अक्षर आकार:

श्रीकल्पकाम्बिका मङ्गलस्तोत्रम्

Shri Kalpakambika mangalastotram

श्रीकल्पकाम्बिका मङ्गलस्तोत्रम्

ओङ्कारस्वरमूलायै ओङ्काराधाररूपिणि मयिलापुर भाग्यमूले कल्पके ते सुमङ्गलम् ॥ १॥ ऐं वाग्विलासदायिन्यै कपालिहृदयेश्वरि । वार्धितीरगृहं दत्तं कल्पके ते सुमङ्गलम् ॥ २॥ क्लीङ्कारगुप्तमायेशि पुंस्त्वे त्वं कृष्णविग्रहा । क्षीरवार्धिमाहागेहे कल्पके ते सुमङ्गलम् ॥ ३॥ सौं बीजगतशक्त्याख्यसुन्दरि भुवने शिवे । हिमवद्भाग्यसम्भूते कल्पके ते सुमङ्गलम् ॥ ४। नृत्यद्गणेशसन्तुष्टे स्कन्दकोपनिवारणि । जननि शब्दपूज्ये ते कल्पके ते सुमङ्गलम् ॥ ५॥ अस्पष्टयौवने बाले महाराज्ञ्यन्तकान्तके । अभिरामि महाभागे कल्पके ते सुमङ्गलम् ॥ ६॥ पूर्णे पुण्यतमे पुण्ये पुण्यापुण्यविवर्जिते । ब्रह्मसूच्ये ब्रह्मवाच्ये कल्पके ते सुमङ्गलम् ॥ ७॥ कालस्वभावविहितजन्ममृत्युजरान्तके । आदिमातर्नमस्यन् त्वामर्पयेऽत्र सुमङ्गलम् ॥ ८॥ मन्दस्मितमहासूत्रबद्धमाहेश्वरेश्वरि । महायासविनाशाय कल्पके तेऽस्तु मङ्गलम् ॥ ९॥ विषाशनाच्चिरञ्जीवी बभूव शशिशेखरः । त्वद्वीक्षणविशेषेण तस्मात्तेऽस्तु सुमङ्गलम् ॥ १०॥ बालापादसरोजाक्तशेषशायिकृतं हरिः । मङ्गलं कल्पकाम्बायाः करोतु शुभदं सदा ॥ ११॥ इति वाधूलगोत्रोद्भवेन श्रीवेङ्कटेश्वरार्यस्य पुत्रेण श्रीशेषशायीशर्माख्येन विरचितं श्रीकल्पकाम्बिकामङ्गलस्तोत्रं सम्पूर्णम् ।