ्गी श्रीश्रीविद्यासकलविभवा भावनीया महेन्द्रैः । सिद्धस्थाने मणिमयगृहे मूलसिंहासनस्था पद्मे चाष्टान्वितयुगदले नाभिमूलेममाव ॥ ४९-१६॥ योगज्ञानं द्विविधविभवं वेदविद्याप्रकाशं मे चाष्टाङ्गं समवतु मुदा षोडशी भैरवस्था । चन्द्रोल्का त्वं भवभयहरा शोकतापापहन्त्री नाभावब्जे उदयति सुरो यस्तमीशे प्ररक्ष ॥ ४९-१७॥ संशिष्टा त्वं विरत करुणे शीतले शीतशैले साक्षादन्यप्रचयवचना पार्वणा पर्वपूरा । विद्युत्पूरं समसुखमयं पाहि पञ्चानना या त्वं सा देवी शुभमणिगृहे शीतलत्वं विधेहि ॥ ४९-१८॥ छन्दोगानां सकलविषयच्छेदिनी चार्णमाता माला लाक्षारुणकिरणभा गोपपूज्या गिरीज्या । मातस्त्वं मे स्वमणिभवनं पाहि सूक्ष्मा भवानी । वानस्थानाश्रय जय कराचाङ्गिरा चान्नपूर्णा ॥ ४९-१९॥ चन्द्रोल्लासाऽवयवसुखदा दीर्घकेशी विशाला त्वं मातङ्गी जननि जगतां बालिका विप्रचण्डा । ज्योत्स्नाजाले उदयति सदा रक्तभाषप्रभासा त्वं मे रुद्र हरिहरतनुं नाभिमूले प्ररक्ष ॥ ४९-२०॥ वाणीनाम्ना रचयति वचः सुन्दरी वर्णनस्था स्थित्यन्तस्था चलतनुधरा धामसन्धामरा सा । बोधानन्दप्रकृतितनुभिर्व्यापिनी ज्ञानमुग्धा मातस्त्वं मे मणिदलगृहं पाहि सर्वाङ्गविद्ये ॥ ४९-२१॥ विद्या चण्डामलसितसृजा चन्दनालिप्तदेहा विश्वेशानि भगवति शिवे त्वं क्षयामोघरूपा । जाया शम्भोर्जटिलशिवगता मोक्षदा मानसंस्था चित्तं शुभ्रं कुरु विषयछेदनं छेदिनि त्वम् ॥ ४९-२२॥ मणिमयकुलगेहे कोटिविद्युत्प्रकाशेऽ- भयवरमपि देहि कोधविद्ये मयि त्वम् । सकलसुखविभोगं पालय प्राणरूपं चरणतलविलग्नं मामनाथं परेशि ॥ ४९-२३॥ भुवनगहनहेतोः कायसर्गा विनास्ते विधिमखसुरनाथं मानुषादि त्रिसर्गम् । मम मणिकुलपद्मे नित्यरूपाभिधानं जयति खलु तदानीं स्तोत्रसारप्रकारम् ॥ ४९-२४॥ भवतु चरणपद्मे लाकिनी देवकन्ये विरचय मनुशास्त्रं सिद्धमन्त्रप्रकारम् । वह वह भवभावं त्राहि मां चन्द्रगेहे कठिनहृदयनाशं शङ्करि त्वं कुरुष्व ॥ ४९-२५॥ कमलवनसमीपे वन्यमध्येऽतिगुह्ये विषयविषयिनाशं कौलिके त्वं विकृत्य । भवनिजमणिपीठे स्थापयित्वा निदानं हर हरदयिते त्वं दोषषट्कं विवादम् ॥ ४९-२६॥ घोरे सान्द्रान्धकारे मम निजकुलदृग्दानकर्त्रि प्रसन्ने वाञ्छाकल्पद्रुमस्था त्वमिह कुशलदा दायभागाविभागा । त्वं काली नन्दिनीस्था नयकरुणघटा मध्यगा माघका त्वं भीमा भीत्यापहन्त्री हरपदनयनो लाकिनी नाभिमाव ॥ ४९-२७॥ एतत्स्तोत्रं पठेद् विद्वान् योगज्ञानी निराश्रयः । महासुखगतो वीरो विभवायामृताय च ॥ ४९-२८॥ भोगमोक्षौ करे तस्य चैहिके योगिराड् भवेत् । परे याति महादेवी पादपद्मे न संशयः ॥ ४९-२९॥ ऐहिके चिरजीवित्वं ददाति कामदायिनी । मणिपूरे स्थितो याति कुलमार्गप्रसादतः ॥ ४९-३०॥ कुलमार्गेण यत्स्थानं लयं विश्वेश्वरीपदम् । तल्लया मणिपूरस्था देवता पश्यति ध्रुवम् ॥ ४९-३१॥ पूजान्ते प्रपठेत् स्तोत्रं भक्तिभावपरायणः । शीघ्रमेव हि योगी स्यात् कुलमार्गप्रसादतः ॥ ४९-३२॥ इति श्रीरुद्रयामले उत्तरतन्त्रे लाकिनीशस्तवनं नाम एकोनपञ्चाशत्तमः पटलः ॥ ४९॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.