अक्षर आकार:

श्रीकमलाम्बापञ्चदशाक्षरीस्तोत्रम्

Shri Kamalamba Panchadashakshari Stotram

श्रीकमलाम्बापञ्चदशाक्षरीस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ मन्त्रदेव्यै च विद्महे । मातृकायै च धीमहि । तन्नः शिवा प्रचोदयात् ॥ ध्यानाष्टकम् । सङ्गीतसद्गुरुस्वामित्यागब्रह्मसुकीर्तिताम् । गुरुकीर्तनसानन्दां वन्दे श्रीकमलालयाम् ॥ १॥ श्रीदीक्षितकृताश्चर्यनवावरणकीर्तनाम् । कीर्तनापूज्यवाग्देवीं वन्दे श्रीकमलाम्बिकाम् ॥ २॥ कमनीयातिलावण्यां कमनीयमृदुस्वराम् । कलसुस्वरगानीयां वन्दे श्रीकमलाम्बिकाम् ॥ ३॥ नादोपासनसुप्रीतां नादविद्यातिदेवताम् । नादसुस्वरवागर्थां वन्दे श्रीकमलाम्बिकाम् ॥ ४॥ वीणासङ्गीतलोलां च कलवीणास्वरस्वराम् । वीणालयां स्वराह्लादां वन्दे श्रीकमलाम्बिकाम् ॥ ५॥ सङ्गीतसुस्वरां वाचां सप्तस्वरसुनृत्यकाम् । स्वरविद्यार्थिसंश्रायां वन्दे श्रीकमलाम्बिकाम् ॥ ६॥ सप्तस्वरपरानिष्ठां सप्तस्वरसुविग्रहाम् । सप्तस्वरसुपुष्पार्चां वन्दे श्रीकमलाम्बिकाम् ॥ ७॥ कंदधां कमलाम्बां श्रीकादिविद्योपचारिताम् । हादिसादीतिमन्त्रार्थां वन्दे मन्त्रस्वरूपिणीम् ॥ ८॥ अथ स्तोत्रम् । कल्याणी कलगीर्वाणी काम्भोजकरुणेक्षणा । कल्याणसुवसन्तश्रीः कीरवाणीमधुस्वरा ॥ १॥ एकनिष्ठाभिनिध्याता एकाक्षरी सुशङ्करी । एकब्रह्मस्वरूपा च एकशब्दस्वरालया ॥ २॥ ईशवामसुपार्श्वा च ईश्वरी जगदीश्वरी । ईश्वरानुग्रहापूर्णा ईशसन्नुतपूरणी ॥ ३॥ लक्षणान्वितपादाङ्का शुभलक्षणलक्षिता । लगनीया लसद्रागा ललिता ललिताम्बिका ॥ ४॥ ह्रींकारमन्त्रसद्रूपा ह्रींकारमन्त्रमोदिनी । ह्रींकारशब्दसाराध्या ह्रींकारशब्दनादिनी ॥ ५॥ हसितोत्पलसौन्दर्या हंसानन्दप्रकाशिनी । हंसनादसुसङ्गीता हंसगुह्यप्रसादिनी ॥ ६॥ सङ्गीतसुस्वराराध्या सङ्गीतवरदायिनी । सङ्गीतस्वरसान्निध्या सङ्गीतस्वरभूषणी ॥ ७॥ कराब्जधृतवीणा च करवीणास्वरालया । स्वराजितसुवीणा च करवीणालयस्वरा ॥ ८॥ हरिकेदारगौला च हरिप्रियसहोदरी । हरिनारायणी गौरी हरिकाम्भोजपादभा ॥ ९॥ लसच्छविप्रभारूपा लब्धवर्णा लयालया । लालित्यमृदुवाणी च ललितस्वरमाधुरी ॥ १०॥ ह्रींकारस्वरसम्पूर्णा ह्रींकारध्यानभासुरा । ह्रींकारमन्त्रगुह्यार्था ह्रींकारबीजगुप्तका ॥ ११॥ सकलार्थप्रदा माता सकलागमचारिणी । सकलाधरसँल्लास्या सकलाघप्रणाशिनी ॥ १२॥ कलामयी कलाराध्या कमलालयवैभवा । कलसुस्वरमाधुर्या कलगानप्रसादिनी ॥ १३॥ लयशुद्धिसुगाराध्या लयरागरसाकृतिः । लसत्सुमुखलावण्या लयारामा लयारमा ॥ १४॥ ह्रींकारलयरागा च ह्रींकारप्रीणिनी सती । ह्रींकारमन्त्रपावित्र्या ह्रींकारजपगोचरा ॥ १५॥ श्रींमन्त्रपूजिताध्याता श्रीरागसुन्दरी धरी । श्रीरागसुस्वरागीता श्रीरागवाग्विलासिनी ॥ १६॥ श्रीश्च सरस्वतीरूपा श्रीपञ्चदशमन्त्रिणी । श्रीषोडशाक्षरीपूज्या मन्त्रप्रकाशिनी परा ॥ १७॥ सर्वानन्दमयी विद्या सर्वानन्दप्रदायिनी । सर्वानन्दसुचक्राभा सर्वानन्दसुमङ्गला ॥ १८॥ श्रीचक्रदेवतायै च श्रीपुरायै सुमङ्गलम् । रसमेरुसुवासिन्यै सद्रसायै सुमङ्गलम् ॥ १९॥ मङ्गलं मन्त्रवर्णायै श्रीरागिण्यै सुमङ्गलम् । मङ्गलं मूकवाग्दायै कादम्बर्यै सुमङ्गलम् ॥ २०॥ त्यागराजगुरुस्वामिशिष्यापुष्पाकृतस्तुतिः । अम्बाप्रीता गुरुप्रेर्या अम्बापादसमर्पिता ॥ २१॥ अम्ब नान्योपयुक्ताहं त्वद्भक्तिकीर्तनं विना । एतत्सद्भक्तिनैवेद्यं स्वीकुरुष्व मदम्बिके ॥ २२॥ न्यूनानिच्छिद्रसर्वाणि क्षमस्व परदेवते । सदा त्वां संश्रिताहं मे क्षिप्रं प्रसीद सात्त्विकि ॥ २३॥ कादिविद्यां न जानामि हादिसादिं च नाम्बिके । जानामि त्वं मदम्बेति जानामि त्वत् पदाश्रयम् ॥ २४॥ शब्दावरणदुस्तापं हर मे परमेश्वरि । शेषजीवनपर्यन्तं प्रशान्त्यावारयाम्बिके ॥ २५॥ कर्मानुबन्धजालाद्विमोचनं कुरु पावनि । शुभोत्तुङ्गे नमस्तुभ्यं ज्ञानं देहि सुनादकम् ॥ २६॥ मङ्गलं ते मदम्ब श्रीर्मया सह सदा वस । मङ्गलैतत्सुवाग्देवि कुरु मोक्षसुमङ्गलम् ॥ २७॥ मङ्गलं नादमातस्ते मङ्गलं कमलाम्बिके । मङ्गलं ज्ञानसौभाग्ये मोक्षदे शुभमङ्गलम् ॥ २८॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीकमलाम्बापञ्चदशाक्षरीस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan