अक्षर आकार:

कुण्डलिनीस्तोत्रम् २ कन्दवासिनीस्तोत्रम्

Kundalini Stotram 2 Kandavasini Stotram

कुण्डलिनीस्तोत्रम् २ कन्दवासिनीस्तोत्रम्

श्रीआनन्दभैरवी उवाच अथ कान्त प्रवक्ष्यामि श‍ृणुष्व मम तत्त्वतः । शक्तिः कुण्डलिनी देवी सर्वभेदनभेदिनी ॥ ३२-१॥ कलिकल्मषहन्त्री च जगतां मोक्षदायिनी । तस्याः स्तोत्रं तथा ध्यानं न्यासं मन्त्रं श‍ृणु प्रभो ॥ ३२-२॥ यस्य विज्ञानमात्रेण मूलपद्मे मनोलयः । चैतन्यानन्दनिरतो भवेत् कुण्डलिसङ्गमात् ॥ ३२-३॥ आकाशगामिनीं सिद्धिं ददाति कुण्डली भृशम् । अमृतानन्दरूपाभ्यां करोषि पालनं नृणाम् ॥ ३२-४॥ कुण्डलिनी-ध्यानम् । श्वासोच्छ्वासकलाभ्यां च शरीरं त्रिगुणात्मकम् । पञ्चभूतावृता नित्यं पञ्चानिला भवेद् ध्रुवम् ॥ ३२-५॥ कोटिसूर्यप्रतीकाशां निरालम्बां विभावयेत् । सर्वस्थितां ज्ञानरूपां श्वासोच्छ्वासनिवासिनीम् ॥ ३२-६॥ स्वयम्भूकुसुमोत्पन्नां ध्यानज्ञानप्रकाशिनीम् । मोक्षदां शक्तिदां नित्यां नित्यज्ञानस्वरूपिणीम् ॥ ३२-७॥ लोलां लीलाधरां सर्वां शुद्धज्ञानप्रकाशिनीम् । कोटिकालानलसमां विद्युत्कोटिमहौजसाम् ॥ ३२-८॥ तेजसा व्याप्तकिरणां मूलादूर्ध्वप्रकाशिनीम् । अष्टलोकप्रकाशाढ्यां फुल्लेन्दीवरलोचनाम् ॥ ३२-९॥ सर्वमुखीं सर्वहस्तां सर्वपादाम्बुजस्थिताम् । मूलादिब्रह्मरन्ध्रान्तस्थानलोकप्रकाशिनीम् ॥ ३२-१०॥ त्रिभाषां सर्वभक्षां च श्वासनिर्गमपालिनीम् । ललितां सुन्दरीं नीलां कुण्डलीं कुण्डलाकृतिम् ॥ ३२-११॥ अभूमण्डलबाह्यस्थां बाह्यज्ञानप्रकाशिनीम् । नागिनीं नागभूषाढ्यां भयानककलेवराम् ॥ ३२-१२॥ योगिज्ञेयां शुद्धरूपां विरलामूर्ध्वगामिनीम् । एवं ध्यात्वा मूलपद्मे कुण्डलीं परदेवताम् ॥ ३२-१३॥ भावसिद्धिर्भवेत् क्षिप्रं कुण्डलीभावनादिह । ततो मानसजापं हि मानसं होमतर्पणम् ॥ ३२-१४॥ अभिषेकं मुदा कृत्वा प्रातः काले पुनः पुनः प्राणायामं ततः कृत्वा स्तोत्रं च कवचं पठेत् ॥ ३२-१५॥ एतत्स्तोत्रस्य पाठेन स्वयं सिद्धान्तविद्भवेत् । कुण्डली सुकृपा तस्य मासाद्भवति निश्चितम् ॥ ३२-१६॥ निद्रादोषादिक्ं त्यक्त्वा प्रकाश्याहं शरीरके । अहं दात्री सुयोगानामधिपाहं जगत्त्रये ॥ ३२-१७॥ अहं कर्म अहं धर्मः अहं देवी च कुण्डली । यो जानाति महावीर कुण्डलीरूपसेवनात् ॥ ३२-१८॥ इति तं पात्रकं कर्तुमवतीर्णास्मि सर्वदा । अत एव परं मन्त्रं कुण्डलिन्याः स्तवं शुभम् ॥ ३२-१९॥ प्रपठेत् सर्वदा देहे यदि वश्या न कुण्डली । तावत् कालं जपं कुर्याद् यावत् सिद्धिर्न जायते ॥ ३२-२०॥ कुण्डलिनीस्तोत्रम् -- आधारे परदेवता भवनताधोकुण्डली देवता । देवानामधिदेवता त्रिजगतामानन्दपुञ्जस्थिता ॥ ३२-२१॥ मूलाधारनिवासिनी त्रिरमणी या ज्ञानिनी मालिनी । सा मे मातृमनुस्थिता कुलपथानन्दैकबीजानना ॥ ३२-२२॥ सर्वाङ्गस्थितिकारिणी सुरगणानन्दैकचिन्हा शिवा । वीरेन्द्रा नवकामिनी वचनदा श्रीमानदा ज्ञानदा ॥ ३२-२३॥ सानन्दा घननन्दिनी घनगणा छिन्ना भवा योगिनी । धीरा धैर्यवती समाप्तविषया श्रीमङ्गली कुण्डली ॥ ३२-२४॥ सर्वाकारनिवासिनी जयधराधाराधरस्थागया । गीता गोधनवर्द्धिनी गुरुमयी ज्ञानप्रिया गोधना ॥ ३२-२५॥ गार्हाग्निस्थिति चन्द्रिका सुलतिका जाड्यापहा रागदा । दारा गोधनकारिणी मृगमना ब्रह्माण्डमार्गोज्ज्वला ॥ ३२-२६॥ माता मानसगोचरा हरिचरा सिंहासनकारणा । यामा दासगणेश्वरी गुणवती छायापथस्थायिनी ॥ ३२-२७॥ निद्रा क्षुब्धजनपिरया वरतृषा भाषाविशेषस्थिता । स्थित्यन्तप्रलयापहा नरशिरोमालाधरा कुण्डली ॥ ३२-२८॥ गाङ्गेशी यमुनेश्वरी गुरुतरी गोदावरी भास्करी । भक्तार्तिक्षयकारिणी समशिवं यद्येकभावान्विता ॥ ३२-२९॥ त्वं शीघ्रं कुरु कौलिके मम शिरोरन्ध्रं तदब्जं मुदा । तत्पत्रस्थितदैवतं कुलवती मातृस्थलं पाहिकम् ॥ ३२-३०॥ भालोर्द्ध्वे धवला कलारसकला कालाग्निजालोज्ज्वला । फेरुप्राणनिकेतने गुरुतरा गुर्व्वी सुगुर्व्वी सुरा ॥ ३२-३१॥ हालोल्लाससमोदया यतिनया माया जगत्तारिणी । निद्रामैथुननाशिनी मम हरा मोहापहा पातुकम् ॥ ३२-३२॥ भालं नीलतनुस्थिता मतिमतामर्थप्रिया मैथिली । भालानन्दकरा महाप्रियजना पद्मानना कोमला ॥ ३२-३३॥ नानारङ्गसुपीठदेशवसना सिद्धासना घोषणा । त्राणस्थावररूपिणी कलिहनी श्रीकुण्डली पातुकम् ॥ ३२-३४॥ भ्रूमध्यं बगलामुखी शशिमुखी विद्यामुखी सम्मुखी । नागाख्या नगवाहिनी महिषहा पञ्चाननस्थायिनी ॥ ३२-३५॥ पारावार विहारहेतुसफरी सेतुप्रकारा परा । काशीवासिनमीश्वरं प्रतिदिनं श्रीकुण्डली पातुकम् ॥ ३२-३६॥ या कुण्डोद्भवसारपाननिरता मोहादिदोषापहा । सा नेत्रत्रयमम्बिका सुवलिका श्रीकालिका कौलिका ॥ ३२-३७॥ काकस्था द्विकचञ्चुपारणकरी संज्ञाकरी सुन्दरी । मे पातु प्रियया तया विशदया सच्छायया छादिता ॥ ३२-३८॥ श्रीकुण्डे रणचण्डिका सुरतिका कङ्कालिका बालिका । साकाशा परिवर्जिता सुगतिका ज्ञानोर्मिका चोत्सुका ॥ ३२-३९॥ सौकासूक्ष्मसुखप्रिया गुणनिका दीक्षा च सूक्ष्माख्यका । मामन्द्यं मम कन्दवासिनि शिवे सन्त्राहि सन्त्राहिकम् ॥ ३२-४०॥ एतत्स्तोत्रं पठित्वा त्रिभुवनपवनं पावनं लौकिकानाम् । राजा स्यात् किल्बिषाग्निः क्रतुपतिरिह यः क्षेमदं योगिनां वा ॥ ३२-४१॥ सर्वेशः सर्वकर्ता भवति निजगृहे योगयोगाङ्गवक्ता । शाक्तः शैवः स एकः परमपुरुषगो निर्मलात्मा महात्मा ॥ ३२-४२॥ प्रणवेन पुटितं कृत्वा यः स्तौति नियतः शुचिः । स भवेत् कुण्डलीपुत्रो भूतले नात्र संशयः ॥ ३२-४३॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने मूलचक्रसारसङ्केते भैरवभैरवीसंवादे कन्दवासिनीस्तोत्रं नाम द्वात्रिंशः पटलः ॥ ३२॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.