अक्षर आकार:

कमलाम्बिकास्तवः २

kamalAmbikAstavaH 2

कमलाम्बिकास्तवः २

कमलालयतीरस्या चिद्घना कमलाम्बिका । कमलासनसम्पूज्या भाति कामकलात्मिका ॥ अन्वैच्छस्तपसा श्रमणऋषयो मन्त्रार्थसंवेदिनः वाग्देवीं वरदे मनीषिण उमे देवाश्च यां त्वां शिवे । सा त्वं श्रीकमलालये परशिवाभिन्नात्मिके चिद्घने किं प्राप्तुं कमलाम्बिके वरतपोवेषा विभास्यम्बिके ॥ १॥ मातः किं मधुकैटभासुहरणात्कासारदैत्यार्दनात् किं धूम्राम्बकचण्डमुण्डहननात् किं रक्तबीजाशनात् । किं वा शुम्भनिशुम्भदैत्यहननात् पापं किमासादितं कूले श्रीकमलालयस्य कुरुषे दुर्गे किमर्थं तपः ॥ २॥ अव्यक्तं परमेश्वराकृतिरहो व्यक्तं त्वदाकारकं दृश्यं यद्धि चराचरात्मकमिदं विश्वं विभात्यम्बिके । तद्बोधस्य विधायिनी परशिवाभिन्ने त्वमेव स्वयं श्रीमातः कमलाम्बिके श्रुतिशिरस्त्वेवं ब्रवीतीश्वरि ॥ ३॥ करब्रह्माकृतिमन्त्रिणीपरिनमद्यल्लाङ्गलिन्याश्रितं बिन्द्वन्ते स्थितिकारणात्मकमिति स्वैकानुभूत्या बुधाः । मातः श्रीकमलाम्बिकेति विलसन्नामाक्षरार्थं तव प्राहुस्त्वेवमगात्मजे परचिदानन्दस्वरूपे शिवे ॥ ४॥ मूलाधारतले परमिति शिवे नादात्मिकां त्वां बुधाः पश्यन्तीमिति नाभिपद्मविवरे त्वां वै महान्तो विदुः । हृत्पद्मे कमलाम्बिके परशिवे त्वां मध्यमां ज्ञानिनः कण्ठे व्यक्तरवां वराक्षरतनो त्वां वैखरीं सञ्जगुः ॥ ५॥ ये त्वामक्षरपीठगां हृदयगाम्भोजस्थितां सर्वदा ध्यायन्त्यक्षररूपिणीं भवमहापाशाद्विमुच्य स्वयम् । चिन्मुद्राङ्कितसद्गुरोः करुणया बोधं समासाद्य ते सानन्दं विहरन्ति सत्सुखमहाम्भोधौ निमग्नाशयाः ॥ ६॥ मूलाधारगताम्बुजाद्विधिबिलस्थाम्भोजपर्यन्तगां तन्वीं त्वां बिसतन्तुवद्रविशतानेकद्युतिं भास्वराम् । ये त्वां श्रीकमलाम्बिके हृदि सदा शीताम्शुवच्छीतलां तेजोदण्डसमाकृतिं परशिवे ध्यायन्ति धन्या हि ते । ७॥ चिच्चन्द्रबिम्बोत्थसुधास्वरूपपञ्चोपचारैः परमर्चयन्ति । त्वां पञ्चभूतानि हि मूर्तिमन्ति मातः शिवे श्रीकमलालयस्थे ॥ ८॥ भूतानि जातानि परेशि तत्तन्मात्रासमं त्वत्कमलालयस्थे । भूम्यन्तरिक्षानिलवह्निकानि त्वय्येव लीनानि भवन्ति मातः ॥ ९॥ ज्योतिर्मयाया हृदयत्रिकोणमध्यस्थितायास्तव पादपद्मे । लीनं विचिन्त्य स्वमहो महान्तः नयन्ति कालं कमलालयस्थे ॥ १०॥ श्रीकादिविद्ये कमलालयस्थे त्वन्मूलविद्याजपतो महान्तः । ज्योतिर्मयं ते परचित्स्वरूपं भजन्ति विश्वोत्थविकारहीनम् ॥ ११॥ तेजोरूपविराजिते परशिवाभिन्नप्रकाशात्मिके त्वं मातर्वियदादिविश्वजननी सर्वावभासिन्युमे । स्वाभेदप्रविराजमानपरचिन्मात्रा त्वया प्रेरिताः मान्याः श्रीकमलाम्बिके बुधवराः कर्माचरन्त्यम्बिके ॥ १२॥ विश्वाकृती राजसि जाग्रति त्वं स्वप्ने शिवे तैजसरूपधर्व्री । प्राज्ञस्वरुपासि सुषुप्तिकाले तुरीयरूपा कमलालयस्थे ॥ १३॥ इदन्तया श्रीजगदीश्वरि त्वं सामान्यतः श्रीपरचित्स्वरुपे । अहन्तया श्रीकमलालयस्थे विशेषतो भासि सदाशिवे त्वम् ॥ १४॥ शक्त्याकृतिः श्रीकमलालयस्थे जगत्सिसृक्षासमये शिवस्य । तत्पूर्वकाले निजरूपतस्त्वं विराजसे विश्वतनो परेशि ॥ १५॥ त्वत्पादपद्मं वरदे प्रणन्तुं स्तोतुं महेश्यर्चयितुं ह्यशक्तः । कथं भविष्यामि शिवे भवाब्धेः शक्तः परं पारमुमे सुतर्तुम् ॥ १६॥ अज्ञानदुष्टग्रहपीडितानां नृणामपाङ्गेक्षणसद्विभूतिः । महौषधिर्मन्त्रविदस्तवेति प्राहुर्महान्तो गुरुरूपधर्त्रि ॥ १७॥ कमलालयतटशोभितविमलालयविलसत् कमलापतिकमलासनकमलार्चितविभवम् । कमलाङ्घ्रिककमलाननकमलाम्बकविलसत् कमलाभिधमह आन्तरकमले मम कलये ॥ १८॥ मातः परेशि कमलालयहंसिरूपे नातः परं गदितुमस्ति हि किञ्चिदम्ब । मच्चित्तपङ्कजतले कमलाम्बिके त्वं सच्चित्तनो विहर हंसिवदम्बुजे त्वम् ॥ १९॥ कटकमासगतार्यमोडुनि कनकरत्नभूषिता कटितटोल्लसदिन्दुकुन्दसुकान्तिभृद्धवलाम्बरा । कुटिलकुन्तलकोमला ग्रथितप्रलम्बकचाग्रका कुटजकुन्दसुमाल्यका कमलाम्बिका प्रविराजते ॥ २०॥ कमलतटनिवासां कामितार्थप्रदात्रीं समलमतिसुदूरां सामगानप्रियां ताम् । शमलगिरिसुवज्रां श्यामलादिप्रपूज्यां विमलहृदयवासां व्योमरूपां भजेऽहम् ॥ २१॥ यजनपरमनुजवरशिववदनजार्चितां भजनपरसनकमुखमुनिहृदयसंस्थिताम् । अजजनकहयवदनहरिहयसुपूजितां भज हृदय रविजलजगुरुवरदशङ्करीम् ॥ २२॥ करे विराजत्कमनीयपङ्कजां नरेन्द्रयोगीन्द्रनमत्पदाम्बुजाम् । धराधरेन्द्रस्य तपःप्रभावजां वरेण्यरुपां कलये शिवामजाम् ॥ २३॥ स्वाभेदतः श्रीकमलाम्बिके त्वां स्वान्तस्थहृत्पद्मतले महान्तः । ध्यायन्ति ये ते परचित्स्वरूपे स्वानन्दवाराम्निधिं सन्निमग्नाः ॥ २४॥ मुद्राक्षमालाम्बुजपाशहस्तां स्ववामजानूर्ध्वगतान्यजानुम् । योगासनस्थां कमलालयस्थां भजे सदा श्रीकमलाम्बिके त्वाम् ॥ २५॥ वीणावादनतत्परां विधिनुतामेणाङ्कतुल्याननां वाणीनिर्जितकीरकोकिलखगश्रेणिं सुगानप्रियाम् । वेणीबन्धलसत्सुमां वरमहामाणिक्यभूषान्वितां वाणीस्थां कमलाम्बिकां मम शिवप्राणात्मिकां संश्रये ॥ २६॥ ईशानकोणे कमलालयस्य श्रीत्यागराजस्य तु वायुकोणे । ईशानदृष्टिः कमलाम्बिकाख्या या भाति सा श्रीरमृता सतां हि ॥ २७॥ अबलालयवद्विराजित श्रीकमलालयसंस्थितां कुमारीम् । सफले लयहीनमूर्तिमम्बां जनिरप्यवलोकयतां नृणां दृक् ॥ २८॥ तवैव भासा कमलालयस्थे सम्प्राप्तवान्भास्करतां दिनेशः । त्वत्पादपद्मोत्थसुधाब्धिमग्नः सुधांशुतां प्राप निशापतिर्हि ॥ २९॥ श्रीकामराजाख्यसुमन्त्रलक्ष्ये नाकाधिराजस्तुतपादपद्मे । एकापि भक्तावलिरक्षणार्थं नैकासि मातः कमलालयस्थे ॥ ३०॥ वर्णादिरूपे शिवशक्त्यभेदमूर्ते चिदानन्दरसप्रदात्रि । मातः शिवे त्वं शिवशक्तिभेदवर्णस्वरूपेण विराजितासि ॥ ३१॥ त्वत्पादपद्मोथसुधासुपानात् सदा निजानन्दरसैकनिष्ठाः मदादिहीनाः कमलालयस्थे माद्यन्ति मर्त्यास्तव भक्तवर्याः ॥ ३२॥ अनुग्रहस्ते यदि सत्यमम्ब न मे भयं श्रीकमलालयस्थे । अनुग्रहो नो यदि सत्यमम्ब न मेऽभयं कामकलास्वरूपे ॥ ३३॥ मदम्बिका हृत्कमलान्तरस्था चिदम्बिका श्रीकमलालयस्था । अनन्तसौख्यं कमलासनस्था तनोतु देवी कमलाम्बिका मे ॥ ३४॥ यत्सङ्कल्पविकल्पबीजजनितं त्वन्तर्महीसम्भवं कृत्याकृत्यजलप्रवर्धितमुमे जन्मादिहेतुं परम् । धर्माधर्मफलप्रदं तव वरज्ञानासिना ये नराः पुण्यापुण्यमहाद्रुमं नगसुते छिन्दन्ति धीरा हि ते ॥ ३५॥ अनिन्धनं समेधिते निरन्तरं हृदन्तरे चिदाशुशुक्षणौ महाविमोहरात्रिनाशके । अवाच्यवैभवे परे विचित्रभाविकासिते जुहोम्यहं धरादिमं शिवान्ततत्त्वमम्बिके ॥ ३६॥ लाक्षारसारक्तपदाम्बुजाढ्या द्राक्षासुमाधुर्यवचोविधात्री । आक्षारूपा कमलालयेऽम्ब साक्षाद्विभाति स्वकभक्तपक्षा ॥ ३७॥ अक्षरत्रयरूपिणीमखिलाक्षवृत्तिविनाशिनीं ऋक्षराजसुभाविताममृताक्षराङ्घ्रियुगां भजे । अक्षरासनसंस्थितामजशिक्षकेभमुखप्रियां चिक्षुरादिविनाशिनीं वरलक्षणां कमलाम्बिकाम् ॥ ३८॥ अदीक्षितानां हि मनोऽक्ष्यलक्ष्या सुदीक्षितानां तु मनोऽक्षिलक्ष्या सदीक्षिता श्रीकमलालयस्था मदीक्षणस्यास्तु हृदोऽपि लक्ष्या ॥ ३९॥ कमलेति तवाक्षरत्रयाणि कमनीयतमानि शुभप्रदानि । कमलालयगे मलत्रयाणि कमलादिनुते हरन्ति मातः ॥ ४०॥ मातर्देवि त्वत्पराभक्तिमार्गं हित्वा मोक्षस्यैकहेतुं मृडानि । अन्यः पन्था विद्यते नायनायेत्येवं वेदो व्यक्तमेव ब्रवीति ॥ ४१॥ स्वाराज्यमाप्नोति स एव नूनम् स्वाभेदतः श्रीकमलालयस्थाम् । स्वान्ताम्बुजे यो विमले ह्युपास्ते स्वाचार्यसन्दर्शितमार्गनिष्ठः ॥ ४२॥ विद्याप्रपञ्चे विहरन्ति सन्तोऽविद्याप्रपञ्चे विहरन्ति मूढाः । विद्याकृते श्रीकमलालयस्थेऽविद्याकृते त्वत्कृपयैव नूनम् ॥ ४३॥ मकारवर्जं तव वामनेत्रबिन्द्वाढ्यमाद्ये कमलेति नाम । श्रीकामराजाख्यवरार्णरूपं भजन्ति मान्याः स्वकबोधसिध्यै ॥ ४४॥ उमेति वर्णद्वयमादिशक्ते नवाकृते तेऽक्षरतां हि मातः । प्रदर्शयत्येव परास्वरूपे गुरुस्वरूपे कमलालयस्थे ॥ ४५॥ चतुर्भिराद्यैः समुपास्यमानां चतुर्विधैक्यानुभवैकवेद्याम् । चतुःश्रुतीनामपि सारभूतां चतुर्मुखेड्यां कमलां भजेऽहम् ॥ ४६॥ श्रीनाथनामक्रिययैव नामविकारहीनं हि तव स्वरूपम् । आनन्दभैरव्यगभाग्यभूते स्वानन्दमाप्नोति नरो विपाप्मा ॥ ४७॥ भीरुं रक्षतु भैरवी भयहरा घोराद्भवाम्भोनिधेः कल्याणी कमलाम्बिका विहरतु स्वान्तस्थपद्मे सदा । कां भो जात भजस्व कादिमनुराड्रूपां कुलाम्भोजगां अम्बां विश्वविमोहिनीं विधिनुतां पश्यान्तरे रागिणीम् ॥ ४८॥ मम चेतः कमलं मलत्रयाढ्यं विमलाङ्घ्रिद्वयसन्निवेशनात्ते । अमलं कमलाम्ब कुरुष्व तस्मान्मम लाभः परमो न तेऽम्ब हानिः ॥ ४९॥ स्वरेशचन्द्रद्वयशक्तिबीजत्रयाढ्यमाद्ये कमलेति नाम । मकारवर्जं तव मूलविद्यां विद्योतयत्येव गुरुस्वरूपे ॥ ५०॥ शान्तस्वरूपा विमलप्रकाशा त्वमात्मरूपा च गुहान्तरस्था । मातश्चिदानन्दतनुर्विभासि त्वमम्बिकेऽनन्तसुखप्रदात्रि ॥ ५१॥ अनन्तसूत्रग्रथिता सुवर्णमालाऽतिमाधुर्यवचस्सुमाढ्या । गुरुस्वरूपा कमलाम्बिका या तदङ्घ्रिपद्मं समलङ्करोतु ॥ ५२॥ इति श्रीगुहानन्दमण्डलीसंस्थापकतदध्यक्ष श्रीमच्चिदानन्दनाथाख्यसद्गुरुपादाब्जामृतपायिना अनन्तानन्दनाथेन रचितः श्रीकमलाम्बिकास्तवः सम्पूर्णः ॥