अक्षर आकार:

श्रीकल्पकाम्बिकाशरणपद्यानि

Shri Kalpakambika SharanapadyAni

श्रीकल्पकाम्बिकाशरणपद्यानि

अव्याजकारुण्यरसप्रवाहां सव्याजकेलि प्रथितात्मभावाम् । वाचां धियां पूर्णफलप्रदात्रीं श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ १॥ अवैमि शक्तिं भवतीमरूपां स्त्रीलिङ्कसङ्कल्पितमूर्त्तिभेदाम् । तथापि नाम्नामवसानहेतोः श्रीकल्पकां त्वां शरणं प्रपद्ये ॥ २॥ मुक्तिर्न मे तुष्टिकरी भवेत्सा यदङ्कसंलालितबालकोऽहम् । चक्षुष्मतां भाग्यमिमं नितान्तं श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ ३॥ रक्ताम्बरां रक्तकिरीटरम्यां शुके कृपाक्तां प्रतिबिम्बमुक्ते । मन्दस्मितालम्बजगत्प्रतिष्ठां श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ ४॥ अनन्यसाधारणसत्त्वयुक्तां असत्त्वसंसारसुलीनतत्त्वाम् । रूपेण रूपान्तकरीमनन्यां श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ ५॥ त्वद्रूपलाभे भवतीह केकी स्कन्दोऽप्यवाहः मृगयन् स्ववाहम् । अकिञ्चनोऽहं विविधैःः प्रलापैः श्रीकल्पकां त्वां शरणं प्रपन्नाः ॥ ६॥ अघप्रसूर्नाहमकल्पिताशः यदन्तरङ्गे निहितं त्वयैव । त्वदीयमाया रचयत्यघं यत् तस्माच्छिवे त्वां शरणं प्रपद्ये ॥ ७॥ त्वमक्षराणामसि मूलभागे मौने तदूर्ध्वे परयाऽऽप्तसत्त्वा । अतोऽहमीड्ये कविताविलासे श्रीकल्पकां त्वां शरणं प्रपद्ये ॥ ८॥ भक्त्या विभक्त्या च विवाद वाग्भिः यत्कल्पितः शास्त्रमतप्रयोगः । भवेन्ममास्ये नितरां प्रसादात् श्रीकल्पकां त्वां शरणं प्रपद्ये ॥ ९॥ त्वद्वीक्षणान्मे हृदये तवाङ्घ्रिः लभेत संस्थामरुणारुणा सा । इतीव सञ्चिन्त्य जगद्धिते त्वां श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ १०॥ श्रीकल्पकाम्बापदपूजनेप्सा सञ्जातजल्पं दश पद्यबद्धम् । अङ्गीकरोत्वम्बुजनाभविष्णुः श्रीशेषशायी प्रियकृत्कृपालुः ॥ ११॥ इति वाधूलगोत्रोद्भवेन श्रीवेङ्कटेश्वरार्यस्य पुत्रेण श्रीशेषशायीशर्माख्येन विरचिता श्रीकल्पकाम्बिकाशरणपद्यानि समाप्ता ।