अक्षर आकार:

कुण्डलिनिस्तवः २

Kundalinistavah 2

कुण्डलिनिस्तवः २

आनन्दभैरव उवाच षट्चक्रभेदनकथां कथयस्व वरानने ॥ २८-७१॥ हिताय सर्वजन्तूनां हिरण्यवर्णमण्डितम् । प्रकाशयस्व वरदे योगानामुदयं वद ॥ २८-७२॥ येन योगेन धीराणां हितार्थं वाञ्छितं मया । कालक्रमेण सिद्धिः स्यात् कालजालविनाशनात् ॥ २८-७३॥ कालक्षालनहेतोश्च पुनरुद्यापनं कृतम् । आनन्दभैरवी उवाच आदौ कुर्यात् परानन्दं रससागरसम्भवम् ॥ २८-७४॥ मान्द्यं मन्दगुणोपेतं श‍ृणु तत्क्रममुत्तमम् । स्तोत्रं कुर्यात् मूलपद्मे कुण्डलिन्याः पुरष्क्रियाम् ॥ २८-७५॥ पुरश्चरणकाले तु जपान्ते नित्यकर्मणि । काम्यकर्मणि धर्मेषु तथैव धर्मकर्मसु ॥ २८-७६॥ गुर्वाद्यगुरुनित्येषु भक्तिमाकृत्य सम्पठेत् । ॐ नमो गुरवे ॐ नमो गुर्वम्बपरदेवतायै ॥ २८-७७॥ सर्वधर्मस्वरूपायै सर्वज्ञानस्वरूपायै । ॐ भवविभवायै ॐ दक्षयज्ञविनाशिन्यै ॥ २८-७८॥ ॐ भद्रकाल्यै ॐ कपालिन्यै ॐ उमायै ॐ माहेश्वर्यै ॐ सर्वसङ्कटतारिण्यै ॐ महादेव्यै नमो नमः ॥ २८-७९॥ ॐ या माया मयदानवक्षयकरी शक्तिः क्षमा कर्त्तृका शुम्भश्रीमहिषासुरासुरबलप्रात्रोलचण्डामहा । भद्रार्द्रा रुधिरप्रिया प्रियकरी क्रोधाङ्गरक्तोत्पला चामुण्डा रणरक्तबीजरजनी ज्योत्स्ना मुखेन्दीवरा ॥ २८-८०॥ या जाया जयदायिनी नृगृहिणी भीत्यापहा भैरवी नित्या सा परिरक्षणं कुरु शिवा सारस्वतोत्पत्तये । सा मे पातु कलेवरस्य विषयाह्लादेन्द्रियाणां बलं वक्षः स्थायिनमुल्वणोज्ज्वलशिखाकारादिजीवाञ्चिता ॥ २८-८१॥ कृत्वा योगकुलान्वितं स्वभवने नित्यं मनोरञ्जनं नित्यं संयमतत्परं परतरे भक्तिक्रियानिर्मलम् । शम्भो रक्षरजोऽपनीशचरणाम्भोजे सदा भावनं विद्यार्थप्रियदर्शनं त्रिजगतां संयम्ययोगी भवेत् ॥ २८-८२॥ आकाङ्क्षापरिवर्जितं निजगुरोः सेवापरं पावनं प्रेमाह्लादकथाच्युतं कुटिलताहिंसापमानप्रियम् । कालक्षेपण दोषजालरहितं शाक्तं सुभक्तं पतिं श्रीशक्तिप्रियवल्लभं सुरुचिरज्ञानान्तरं मानिनम् ॥ २८-८३॥ मालासूक्ष्म सुसूक्ष्मबद्धनिलयं सल्लक्षणं साक्षिणं नानाकारणकारणं ससरणं साकारब्रह्मार्पणम् । नित्या सा जडितं महान्तमखिले योगासनज्ञानिनं तं वन्दे पुरुषोत्तमं त्रिजगतामंशार्कहंसं परम् ॥ २८-८४॥ मायाङ्के प्रतिभाति चारुनयानाह्लादैकबीजं विधिं कल्लोलाविकुलाकुला समतुला कालाग्निवाहानना । हालाहेलन कौलकालकलिका केयूरहारानना । सर्वाङ्गा मम पातु पीतवसना शीघ्रासना वत्सला ॥ २८-८५॥ सा बालाबलवाहना सुगहना सम्मानना धारणा खं खं खं खचराचरा कुलचरा वाचाचरा वङ्खरा । चं चं चं चमरीहरीभगवती गाथागताः सङ्गतिः बाहौ मे परिपातु पङ्कजमुखी या चण्डमुण्डापहा ॥ २८-८६॥ कं कं कं कमलाकला गतिफला फूत्कारफेरूत्करा पं पं पं परमा रमा जयगमा व्यासङ्गमा जङ्गमा । तं तं तं तिमिरारुणा सकरुणा मातावला तारिणी भं भं भं भयहारिणी प्रियकरी सा मे भवत्वन्तरा ॥ २८-८७॥ झं झं झं झरझर्मरीगतिपथस्थाता रमानन्दितं मं मं मं मलिनं हि मां हयगतां हन्त्रीं रिपूणां हि ताम् । भक्तानां भयहारिणी रणमुखे शत्रोः कुलाग्निस्थिता सा सा सा भवतु प्रभावपटला दीप्ताङ्घ्रियुग्मोज्ज्वला ॥ २८-८८॥ गं गं गं गुरुरूपिणी गणपतेरानन्दपुञ्जोदया तारासारसरोरुहारुणकला कोटिप्रभालोचना । नेत्रं पातु(सदा) शिवप्रियपथा कौट्यायुतार्कप्रभा तुण्डं मुण्डविभूषणा नरशिरोमाला विलोला समा ॥ २८-८९॥ योगेशी शशिशेखरोल्वणकथालापोदया मानवी शीर्षं पातु ललाटकर्ण युगलानन्तस्ततः सर्वदा । मूर्त्तं मेरुशिखा स्थिता व्यवतु मे गण्डस्थलं कैवली तुष्टं चाष्टमषष्टिकाधरतलं धात्री धराधारिणी ॥ २८-९०॥ नासाग्रद्वयगह्वरं भृगुतरा नेत्रत्रयं तारिणी केशान् कुन्तलकालिका सुकपिला कैलासशैलासना । कङ्कालामलमालिका सुवसना दन्तावलीं दैत्यहा बाह्यं मन्त्रमनन्तशास्त्रतरणी संज्ञावचःस्तम्भिनी ॥ २८-९१॥ हं हं हं नरहारघोररमणी सञ्चारिणी पातु मे शत्रूणां दलनं करोतु नियतं मे चण्डमुण्डापहा । भीमा सन्दहतु प्रतापतपना संवर्द्धनं वर्द्धिनी मन्दारप्रियगन्धविभ्रममदा वैदग्धमोहान्तरा ॥ २८-९२॥ श्यामा पातु पतङ्गकोटिनिनदा हङ्कारफट्कारिणी आनन्दोत्सवसर्वसारजयदा सर्वत्र सा रक्षिका । क्षौं क्षौं क्षौं कठिनाक्षरा क्षयकरी सर्वाङ्गदोषंहना देहारेः कचहा परा कचकुचाकीलालपूराशिता ॥ २८-९३॥ घं घं घं घटघर्घरा विघटिता जायापतेः पातु मे कल्पे कल्पा कुलानामतिभयकलितं सर्वत्र मे विग्रहम् । निद्रोद्रावितकालिका मम कुलं लङ्कातटाच्छादिनी नं नं नं नयनानना सुकमला सा लाकिनी लक्षणा ॥ २८-९४॥ कुक्षौ पृष्ठतलं सदा मम धनं सा पातु मुद्रामयी मोक्षं पातु करालकालरजकी या रञ्जकी कौतुकी । कृत्या नापितकन्यका शशिमुखी सूक्ष्मा मम प्राणगं मन्दारप्रियमालया मणिमयग्रन्थ्या महन्मण्डिता ॥ २८-९५॥ पूज्या योगिभिरुत्सुकी भगवती मूलस्थिता सत्क्रिया मत्ता पातु पतिव्रता मम गृहं धर्मं यशः श्रेयसम् । धर्माम्भोरुहमध्यदर्शनिकरे काली महायोगिनी मत्तानामतिदर्पहा हरशिरोमाला कला केवला ॥ २८-९६॥ मे गुह्यं जयमेव लिङ्गमपि मे मूलाम्बुजं पातु सा या कन्या हिमपर्वतस्य भयहा पायान्नितम्बस्थलम् । सर्वेषां हृदयोदयानलशिखाशक्तिर्मनोरूपिणी मे भक्तिं परिपातु कामकुशला लक्ष्मीः प्रिया मे प्रभो ॥ २८-९७॥ गौरी गौरवकारिणी भुवि महामाया महामोहहा । वं वं वं वरवारुणी सुमदिरा मे पातु नित्यं कटिम् । कूटा सा रविचन्द्रवह्निरहिता स्वेच्छामयी मे मुखम् ॥ २८-९८॥ एतत्स्तोत्रं पठेद् यस्तु सर्वकाले च सर्वदा । स भवेत् कालयोगेन्द्रो महाविद्यानिधिर्भवेत् ॥ २८-९९॥ मूलपद्मबोधने च मूलप्रकृतिसाधने । निजमन्त्रबोधने च घोरसङ्कटकालके ॥ २८-१००॥ आपदस्तस्य नश्यन्ति अन्धकारं विना रविः । सर्वकाले सर्वदेशे महापातकघातकः ॥ २८-१०१॥ स भवेद् योगिनीपुत्रः कलिकाले न संशयः ॥ २८-१०२॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावासननिर्णये पाशवकल्पे षट्चक्र प्रकाशे भैरवभैरवीसंवादे कन्दवासिनिस्तोत्रं नाम अष्टाविंशः पटलः ॥ २८॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.