अक्षर आकार:

श्रीकमलास्तोत्रम् २

Shri Kamala Stotra 2

श्रीकमलास्तोत्रम् २

श्री लक्ष्म्यै नमः । श्री शङ्कर उवाच । अथातः सम्प्रवक्ष्यामि लक्ष्मीस्तोत्रमनुत्तमम् । पठनात् श्रवणाद्यस्य नरो मोक्षमावाप्नुयात् ॥ १॥ गुह्याद्गुह्यतरं पुण्यं सर्वदेवनमस्कृतम् । सर्वमन्त्रमयं साक्षाच्छृणु पर्वतनन्दिनि ॥ २ ॥ अनन्तरूपिणी लक्ष्मीरपारगुणसागरी । अणिमादिसिद्धिदात्री शिरसा प्रणमाम्यहम् ॥ ३॥ आपदुद्धारिणी त्वं हि आद्या शक्तिः शुभा परा । आद्या आनन्ददात्री च शिरसा प्रणमाम्यहम् ॥ ४॥ इन्दुमुखी इष्टदात्री इष्टमन्त्रस्वरूपिणी । इच्छामयी जगन्मातः शिरसा प्रणमाम्यहम् ॥ ५॥ उमा उमापतेस्त्वन्तु ह्युत्कण्ठाकुलनाशिनी । उर्वीश्वरी जगन्मातर्लक्ष्मि देवि नमोऽस्तु ते ॥ ६॥ ऐरावतपतिपूज्या ऐश्वर्याणां प्रदायिनी । औदार्यगुणसम्पन्ना लक्ष्मि देवि नमोऽस्तु ते ॥ ७॥ कृष्णवक्षःस्थिता देवि कलिकल्मषनाशिनी । कृष्णचित्तहरा कर्त्री शिरसा प्रणमाम्यहम् ॥ ८॥ कन्दर्पदमना देवि कल्याणी कमलानना । करुणार्णवसम्पूर्णा शिरसा प्रणमाम्यहम् ॥ ९॥ खञ्जनाक्षी खञ्जनासा देवि खेदविनाशिनी । खञ्जरीटगतिश्चैव शिरसा प्रणमाम्यहम् ॥ १०॥ गोविन्दवल्लभा देवी गन्धर्वकुलपावनी । गोलोकवासिनी मातः शिरसा प्रणमाम्यहम् ॥ ११॥ ज्ञानदा गुणदा देवि गुणाध्यक्षा गुणाकरी । गन्धपुष्पधरा मातः शिरसा प्रणमाम्यहम् ॥ १२॥ घनश्यामप्रिया देवि घोरसंसारतारिणी । घोरपापहरा चैव शिरसा प्रणमाम्यहम् ॥ १३॥ चतुर्वेदमयी चिन्त्या चित्ताचैतन्यदायिनी । चतुराननपूज्या च शिरसा प्रणमाम्यहम् ॥ १४॥ चैतन्यरूपिणी देवि चन्द्रकोटिसमप्रभा । चन्द्रार्कनखरज्योतिर्लक्ष्मि देवि नमाम्यहम् ॥ १५॥ चपला चतुराध्यक्षी चरमे गतिदायिनी । चराचरेश्वरी लक्ष्मि शिरसा प्रणमाम्यहम् ॥ १६॥ छत्रचामरयुक्ता च छलचातुर्यनाशिनी । छिद्रौघहारिणी मातः शिरसा प्रणमाम्यहम् ॥ १७॥ जगन्माता जगत्कर्त्री जगदाधाररूपिणी । जयप्रदा जानकी च शिरसा प्रणमाम्यहम् ॥ १८॥ जानकीशप्रिया त्वं हि जनकोत्सवदायिनी । जीवात्मनां च त्वं मातः शिरसा प्रणमाम्यहम् ॥ १९॥ झिञ्जीरवस्वना देवि झञ्झावातनिवारिणी । झर्झरप्रियवाद्या च शिरसा प्रणमाम्यहम् ॥ २०॥ अर्थप्रदायिनीं त्वं हि त्वञ्च ठकाररूपिणी । ढक्कादिवाद्यप्रणया डम्फवाद्यविनोदिनी॥ डमरूप्रणया मातः शिरसा प्रणमाम्यहम् ॥ २१॥ तप्तकाञ्चनवर्णाभा त्रैलोक्यलोकतारिणी । त्रिलोकजननी लक्ष्मि शिरसा प्रणमाम्यहम् ॥ २२॥ त्रिलोक्यसुन्दरी त्वं हि तापत्रयनिवारिणी । त्रिगुणधारिणी मातः शिरसा प्रणमाम्यहम् ॥ २३॥ त्रैलोक्यमङ्गला त्वं हि तीर्थमूलपदद्वया । त्रिकालज्ञा त्राणकर्त्री शिरसा प्रणमाम्यहम् ॥ २४॥ दुर्गतिनाशिनी त्वं हि दारिद्र्यापद्विनाशिनी । द्वारकावासिनी मातः शिरसा प्रणमाम्यहम् ॥ २५॥ देवतानां दुराराध्या दुःखशोकविनाशिनी । दिव्याभरणभूषाङ्गी शिरसा प्रणमाम्यहम् ॥ २६॥ दामोदरप्रिया त्वं हि दिव्ययोगप्रदर्शिनी । दयामयी दयाध्यक्षी शिरसा प्रणमाम्यहम् ॥ २७॥ ध्यानातीता धराध्यक्षा धनधान्यप्रदायिनी । धर्मदा धैर्यदा मातः शिरसा प्रणमाम्यहम् ॥ २८॥ नवगोरोचना गौरी नन्दनन्दनगेहिनी । नवयौवनचार्वङ्गी शिरसा प्रणमाम्यहम् ॥ २९॥ नानारत्नादिभूषाढ्या नानारत्नप्रदायिनी । निताम्बिनी नलिनाक्षी लक्ष्मि देवि नमोऽस्तु ते ॥ ३०॥ निधुवनप्रेमानन्दा निराश्रयगतिप्रदा । निर्विकारा नित्यरूपा लक्ष्मि देवि नमोऽस्तु ते ॥ ३१॥ पूर्णानन्दमयी त्वं हि पूर्णब्रह्मसनातनी । परा शक्तिः परा भक्तिर्लक्ष्मि देवि नमोऽस्तु ते ॥ ३२॥ पूर्णचन्द्रमुखी त्वं हि परानन्दप्रदायिनी । परमार्थप्रदा लक्ष्मि शिरसा प्रणमाम्यहम् ॥ ३३॥ पुण्डरीकाक्षिणी त्वं हि पुण्डरीकाक्षगेहिनी । पद्मरागधरा त्वं हि शिरसा प्रणमाम्यहम् ॥ ३४॥ पद्मा पद्मासना त्वं हि पद्ममालाविधारिणी । प्रणवरूपिणी मातः शिरसा प्रणमाम्यहम् ॥ ३५॥ फुल्लेन्दुवदना त्वं हि फणिवेणिविमोहिनी । फणिशायिप्रिया मातः शिरसा प्रणमाम्यहम् ॥ ३६॥ विश्वकर्त्री विश्वभर्त्री विश्वत्रात्री विश्वेश्वरी । विश्वाराध्या विश्वबाह्या लक्ष्मि देवि नमोऽस्तु ते ॥ ३७॥ विष्णुप्रिया विष्णुशक्तिर्बीजमन्त्रस्वरूपिणी । वरदा वाक्यसिद्धा च शिरसा प्रणमाम्यहम् ॥ ३८॥ वेणुवाद्यप्रिया त्वं हि वंशीवाद्यविनोदिनी । विद्युद्गौरी महादेवि लक्ष्मी देवि नमोऽस्तु ते ॥ ३९॥ भुक्तिमुक्तिप्रदा त्वं हि भक्तानुग्रहकारिणी । भवार्णवत्राणकर्त्री लक्ष्मि देवि नमोऽस्तु ते ॥ ४०॥ भक्तप्रिया भागीरथी भक्तमङ्गलदायिनी । भयादा भयदात्री च लक्ष्मि देवि नमोऽस्तु ते ॥ ४१॥ मनोऽभीष्टप्रदा त्वं हि महामोहविनाशिनी । मोक्षदा मानदात्री च लक्ष्मि देवि नमोऽस्तु ते ॥ ४२॥ महाधन्या महामान्या माधवस्यात्ममोहिनी । मुखराप्राणहन्त्री च लक्ष्मि देवि नमोऽतु ते ॥ ४३॥ यौवनपूर्णसौन्दर्या योगमाया तथेश्वरी । युग्मश्रीफलवृक्षा च लक्ष्मि देवि नमोऽस्तु ते ॥ ४४॥ युग्माङ्गदविभूषाढ्या युवतीनां शिरोमणिः । यशोदासुतपत्नी च लक्ष्मि देवि नमोऽस्तु ते ॥ ४५ ॥ रूपयौवनसम्पन्ना रत्नालङ्कारधारिणी । राकेन्दुकोटिसौन्दर्या लक्ष्मि देवि नमोऽस्तु ते ॥ ४६॥ रमा रामा रामपत्नी राजराजेश्वरी तथा । राज्यदा राज्यहन्त्री च लक्ष्मि देवि नमोऽस्तु ते ॥ ४७॥ लीलालावण्यसम्पन्ना लोकानुग्रहकारिणी । ललना प्रीतिदात्री च लक्ष्मि देवि नमोऽस्तु ते ॥ ४८॥ विद्याधरी तथा विद्या वसुदा त्वन्तु वन्दिता । विन्ध्याचलवासिनी च लक्ष्मि देवि नमोऽस्तु ते ॥ ४९॥ शुभकाञ्चनगौराङ्गी शङ्खकङ्कणधारिणी । शुभदा शीलसम्पन्ना लक्ष्मि देवि नमोऽस्तु ते ॥ ५०॥ षट्चक्रभेदिनी त्वं हि षडैश्वर्यप्रदायिनी । षोडशी वयसा त्वन्तु लक्ष्मि देवि नमोऽस्तु ते ॥ ५१॥ सदानन्दमयी त्वं हि सर्वसम्पत्तिदायिनी । संसारतारिणी देवि शिरसा प्रणमाम्यहम् ॥ ५२॥ सुकेशी सुखदा देवि सुन्दरी सुमनोरमा । सुरेश्वरी सिद्धिदात्री शिरसा प्रणमाम्यहम् ॥ ५३॥ सर्वसङ्कटहन्त्री त्वं सत्यसत्त्वगुणान्विता । सीतापतिप्रिया देवि शिरसा प्रणमाम्यहम् ॥ ५४॥ हेमाङ्गिनी हास्यमुखी हरिचित्तविमोहिनी । हरिपादप्रिया देवि शिरसा प्रणमाम्यहम् ॥ ५५॥ क्षेमङ्करी क्षमादात्री क्षौमवासोविधारिणी । क्षीणमध्या च क्षेत्राङ्गी लक्ष्मि देवि नमोऽस्तु ते ॥ ५६॥ ॥ फलश्रुति ॥ श्री शङ्कर उवाच । अकारादि क्षकारान्तं लक्ष्मीदेव्याः स्तवं शुभम् । पठितव्यं प्रयत्नेन त्रिसन्ध्यञ्च दिने दिने ॥ ५७॥ पूजनीया प्रयत्नेन कमला करुणामयी । वाञ्छाकल्पलता साक्षाद्भुक्तिमुक्ति प्रदायिनी ॥ ५८॥ इदं स्तोत्रं पठेद्यस्तु श‍ृणुयात् श्रावयेदपि । इष्टसिद्धिर्भवेत्तस्य सत्यं सत्यं हि पार्वति ॥ ५९॥ इदं स्तोत्रं महापुण्यं यः पठेद्भक्तिसंयुतः । तञ्च दृष्ट्वा भवेन्मूको वादी सत्यं न संशयः ॥ ६०॥ श‍ृणुयाछ्रावयेद्यस्तु पठेद्वा पाठयेदपि । राजानो वशमायान्ति तं दृष्ट्वा गिरिनन्दिनि ॥ ६१॥ तं दृष्ट्वा दुष्टसङ्घाश्च पलायन्ते दिशो दश । भूतप्रेतग्रहा यक्षा राक्षसाः पन्नगादयः॥ विद्रवन्ति भयार्ता वै स्तोत्रस्यापि च कीर्तनात् ॥ ६२॥ सुराश्च ह्यसुराश्चैव गन्धर्वकिन्नरादयः । प्रणमन्ति सदा भक्त्या तं दृष्ट्वा पाठकं मुदा ॥ ६३॥ धनार्थी लभते चार्थ पुत्रार्थी च सुतं लभेत् । राज्यार्थी लभते राज्यं स्तवराजस्य कीर्तनात् ॥ ६४॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महापापोपपापञ्च तरन्ति स्तवकीर्तनात् ॥ ६५॥ गद्यपद्यमयी वाणी मुखात्तस्य प्रजायते । अष्टसिद्धिमवाप्नोति लक्ष्मीस्तोत्रस्य कीर्तनात् ॥ ६६॥ वन्ध्या चापि लभेत् पुत्रं गर्भिणी प्रसवेत्सुतम् । पठनात्स्मरणात् सत्यं वच्मि ते गिरिनन्दिनि ॥ ६७॥ भूर्जपत्रे समालिख्य रोचनाकुङ्कुमेन तु । भक्त्या सम्पूजयेद्यस्तु गन्धपुष्पाक्षतैस्तथा ॥ ६८॥ धारयेद्दक्षिणे बाहौ पुरुषः सिद्धिकाङ्क्षया । योषिद्वामभुजे धृत्वा सर्वसौख्यमयी भवेत् ॥ ६९॥ विषं निर्विषतां याति अग्निर्याति च शीतताम् । शत्रवो मित्रतां यान्ति स्तवस्यास्य प्रसादतः ॥ ७०॥ बहुना किमिहोक्तेन स्तवस्यास्य प्रसादतः । वैकुण्ठे च वसेन्नित्यं सत्यं वच्मि सुरेश्वरि ॥ ७१॥ ॥ अथ लक्ष्मीकवच॥ लक्ष्मीर्मे चाग्रतः पातु कमला पातु पृष्ठतः । नारायणी शीर्षदेशे सर्वाङ्गे श्रीस्वरूपिणी ॥ ७२॥ रामपत्नी प्रत्यङ्गे तु सदावतु रमेश्वरी । विशालाक्षी योगमाया कौमारी चकिणी तथा ॥ ७३॥ जयदात्री धनदात्री पाशाक्षमालिनी शुभा । हरिप्रिया हरिरामा जयङ्करी महोदरी ॥ ७४॥ कृष्णपरायणा देवी श्रीकृष्णमनोमोहिनी॥ जयङ्करी महारौद्री सिद्धिदात्री शुभङ्करी ॥ ७५॥ सुखदा मोक्षदा देवी चित्रकूटवासिनी । भयं हरेत्सदा पायाद् भवबन्धाद्विमोचयेत् ॥ ७६॥ कवचन्तु महापुण्यं यः पठेत् भक्तिसंयुतः । त्रिसन्ध्यमेकसन्ध्यं वा मुच्यते सर्वसङ्कटात् ॥ ७७॥ पठनं कवचस्यास्य पुत्रधनविवर्धनम् । भीतिविनाशनञ्चैव त्रिषु लोकेषु कीर्तितम् ॥ ७८॥ भूर्जपत्रे समालिख्य रोचनाकुङ्कुमेन तु । धारणाद्गलदेशे च सर्वसिद्धिर्भविष्यति ॥ ७९॥ अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादतः ॥ ८०॥ गर्भिणीं लभते पुत्रं वन्ध्या च गर्भिणी भवेत् । धारयेद्यदि कण्ठे च अथवा वामबाहुके ॥ ८१॥ यः पठेन्नियतो भक्त्या स एव विष्णुवद्भवेत् । मृत्युव्याधिभयं तस्य नास्ति किञ्चिन्महीतले ॥ ८२॥ पठेद्वा पाठयेद्वापि श‍ृणुयाछ्रावयेदपि । सर्वपापविमुक्तस्तु लभते परमां गतिम् ॥ ८३॥ विपदि सङ्कटे घोरे तथा च गहने वने । राजद्वारे च नौकायां तथा च रणमध्यतः । पठनाद्धारणाद्यस्य जयमाप्नोति निश्चितम् ॥ ८४॥ अपुत्रा च तथा वन्ध्या त्रिपक्षं श‍ृणुयादपि । सुपुत्रं लभते सा तु दीर्घायुष्यं यशस्विनम् ॥ ८५॥ श‍ृणुयाद्यः शुद्धबुद्ध्या द्वौ मासौ विप्रवक्रतः । सर्वान्कामानवाप्नोति सर्वबन्धाद्विमुच्यते ॥ ८६॥ मृतवत्सा जीववत्सा त्रिमासं श‍ृणुयाद्यदि । रोगी रोगाद्विमुच्येत पठनान्मासमध्यतः ॥ ८७॥ लिखित्वा भूर्जपत्रे च ह्यथवा ताडपत्रके । स्थापयेन्नियतं गेहे नाग्निचौरभयं क्वचित् ॥ ८८॥ श‍ृणुयाद्धारयेद्वापि पठेद्वा पाठयेदपि । यः पुमान्सततं तस्मिन्प्रसन्ना सर्व देवताः ॥ ८९॥ बहुना किमिहोक्तेन सर्वजीवेश्वरेश्वरी । आद्या शक्तिः सदा लक्ष्मीर्भक्तानुग्रहकारिणी । धारके पाठके चैव निश्चला निवसेद् ध्रुवम् ॥ ९०॥ इति श्रीकमला स्तोत्रम् सम्पूर्णम् ।