अक्षर आकार:

कुण्डलिनीस्तवः रुद्रयामलोत्तरतन्त्रान्तर्गतम्

Kundalinistava from Rudrayamala uttaratantra

कुण्डलिनीस्तवः रुद्रयामलोत्तरतन्त्रान्तर्गतम्

कुण्डलिनीस्तुतिस्तोत्रः जन्मोद्धारनिरीक्षणीहतरुणी वेदादिबीजादिमा नित्यं चेतसि भाव्यते भुवि कदा सद्वाक्यसञ्चारिणी । मां पातु प्रियदासभावकपदं संन्घातये श्रीधरा धात्रि त्वं स्वयमादिदेववनिता दीनातिदीनं पशुम् ॥ ६-२९॥ रक्ताभामृतचन्द्रिका लिपिमयी सर्पाकृतिर्निद्रिता जाग्रत्कूर्मसमाश्रिता भगवति त्वं मां समालोकय । मांसोद्गन्धकुगन्धदोषजडितं वेदादिकार्यान्वितं स्वल्पान्यामलचन्द्रकोटिकिरणैर्नित्यं शरीरं कुरु ॥ ६-३०॥ सिद्धार्थी निजदोषवित् स्थलगतिर्व्याजीयते विद्यया कुण्डल्याकुलमार्गमुक्तनगरी मायाकुमार्गः श्रिया । यद्येवं भजति प्रभातसमये मध्याह्नकालेऽथवा नित्यं यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् ॥ ६-३१॥ वाय्वाकाशचतुर्दलेऽतिविमले वाञ्छाफलान्यालके नित्यं सम्प्रति नित्यदेहघटिता शाङ्केतिताभाविता । विद्याकुण्डलमालिनी स्वजननी मायाक्रिया भाव्यते यैस्तैः सिद्धकुलोद्भवैः प्रणतिभिः सत्स्तोत्रकैः शंभुभिः ॥ ६-३२॥ धाताशङ्कर मोहिनीत्रिभुवनच्छायापटोद्गामिनी संसारादिमहासुखप्रहरणी तत्रस्थिता योगिनी । सर्वग्रन्थिविभेदिनी स्वभुजगा सूक्ष्मातिसूक्ष्मापरा ब्रह्मज्ञानविनोदिनी कुलकुटी व्याघातिनी भाव्यते ॥ ६-३३॥ वन्दे श्रीकुलकुण्डलीत्रिवलिभिः साङ्गैः स्वयम्भूं प्रियम् प्रावेष्ट्याम्बरमार्गचित्तचपला बालाबलानिष्कला । या देवी परिभाति वेदवचना संभाविनी तापिनी इष्टानां शिरसि स्वयम्भुवनितां संभावयामि क्रियाम् ॥ ६-३४॥ वाणीकोटिमृदङ्गनादमदनानिश्रेणिकोटिध्वनिः प्राणेशीरसराशिमूलकमलोल्लासैकपूर्णानना । आषाढोद्भवमेघवाजनियुतध्वान्ताननास्थायिनी माता सा परिपातु सूक्ष्मपथगे मां योगिनां शङ्करः ॥ ६-३५॥ त्वामाश्रित्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोः आनन्दैकविलासिनीं शशिशतानन्दाननां कारणाम् । मातः श्रीकुलकुण्डली प्रियकरे कालीकुलोद्दीपने तत्स्थानं प्रणमामि भद्रवनिते मामुद्धर त्वं पशुम् ॥ ६-३६॥ कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकमहाफलम् । यतः पठेत् प्रातरुत्थाय स योगी भवति ध्रुवम् ॥ ६-३७॥ क्षणादेव हि पाठेन कविनाथो भवेदिह । पठेत् श्रीकुण्डलो योगो ब्रह्मलीनो भवेत् महान् ॥ ६-३८॥ इति ते कथितं नाथ कुण्डलीकोमलं स्तवम् । एतत्स्तोत्रप्रसादेन देवेषु गुरुगीष्पतिः ॥ ६-३९॥ सर्वे देवाः सिद्धियुताः अस्याः स्तोत्रप्रसादतः । द्विपरार्द्धं चिरञ्जीवी ब्रह्मा सर्वसुरेश्वरः ॥ ६-४०॥ ॥ इति रुद्रयामलोत्तरतन्त्रान्तर्गते कुण्डलिनीस्तवः सम्पूर्णम् ॥