अक्षर आकार:

श्रीकल्पकाम्बिका प्रपत्तिस्तोत्रम्

Shri Kalpakambika Prapatti Stotram

श्रीकल्पकाम्बिका प्रपत्तिस्तोत्रम्

वन्द्यामरेन्द्रमुनिवर्यनतिप्रसन्ने तं भावयामि शरणं यमवारणार्थम् । यं शम्भुराश्रयति शिवे प्रणयप्रलाप- निर्मुक्तगूढरमणीशुभनामधेयः ॥ १॥ स्तोष्ये भक्त्या पादयुगं ते भवनाशे यस्मिन् लीनं जन्मभिया तत्सूरिकुलम् । यस्मिन् दृष्टे दृष्टमनन्तं सुखलास्यं तं ते कल्पतरुं पदपल्लवमहमीडे ॥ २॥ शान्त्या तुष्ट्या भक्तिरसाक्ता मतिकेलिः कालाकालद्रावणशीलं कर्मफलम् । हित्वा लोला यस्मिन् कूर्मे नीलतनोः तं ते कल्पद्रुमपदपल्लवमहमीडे ॥ ३॥ पूम्पावै सा त्वत्पदभक्त्या मृत्युकरात् सम्बन्धेन त्वत्पदभक्तिप्रेमबलात् । लब्धा चित्रं चित्रमितीत्थं शुभमूलं तं ते कल्पद्रुमपदपल्लवमहमीडे ॥ ४॥ कीर्त्तिः पर्वतराजकुमरर्याः कथनीया भर्त्तारं तं मारजितं ते सञ्चक्रे । सत्याः पूर्वं देहलये या संप्राप्ता यस्यास्तस्याः कम्रपदाम्बुजमहमीडे ॥ ५॥ उद्यद्भास्कररश्मिसमानां ते कान्तिं बालारूपे हृदयगतायाः पश्यन् किम् । गूर्जरदेशे कुङ्कुमलिप्तं पादयुगं तं ते कल्पद्रुमपदपल्लवमहमीडे ॥ ६॥ कृत्वा चित्ते यत्पदकञ्जं भूमिसुतः कान्तिं प्रापद्रक्तसुरम्यां शक्तिकरः । रक्तिस्संसृतिकारणभूता द्रवतीह तं ते कल्पद्रुमपदपल्लवमहमीडे ॥ ७॥ भास्कररायो वित्तविहीनो ऋणनाशे ध्यात्वा अपर्णातत्त्वफलाक्तं पादयुगम् । लेभे शान्तिं ऋणभवखेदान्निर्मुक्तो यस्मात्तस्माद्भाग्यविदायिनमहमीडे ॥ ८॥ काली तारा सुन्दरि भुवने सर्वशिवे भैरव्यस्तशिरोधरधूमा भगवक्त्रा । बकवक्त्रा मातङ्ग्याख्या कमलभवा ते दश नार्यः पादध्याने दद्याद्वयुनं पूर्णफलम् ॥ ९॥ मध्ये यामे यामिन्यर्थे यतचित्ते विद्युत्तुल्या पादलता ते प्रादुरभूत् । तस्मात्कन्ये तरुणि सुवृत्ते कटिबद्धा सञ्चर रम्ये मद्गृहमध्ये मम बाले ॥ १०॥ वेङ्कटपुत्रः शेषशिशुस्ते पदकञ्जे वन्दनपद्यं चित्तसुमाख्यं चित्तभवम् । अर्पयतीहाच्युतपदलोलः शम्भुधवे यस्माद्भूयात्संसृतिनाशो ध्रुवमेव ॥ ११॥ इति वाधूलगोत्रोद्भवेन श्रीवेङ्कटेश्वरार्यस्य पुत्रेण श्रीशेषशायीशर्माख्येन विरचितं श्रीकल्पकाम्बिका प्रपत्तिस्तोत्रं सम्पूर्णम् ।