अक्षर आकार:

श्रीकल्पकाम्बिकासुप्रभातम्

Shri Kalpakambika Suprabhatam

श्रीकल्पकाम्बिकासुप्रभातम्

नृत्तं च लास्यमखिलं पितृ-मातृ-दत्तं वित्तं विवर्धयति कुञ्चितपादलीलः । यत्संस्मृतेर्भवति वाग्विभवादि लाभः दद्यात्स नृत्यगणराण्मम सुप्रभातम् ॥ १॥ नीरार्णवोर्मिशिशिरीकृतकोमलाङ्गि नीलानुजे शतमघोपलरम्यवर्णे । श्रीनीलकण्ठतनुभागिनि भाग्यमूले श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ २॥ ओङ्काररूपकमयूरगतान्तरङ्गे ओङ्कारवर्णनविदूरगतिप्रणामे । ओङ्कारलोलहरिभागकृते मयूरि श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ३॥ मर्माणि शास्त्रनिगमप्रभवानि कीर- भाषाहृतानि कलयन्मेधया ते । हस्तागतां कीरशिशुकां कलयन्ज्ञां श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ४॥ बालार्करक्तनवभूमितलाब्जचेले बाले प्रसूनचपलप्रथितात्मभावे । मायूरनागरमहाजनभाग्यमूले श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ५॥ अत्रार्पयन्ति मनुजा मनसा महान्तः सर्वं स्वकर्मफलमुद्भवनाशमूलम् । त्वत्सुन्दरस्मितगतात्मविभावनाभिः श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ६॥ पूर्णानि पूर्णफलदान्यतिकोमलानि जायन्त इत्यधिकमर्थितचित्तमूलात् । त्वद्वीक्षणाढ्यकविवाचि हृदिस्पृशानि श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ७॥ मत्तेभकुम्भसमसुस्तनमुग्धकान्ते मन्दारकुन्दकरवीरसुमप्रियासि । सर्वाश्रये निगमपीठनिवासिमान्ये श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ८॥ ह्रीं ह्रीमिति प्रतिदिनं तव मन्दिरेऽस्मिन् त्वद्बीजमुख्यमननात्प्रभवन्ति सन्तः । सभ्योत्तमोत्तमपते सकलाण्डमान्ये श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ९॥ ह्रीं ह्रीं शिवे शुभतमे भव मे प्रसन्ना संसारवार्धितरणे भव मे सहाय्या । इत्यर्थिभिः प्रतिदिनं क्रियते निनादः श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ १०॥ नो वेद्म्यहं श्रुतिपदं निखिलांश्च मन्त्रान् त्वामेव वेद्मि करुणां जननीं मदीयाम् । तस्मात्कुरुष्व मयि पुत्रमतिं त्वदीये श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ११॥ वासन्तनागरगतस्तव शेषशायी वाधूलरामपदभृत् दश पद्यपुष्पैः । नव्यां तनोति नवरात्रिमहोत्सवेऽस्मिन् त्वत्सुप्रभातनुतिमम्बुजनाभदासः ॥ १२॥ इति वाधूलगोत्रोद्भवेन श्रीवेङ्कटेश्वरार्यस्य पुत्रेण श्रीशेषशायीशर्माख्येन विरचितं श्रीकल्पकाम्बिकासुप्रभातं सम्पूर्णम् ।