अक्षर आकार:

खगङ्गाभुजङ्गप्रयातम्

Khaganga Bhujangaprayatam

खगङ्गाभुजङ्गप्रयातम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ मोक्षोपायाय विद्महे । माङ्गल्यायै च धीमहि । तन्नो गङ्गा प्रचोदयात् ॥ भुजङ्गप्रयातोर्मिवाहप्रवाहां भुजङ्गप्रशान्तप्रसादप्रसाराम् । भुजङ्गाधराजस्रधाराभिषेकां भजे स्वर्गगङ्गां सुवर्गापवर्गाम् ॥ १॥ सदादर्शनास्फोटकाव्याभिनव्यां स्वसौन्दर्यसंस्फूर्तिशैलीगभीराम् । सतालस्वरोंकारसानन्दलास्यां भजे नादगङ्गां स्वरामोददर्शाम् ॥ २॥ खगङ्गां गगङ्गां मुमुक्षुत्वधेयां वरस्नानसत्पानसज्ज्ञानबोधाम् । जलापूतपुण्यां महापूतनाम्नीं भजे रागगङ्गां लयावेगवाहाम् ॥ ३॥ वरानन्दकन्दां स्वरानन्दसारां चिदानन्दसद्भां चिरानन्दगाङ्गाम् । मदानन्दगेयां सदानन्दगेहां भजे ज्ञानगङ्गामनन्तादिशक्तिम् ॥ ४॥ हिमांशुप्रभासप्रवाहप्रहर्षां सुरौप्यातिशोभाम्बुशुभ्रप्रवाहाम् । हिमागप्रभावातिसत्त्वप्रकाशां भजे सत्यगङ्गां परब्रह्मकाशाम् ॥ ५॥ हिमाह्लादगङ्गां नमाम्यापवर्यां क्षपानाथसंस्मेरचारुस्वरूपाम् । सलालित्यवैचित्र्यचित्राभिलेखां भजे हिम्यगङ्गां मनश्शान्तिसौख्याम् ॥ ६॥ सुकाव्यार्पणानन्दसम्प्राप्तिभव्यां सुमाङ्गल्यसद्भाग्यसम्पत्तिभोग्याम् । सुगानप्रसन्नां हृदब्जे निषण्णां भजे दिव्यगङ्गां मदानुग्रहाम्बाम् ॥ ७॥ गुरुत्यागरजेन्द्रसङ्गीतगङ्गां सुपुष्पाभिषेकप्रमोदप्रसादाम् । इहानन्दभद्रां परज्ञानमोक्षां भजे नित्यगङ्गां वरां मङ्गलाभाम् ॥ ८॥ खगङ्गे भुजङ्गप्रयाते सुभद्रं कविप्राणसंस्फूर्तिपूते सुभद्रम् । सुरागस्फुरद्रागयाते सुभद्रं सुभद्रं सुमाङ्गल्यदे ते सुभद्रम् ॥ ९॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं खगङ्गाभुजङ्गप्रयातं गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan