अक्षर आकार:

श्रीकन्याकुमारीपञ्चरत्नस्तुतिः

Shri Kanyakumaripancharatnastutih

श्रीकन्याकुमारीपञ्चरत्नस्तुतिः

(श्रीकन्याकुमारीक्षेत्रे) कान्तिधूतकनकाखिलगर्वां काञ्चनाश्मसमबुद्धिविधात्रीम् । काङ्क्षितार्थलघुदानसमर्थां काञ्चनात्र कलये हृदि कन्याम् ॥ १॥ मान्यमङ्गजरिपोरपि यत्त- च्छून्यदेहमतिमुख्यविकल्पैः । मन्यते जडजनो हृदि कुर्वे कन्यकामहमघौघनिवृत्त्यै ॥ २॥ वन्यमूलफलरक्षितदेहै- र्जन्यसौख्यविमुखैरुपशान्तैः । कन्यकां धरपतेरुपसेव्या- मन्यशून्यहृदयः प्रणतोऽस्मि ॥ ३॥ कुमारीं रमामुख्यदेवाङ्गनार्च्या समाधिप्रवीणैः समाराध्यपादाम् । क्षमागर्वमात्मक्षमातोऽतिदूरं नयन्तीं शमादीनभीप्सन्नमस्ये ॥ ४॥ क्षपानाथचूडां कृपावारिराशिं विपापेड्यपादामपारं भवाब्धिम् । स्वपादाब्जनम्रान्द्रुतं तारयन्तीं कुमारी भजे कन्यपूर्वामजस्रम् ॥ ५॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीकन्याकुमारीपञ्चरत्नस्तुतिः सम्पूर्णा ।