अक्षर आकार:

कुण्डलिनी स्तोत्रम्

Kundalini stotram

कुण्डलिनी स्तोत्रम्

ॐ नमस्ते देवदेवेशि योगीशप्राणवल्लभे । सिद्धिदे वरदे मातः स्वयम्भूलिङ्गवेष्टिते ॥ १॥ ॐ प्रसुप्तभुजगाकारे सर्वदा कारणप्रिये । कामकलान्विते देवि ममाभीष्टं कुरुष्व च ॥ २॥ असारे घोरसंसारे भवरोगात् कुलेश्वरी । सर्वदा रक्ष मां देवि जन्मसंसारसागरात् ॥ ३॥ इति कुण्डलिनि स्तोत्रं ध्यात्वा यः प्रपठेत् सुधीः । मुच्यते सर्व पापेभ्यो भवसंसाररूपके ॥ ४॥ इति प्राणतोषिणी तन्त्रे कुण्डलिनी स्तोत्रं सम्पूर्णम् ॥