अक्षर आकार:

कुलानन्द तन्त्रम्

kulAnanda tantram

कुलानन्द तन्त्रम्

ॐ नमो भैरवाय । कैलासशिखरासीनं देवदेव जगद्गुरुम् । परिपृच्छत्युमादेवी एकान्ते ज्ञानमुत्तमम् ॥ १॥ भेदनिमुत्तमभेदं यथा देहव्यवस्थितम् । कथयस्व पुराभेदं कुलानन्देषु चूत्तमम् ॥ २॥ स्थानान्तरविशेषण विज्ञानं कथयस्व मे । सद्यः प्रत्यकारकं यथा देहे व्यवस्थितम् ॥ ३॥ पाशस्तोभञ्च बेधनञ्च धूननं कम्पनं तथ । खेचरं समरसञ्चैव बलीपलितनाशनम् ॥ सर्वं तत्तु सुरेश्वर कथयस्व मम प्रभो ॥ ४॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि पुरभेदं समुत्तमम् । एतत् कौलिकं ज्ञानं कुलानन्दे चाष्टोत्तमः ॥ ५॥ ब्रह्मस्थाने यत् कमलं चतुःषष्ठिदलान्वितम् । तत्रैव मनसा रोध्य लक्षयेद्दीपशिखान् व्रती ॥ ६॥ पश्यति सर्वदेहे तु दिव्यदृष्टिर्वरानने । तेन लक्षितमात्रेण जायते सिद्धिरुत्तमा ॥ ७॥ तस्योपरि नाभिम्नदवदा [?] विचक्षणे । तथा चोपरितिष्ठति देवो भैरवो जगत्प्रभुः ॥ ८॥ तस्याग्रे मनसारोप्य दृढभूतविचक्षणाः । जायते ध्वनिभिर्जातिं तत्र मरुद्विशेषतः ॥ ९॥ एतद् विज्ञानमात्रेण आवेषं जुरुते ध्रुवम् । जायते परमं स्थानं नात्र कार्य्यविचारणात् ॥ १०॥ अथान्यं परमं देवि सद्यः प्रत्याकारकम् । तं प्रवक्ष्यामि हे देवि श‍ृणुष्वायतलोचने ॥ ११॥ अङ्गुल्यद्वितियं देवि यत् पूर्व्वं कथितं मया । तत्रैव स्थापयेद्वित्तं कथितं जायते ध्रुवम् ॥ १२॥ अतीतानागतञ्चैव वर्त्तमानं तथैव च । तत्रैवोत्पादयेत् सृष्टिं तिव्रज्योतिःसमकृतिः ॥ १३॥ हृदिसंस्थकमलं हित्वा मूर्ध्नि यान् प्रपूरयेत् । पाशस्तोभं करोत्येवं यदि विश्रमते मनः ॥ १४॥ अथान्यं परं देवि दिव्यदृष्टि प्रवर्त्तते । ज्वलज्वालनमध्यस्थं द्विजग्रन्थि निरीक्षयेत् ॥ १५॥ तत्रैव मनसा रोध्य चूलिकाग्रन्तु मानयेत् पुनः । सृष्टिं प्रवर्त्तन्ते देवि नात्र कार्य्यविचारणात् ॥ १६॥ देव्युवाच । तद्बेधञ्च शुद्धसारञ्च हितं मया न प्रकाशितम् । कथय्स्व विशेषण यथा जानामि तत्क्षणात् ॥ १७॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि बेधसारं यथाक्रमम् । ब्रह्मस्थाने...पद्मं चतुःषष्टिदलान्वितम् ॥ १८॥ तत्रैवोत्पादयेत् सृष्टिः दण्डाकाराग्नितेजसा । भेदयित्वा महाग्रन्थिं द्विचक्रञ्च तथैव च ॥ १९॥ मूर्ध्निं कमलसंस्थानं ज्वलनाकारं विचिन्तयेत् । चलन्तं भ्रामयेत्तेन नियतं तु महितले ॥ २०॥ बेधये गिरिवृक्षाणि किं पुनः क्षुद्रजन्तवः । अथान्यं परमं देवि विज्ञानं भद्रकं श‍ृणु ॥ २१॥ भ्रुवोश्चक्षुर्मध्यस्थं च कालावुना [?] .... विचिन्तयेत् । यावद्विश्रमते नित्यं भ्रमते चक्रवत् शिरः ॥ २२॥ दुराश्रवणविज्ञानं भूतदेतस्य [?] चिन्तयेत् । वामस्त्रोतं तु यावत् तिव्रतेजसमप्रभम् ॥ २३॥ देव्युवाच । बलीपलितक्षयं देव त्वया ख्यातं ममाग्रतः । एतन्मे संशयो देव कथयस्व मम प्रभो ॥ २४॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि यत् सुराणामपि दुर्ल्लभम् । द्वात्रिंशतिदलं पद्मं तिष्ठति तन्मूर्ध्नि मध्यतः ॥ २५॥ तत्रैव भावयेदमृतं कलाषोडशसमन्वितम् । हृच्चक्रं पातयेद्वारं [?] यावदानाब्जिमण्डलम् ॥ २६॥ चिन्तयेत् कृष्णवर्णञ्च भेदं तु सकलं पुरः । पलितास्तम्भयेद्देवि मासमेकेन सुव्रते ॥ २७॥ अथान्यं परमं देवि गुह्यसंशयस्थितिकारकम् । यत्र चतुष्पथस्थानं तत्र सर्वासुरालयम् ॥ २८॥ तत्रैव स्थापयेच्चितं दिव्यबालप्रवर्त्तत [?] । अश्रुतां वदते बालां....दिव्य वरानने ॥ २९॥ विषप्रहारं कुरुते ज्वरव्याधिं विनाशयेत् । ततः परतरं स्थानं तत्र सर्वे प्रवर्त्तते ॥ ३०॥ अथान्यं परमं देवि दुराबेधं वदाम्यहम् । ज्वलज्ज्वलनसंध्यस्थं तत्रैव लक्षयेद्देवि ॥ ३१॥ तं त्रितकोटिसमप्रभा ऊर्ध्वं शक्ति निपातान्यतः [?] । बेधयेद्विचक्षणः बेधयित्वा तु तं लक्षयेत् ॥ ३२॥ ज्वलनाकाष्ठप्रभां उर्ध्वशक्तिं चक्रयित्व अचलं भ्रामयेत् पुनः [?] बेधयेत् सा मनःसहस्राणि समकानि तु का कथा ॥ ३३॥ एवं ज्ञात्वा वीरारोहे विचरेत यथासुखम् । देवासुर्मनुजानां दुर्लभो भवति साधकः ॥ ३४॥ देव्युवाच । धूननं कम्पनं देव यथाख्यातं ममाग्रतः । ततश्चापि संशयो देव कथयस्व मम प्रभो ॥ ३५॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि धूननं कम्पनं स्थितम् । या सा महावहा नाडी कुचेल्याकारसंस्थिता ॥ ३६॥ तत्रैवोत्पादयेत् दृष्टिर्द्दण्डाकारसुतेजसा । हृच्चक्र... ... ... तिव्रशक्ति सुविग्रहा ॥ ३७॥ धूननं कम्पनं चैव नात्र कार्य्यविचारणात् । अथान्यं परमं देवि खेचरत्वं श‍ृणु प्रिये ॥ ३८॥ या सा महावहा ना[डी] कुण्डल्याकारसंस्थिता । पदद्वन्द्वगता सा तु मूर्ध्निस्थं कमलं पुनः ॥ ३९॥ या वीरतये तज्ज्वलनाकारं सुभावयेद् बुधः । सर्वशक्तितो मध्यत खेचरत्व भवेद्वेः नवाहमभृतं ददैतः [?] ॥ ४०॥ अथान्यं सम्प्रवक्ष्यामि महाव्याप्तिं वरानने । यावद्...स्थानेषु ख्याता तस्य मयाग्रतः ॥ ४१॥ तथैव मनसारोप्यं नासाग्रे पवनमानेन । मनसं तत्त्व बेधयित्वा निष्कलं योजयेद् बुधः ॥ ४२॥ महाव्याप्तिर्भवेद्देवि तवाहमनृतं वदेत् । अथान्य सम्प्रवक्ष्यामि येन सिद्धिर्भवेत् ध्रुवम् ॥ ४३॥ वर्गातीतस्य द्वितीयमनुलोम न सुव्रते । ज्वलनारूढं कृत्वा चतुर्थं स्वरसंयुतः ॥ ४४॥ बिन्दुमस्तकसम्भिन्नमादौ योजयेद् बुधः । वर्गातीतं पुनर्देवि षष्तस्वरविभूषितः ॥ ४५॥ स शिखे खरबिन्दुसंयुक्तं योगयेद्देवि तत् पुनः । यकारस्य पञ्चमं गृह्यं तं तृतीयस्वरसमन्वितम् ॥ ४६॥ स्वरं द्वितीयसंयुक्तं कारयेत् पुनः प्रियः । वर्गस्य प्रथमं बीजं सृष्टराद्यतो योजयेत् ॥ ४७॥ एतद्देवि समाख्यातं कुलविद्यासमन्वितम् । नित्यं तु योजयेद्देवि एकचित्तस्तु पण्डितः ॥ ४८॥ तस्य सर्वा भवेत् सिद्धिः सर्वज्ञनेषु सुन्दरि । न खेदयामि कस्य चित्तं शिष्येऽप्युक्त्वा वरानने ॥ ४९॥ अथान्यं परमं देवि कामेन विह्वलारकम् । भस्य मध्यस्थ भगमधो हुताशनम् ॥ ५०॥ प्रेरितः पवनः शक्त्या ज्वलनाकारतेजसा । विसन्तु चिन्तयेद्देवि सृष्टिकमलन्तु यावत् ॥ ५१॥ श्रवणं चिन्तयेदमृतं तेजोमार्गेण योगिनि । भवन्ति विह्वला नार्य्यः क्षनमेकेन सुव्रते ॥ ५२॥ अथान्यं परमं देवि फलपुष्Pआकथनं च । श‍ृणुयात् पर्मादेवि अघोरविक्रमा ॥ ५३॥ आकर्षयेद् बुघो वायुं पिण्डस्थं रूपणमुच्यते । चक्षुषा योजयेद्देवि फलपुष्पन्तु चिन्तयेत् । तेजसार्कर्षयेत् तु...चित्तं सुसर्य्यतः ॥ ५४॥ देव्युवाच । सर्वत्र तु मया ज्ञानं भाषितं देव तत् पुरा । अद्यापि संशयो देवि कथयस्व मम प्रभो । संगमान्मोक्षहेतुकं *** *** ॥ ५५॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि तत् सुरैरपि दुर्लभम् । आसनं तु स्थितं कृत्वा...विश्व अनिवृत्तः ॥ ५६॥ अभावं भावयेद्देवि सर्वभावविवर्जितम् । चित्तं तत्र स्थितं कृत्वा खमध्ये विनियोजयेत् ॥ ५७॥ भावयेत् समरसं देवि प्रभुभृत्यं विचक्षणः । एतद्विज्ञानमात्रेण गियते तत्र मध्यतः ॥ ५८॥ दूराश्रवणविज्ञानं बेधस्तोभं मध्यतः । आवेषं दर्शनं दूरात् कम्पस्तोभं तथैव च ॥ ५९॥ परकायप्रवेशेन सम्प्रवर्त्तेत योगिनः । ... ... ...तदभ्यासेन सुव्रते ॥ ६०॥ इति मत्स्येन्द्र-पादावतारितं कुलानन्दं समाप्तमिति ॥ शुभमस्तु सर्वजगताम् । http://www.clas.ufl.edu/users/gthursby/tantra/kulanandtm