अक्षर आकार:

श्रीकुमार्यष्टोत्तरशतनामावली

Shri kumAryaShTottarashatanAmAvalI

श्रीकुमार्यष्टोत्तरशतनामावली

ॐ अस्यश्री कुमारी महामन्त्रस्य ईश्वर ऋषिः बृहती छन्दः कुमारी दुर्गा देवता ॥ [ह्रां ह्रीं इत्यादिना न्यासमाचरेत् ] ध्यानम् गिरिराजकुमारिकां भवानीं शरणागतपालनैकदक्षाम् । वरदाभयचक्रशङ्खहस्तां वरदात्रीं भजतां स्मरामि नित्यम् ॥ मन्त्रः - ॐ ह्रीं कुमार्यै नमः ॥ अथ श्री कुमार्याः नामावलिः । ॐ कौमार्यै नमः । ॐ सत्यमार्गप्रबोधिन्यै नमः । ॐ कम्बुग्रीवायै नमः । ॐ वसुमत्यै नमः । ॐ छत्रच्छायायै नमः । ॐ कृतालयायै नमः । ॐ कुण्डलिन्यै नमः । ॐ जगद्धात्र्यै नमः । ॐ जगद्गर्भायै नमः । ॐ भुजङ्गायै नमः । १० ॐ कालशायिन्यै नमः । ॐ प्रोल्लसायाइ नमः । ॐ सप्तपद्मायै नमः । ॐ नाभिनालायै नमः । ॐ मृणालिन्यै नमः । ॐ मूलाधारायै नमः । ॐ अनिलाधारायै नमः । ॐ वह्निकुण्डलकृतालयायै नमः । ॐ वायुकुण्डलसुखासनायै नमः । ॐ निराधारायै नमः । २० ॐ निराश्रयायै नमः । ॐ बलीन्द्रसमुच्चयायै नमः । ॐ षड्रसस्वादुलोलुपायै नमः । ॐ श्वासोच्छ्वासगतायै नमः । ॐ जीवायै व्ग्राहिण्यै नमः । ॐ वह्निसंश्रयायै नमः । ॐ तप्सविन्यै नमः । ॐ तपस्सिद्धायै नमः । ॐ तापसायै नमः । ॐ तपोनिष्ठायै नमः । ३० ॐ तपोयुक्तायै नमः । ॐ तपस्सिद्धिदायिन्यै नमः । ॐ सप्तधातुमय्यै नमः । ॐ सुमूर्त्यै नमः । ॐ सप्तायै नमः । ॐ अनन्तरनाडिकायै नमः । ॐ देहपुष्ट्यै नमः । ॐ मनस्तुष्ट्यै नमः । ॐ रत्नतुष्ट्यै नमः । ॐ मदोद्धतायै नमः । ४० ॐ दशमध्यै नमः । ॐ वैद्यमात्रे नमः । ॐ द्रवशक्त्यै नमः । ॐ प्रभाविन्यै नमः । ॐ वैद्यविद्यायै नमः । ॐ चिकित्सायै नमः । ॐ सुपथ्यायै नमः । ॐ रोगनाशिन्यै नमः । ॐ मृगयात्रायै नमः । ॐ मृगमाम्सायै नमः । ५० ॐ मृगपद्यायै नमः । ॐ सुलोचनायै नमः । ॐ व्याघ्रचर्मणे नमः । ॐ बन्धुरूपायै नमः । ॐ बहुरूपायै नमः । ॐ मदोत्कटायै नमः । ॐ बन्धिन्यै नमः । ॐ बन्धुस्तुतिकरायै नमः । ॐ बन्धायै नमः । ॐ बन्धविमोचिन्यै नमः । ६० ॐ श्रीबलायै नमः । ॐ कलभायै नमः । ॐ विद्युल्लतायै नमः । ॐ दृढविमोचिन्यै नमः । ॐ अम्बिकायै नमः । ॐ बालिकायै नमः । ॐ अम्बरायै नमः । ॐ मुख्यायै नमः । ॐ साधुजनार्चितायै नमः । ॐ कालिन्यै नमः । ७० ॐ कुलविद्यायै नमः । ॐ सुकलायै नमः । ॐ कुलपूजितायै नमः । ॐ कुलचक्रप्रभायै नमः । ॐ भ्रान्तायै नमः । ॐ भ्रमनाशिन्यै नमः । ॐ वात्यालिन्यै नमः । ॐ सुवृष्ट्यै नमः । ॐ भिक्षुकायै नमः । ॐ सस्यवर्धिन्यै नमः । ८० ॐ अकारायै नमः । ॐ इकारायै नमः । ॐ उकारायै नमः । ॐ एकारायै नमः । ॐ हुङ्कारायै नमः । ॐ बीजरूपयै नमः । ॐ क्लींकारायै नमः । ॐ अम्बरधारिण्यै नमः । ॐ सर्वाक्षरमयाशक्त्यै नमः । ॐ राक्षसार्णवमालिन्यै नमः । ९० ॐ सिन्धूरवर्णायै नमः । ॐ अरुणवर्णायै नमः । ॐ सिन्धूरतिलकप्रियायै नमः । ॐ वश्यायै नमः । ॐ वश्यबीजायै नमः । ॐ लोकवश्यविधायिन्यै नमः । ॐ नृपवश्यायै नमः । ॐ नृपसेव्यायै नमः । ॐ नृपवश्यकरप्रियायै नमः । ॐ महिषीनृपमाम्सायै नमः । १०० ॐ नृपज्ञायै नमः । ॐ नृपनन्दिन्यै नमः । ॐ नृपधर्मविद्यायै नमः । ॐ धनधान्यविवर्धिन्यै नमः । ॐ चतुर्वर्णमयशक्त्यै नमः । ॐ चतुर्वर्णैः सुपूजितायै नमः । ॐ गिरिजायै नमः । ॐ सर्ववर्णमयायै नमः । १०८ ॥ॐ॥