अक्षर आकार:

श्रीकमलाम्बिकास्तवः

shrIkamalAmbikAstavaH

श्रीकमलाम्बिकास्तवः

कमलालयतटशोभितविमलालयविलसत् कमलापति-कमलासन-कमलार्चितविभवम् । कमलाङ्घ्रिक-कमलानन-कमलाम्बिक-विलसत् कमलाभिधमहमान्तरकमले मम कलये ॥ १॥ यजनपर-मनुजवर-शिववदनजार्चितां भजनपर-सनकमुख-मुनिहृदयसंस्थिताम् । अजजनक-हयवदन-हरिहयसुपूजितां भज हृदय रविजलज गुरुवरदशाङ्करीम् ॥ २॥ ईशानकोणे कमलालयस्य श्रीत्यागराजस्य तु वायुकोणे । ईशानदृष्टिः कमलाम्बिकायाः या भाति सा श्रीरमृता सतां हि ॥ ३॥ मदम्बिका हृत्कमलान्तरस्था चिदम्बिका श्रीकमलालयस्था । अनन्तसौख्यं कमलासनस्था तनोतु देवी कमलाम्बिका मे ॥ ४॥ अनिन्धनं समेधिते निरन्तरं हृदन्तरे चिदाशुशुक्षणौ महाविमोहरात्रिनाशके । अवाच्यवैभवे परे विचित्रमाविकासिते जुहोम्यहं धरादिमं शिवान्ततत्त्वमम्बिके ॥ ५॥ दिमं?? अक्षरत्रयरूपिणीमखिलाक्षवृत्तिविनाशिनीं ऋक्षराजसुभाविताममृताक्षराङ्घ्रियुगां भजे । अक्षरासनसंस्थितामजशिक्षकेभमुखप्रियां चिक्षुरादिविनाशिनीं वरलक्षणां कमलाम्बिकाम् ॥ ६॥ मकारवर्जं तव वामनेत्रबिन्द्वाढ्यमाद्ये कमलेति नाम । श्रीकामरजाख्यवरार्णरूपं भजन्ति साध्याः स्वकबोधसिद्धये ॥ ७॥ सान्याः? स्वरेश चन्द्राह्वयशीतबीजत्रयाढ्यमाधे कमलेति नाम । मकारवर्जं तव मूलविद्यां विद्योतयत्येव गुरुस्वरूपे ॥ ८॥ शान्तस्वरूपा विमलप्रकाशा त्वमात्मरूपा च गुहान्तरस्था । मातश्चिदानन्दतनुर्विभासि त्वमम्बिकेऽनन्तसुखप्रदात्रि ॥ ९॥ अनन्तसूत्रग्रथिता सुवर्णमालातिमाधुर्यवचस्सुमाढ्या । गुरुस्वरूपा कमलाम्बिका या तदङ्घ्रिपद्मं समलङ्करोतु ॥ ॥ इति श्रीमच्चिदानन्दनाथाख्य सद्गुरुपादाब्जामृतपायिना अनन्तानन्दनाथेन रचितः श्रीकमलाम्बिकास्तवः सम्पूर्णः ॥