अक्षर आकार:

श्रीकामाक्षीसुप्रभातम्

Shri Kamakshi Suprabhatam

श्रीकामाक्षीसुप्रभातम्

जगदवन विधौ त्वं जागरूका भवानि तव तु जननि निद्रामात्मवत्कल्पयित्वा । प्रतिदिवसमहं त्वां बोधयामि प्रभाते त्वयि कृतमपराधं सर्वमेतं क्षमस्व ॥ १॥ यदि प्रभातं तव सुप्रभातं तदा प्रभातं मम सुप्रभातम् । तस्मात्प्रभाते तव सुप्रभातं वक्ष्यामि मातः कुरु सुप्रभातम् ॥ २॥ गुरु ध्यानम् यस्याङ्घ्रिपद्म मकरन्दनिषेवणात् त्वं जिव्हां गताऽसि वरदे मम मन्द बद्धः । यस्यांब नित्यमनघे हृदये विभासि तं चन्द्रशेखर गुरुं प्रणमामि नित्यम् ॥ ३॥ जये जयेन्द्रो गुरुणा ग्रहीतो मठाधिपत्ये शशिशेखरेण । यथा गुरुस्सर्व गुणोपपन्नो जयत्यसौ मङ्गलमातनोतु ॥ ४॥ शुभं दिशतु नो देवी कामाक्षी सर्व मङ्गला शुभं दिशतु नो देवी कामकोटी मठेशः । शुभं दिशतु तच्छिष्य सद्गुरुर्नो जयेन्द्रो सर्वं मङ्गलमेवास्तु मङ्गलानि भवन्तु नः ॥ ५॥ ॥ शुभम् ॥ ॥ श्रीः ॥ कामाक्षि देव्यंब तवार्द्रदृष्ट्या मूकः स्वयं मूककविर्यथाऽसीत् । तथा कुरु त्वं परमेश जाये त्वत्पादमूले प्रणतं दयार्द्रे ॥ उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदीश्वरि । उत्तिष्ठ जगदाधारे त्रैलोक्यं मङ्गलं कुरु ॥ १॥ श‍ृणोषि कच्चिद् ध्वनिरुत्थितोऽयम् मृदङ्गभेरीपटहानकानाम् । वेदध्वनिं शिक्षितभूसुराणाम् । श‍ृणोषि भद्रे कुरु सुप्रभातम् ॥ २॥ श‍ृणोषि भद्रे ननु शङ्ख घोषम् वैतालिकानां मधुरं च गानम् । श‍ृणोषि मातः पिककुक्कुटानाम् ध्वनिं प्रभाते कुरु सुप्रभातम् ॥ ३॥ मातर्निरीक्ष्य वदनं भगवान् शशाङ्को लज्जान्वितः स्वयमहो निलयं प्रविष्टः । द्रष्टुं त्वदीय वदनं भगवान् दिनेशो ह्यायाति देवि सदनं कुरु सुप्रभातम् ॥ ४॥ पश्याम्ब केचिद् धृतपूर्णकुम्भाः केचिद् दयार्द्रे धृतपुष्पमालाः । काचित् शुभाङ्गयो ननुवाद्यहस्ताः तिष्ठन्ति तेषां कुरु सुप्रभातम् ॥ ५॥ भेरीमृदङ्गपणवानकवाद्यहस्ताः स्तोतुं महेशदयिते स्तुतिपाठकास्त्वाम् । तिष्ठन्ति देवि समयं तव काङ्क्षमाणाः ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् ॥ ६॥ मातर्निरीक्ष वदनं भगवान् त्वदीयम् नैवोत्थितः शशिधिया शयितस्तवाङ्के । संबोधयाशु गिरिजे विमलं प्रभातम् जातं महेशदयिते कुरु सुप्रभातम् ॥ ७॥ अन्तश्चरन्त्यास्तव भूषणानाम् झल्झल्ध्वनिं नूपुरकङ्कणानाम् । श्रुत्वा प्रभाते तव दर्शनार्थी द्वारि स्थितोऽहं कुरु सुप्रभातम् ॥ ८॥ वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना रंभा त्वंबरडंबरं गिरिसुता गङ्गा च गङ्गाजलम् । काली तालयुगं मृदङ्गयुगलं बृन्दा च नन्दा तथा । नीला निर्मलदर्पण धृतवती तासां प्रभातं शुभम् ॥ ९॥ उत्थाय देवि शयनाद्भगवान् पुरारिः स्नातुं प्रयाति गिरिजे सुरलोकनद्याम् । नैको हि गन्तुमनघे रमते दयार्द्रे ह्युत्तिष्ठ देवि शयनात्कुरु सुप्रभातम् ॥ १०॥ पश्यांब केचित्फलपुष्पहस्ताः केचित्पुराणानि पठन्ति मातः । पठन्ति वेदान्बहवस्तवारे तेषां जनानां कुरु सुप्रभातम् ॥ ११॥ लावण्यशेवधिमवेक्ष्य चिरं त्वदीयम् कन्दर्पदर्पदलनोऽपि वशं गतस्ते । कामारिचुम्बितकपोलयुगं त्वदीयं द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् ॥ १२॥ गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां गङ्गाजलैः स्नपयितुं बहवो घटांश्च । धृत्वा शिरःसु भवतीमभिकाङ्क्षमाणाः द्वारि स्थिता हि वरदे कुरु सुप्रभातम् ॥ १३॥ मन्दारकुन्दकुसुमैरपि जातिपुष्पैः मालाकृता विरचितानि मनोहराणि । माल्यानि दिव्यपदयोरपि दातुमंब तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् ॥ १४॥ काञ्चीकलापपरिरंभनितम्बबिम्बम् काश्मीरचन्दनविलेपितकण्ठदेशम् । कामेशचुम्बितकपोलमुदारनासां द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् ॥ १५॥ मन्दस्मितं विमलचारुविशालनेत्रम् कण्ठस्थलं कमलकोमलगर्भगौरम् । चक्राङ्कितं च युगलं पदयोर्मृगाक्षि द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् ॥ १६॥ मन्दस्मितं त्रिपुरनाशकरं पुरारेः कामेश्वरप्रणयकोपहरं स्मितं ते । मन्दस्मितं विपुलहासमवेक्षितुं ते मातः स्थिताः वयमये कुरु सुप्रभातम् ॥ १७॥ माता शिशूनां परिरक्षणार्थम् न चैव निद्रावशमेति लोके । माता त्रयाणां जगतां गतिस्त्वम् सदा विनिद्रा कुरु सुप्रभातम् ॥ १८॥ मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः हृद्यानि दिव्यमधुराणि मनोहराणि । श्रोतुं तवांब वचनानि शुभप्रदानि द्वारि स्थिता वयमये कुरु सुप्रभातम् ॥ १९॥ दिगंबरो ब्रह्मकपालपाणिः विकीर्णकेशः फणिवेष्टिताङ्गः । तथाऽपि मातस्तव देविसङ्गात् महेश्वरोऽभूत् कुरु सुप्रभातम् ॥ २०॥ अयि तु जननि दत्तस्तन्यपानेन देवि द्रविडशिशुरभूद्वै ज्ञानसम्पन्नमूर्तिः । द्रविडतनयभुक्तक्षीरशेषं भवानि वितरसि यदि मातः सुप्रभातं भवेन्मे ॥ २१॥ जननि तव कुमारः स्तन्यपानप्रभावात् शिशुरपि तव भर्तुः कर्णमूले भवानि । प्रणवपदविशेषं बोधयामास देवि यदि मयि च कृपा ते सुप्रभातं भवेन्मे ॥ २२॥ त्वं विश्वनाथस्य विशालनेत्रा हालस्यनाथस्य नु मीननेत्रा । एकाम्रनाथस्य नु कामनेत्रा कामेशजाये कुरु सुप्रभातम् ॥ २३॥ श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये त्वत्पादभक्तिभरितः फलपुष्पपाणिः । एकाम्रनाथदयिते तव दर्शनार्थी तिष्ठत्ययं यतिवरो मम सुप्रभातम् ॥ २४॥ एकाम्रनाथदयिते ननु कामपीठे सम्पूजिताऽसि वरदे गुरुशङ्करेण । श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिम् द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥ २५॥ दुरितशमनदक्षौ मृत्युसन्तासदक्षौ चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ । अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं त्रिपुरदलनजाये सुप्रभातं ममार्ये ॥ २६॥ मातस्तदीयचरणं हरिपद्मजाद्यैः वन्द्यं रथाङ्गसरसीरुहशङ्खचिह्नम् । द्रष्टुं च योगिजनमानसराजहंसं द्वारि स्थितोस्मि वरदे कुरु सुप्रभातम् ॥ २७॥ पश्यन्तु केचिद्वदनं त्वदीयं स्तुवन्तु कल्याणगुणांस्तवान्ये । नमन्तु पादाब्ज युगं त्वदीयाः द्वारि स्थितानां कुरु सुप्रभातम् ॥ २८॥ केचित्सुमेरोः शिखरेऽतितुङ्गे केचिन्मणिद्वीपवरे विशाले । पश्यन्तु केचित्त्वमृदाब्धिमध्ये पश्याम्यहं त्वामिह सुप्रभातम् ॥ २९॥ शंभोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिंबाधरोष्ठीम् । कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं पश्यामः सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम् ॥ ३०॥ कामप्रदाकल्पतरुर्विभासि नान्या गतिर्मे ननु चातकोऽहम् । वर्षस्यमोघः कनकांबुधाराः काश्चित्तु धाराः मयि कल्पयाशु ॥ ३१॥ त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् । त्रिलोकनायिकां वन्दे सुप्रभातं ममांबिके ॥ ३२॥ कृतज्ञता कामाक्षि देव्यंब तवार्द्रदृष्ट्या कृतं मयेदं खलु सुप्रभातम् । सद्यः फलं मे सुखमंब लब्धं तथा च मे दुःखदशा गता हि ॥ ३३॥ प्रार्थना ये वा प्रभाते पुरतस्तवार्ये पठन्ति भक्त्या ननु सुप्रभातम् । श‍ृण्वन्ति ये वा त्वयि बद्धचित्ताः तेषां प्रभातं कुरु सुप्रभातम् ॥ ३४॥ इति लक्ष्मीकान्त शर्मा विरचितम् श्रीकामाक्षीसुप्रभातम् समाप्तम् ॥ कामाक्षी कामाक्षी