अक्षर आकार:

श्रीककारकूतघटितआद्याष्टोत्तरशतनामावली

shrIkakArakUtaghaTitaAdyAShTottarashatanAmAvalI

श्रीककारकूतघटितआद्याष्टोत्तरशतनामावली

श्रीकाल्यै नमः । श्रीकराल्यै नमः । श्रीकल्याण्यै नमः । श्रीकलावत्यै नमः । श्रीकमलायै नमः । श्रीकलिदर्पघ्न्यै नमः । श्रीकपर्दिशकृपान्वितायै नमः । श्रीकालिकायै नमः । श्रीकालमात्रे नमः । श्रीकालानलसमद्युतये नमः । १० श्रीकपर्दिन्यै नमः । श्रीकरालास्यायै नमः । श्रीकरुणाऽमृतसागरायै नमः । श्रीकृपामय्यै नमः । श्रीकृपाधारायै नमः । श्रीकृपापारायै नमः । श्रीकृपागमायै नमः । श्रीकृशानवे नमः । श्रीकपिलायै नमः । श्रीकृष्णायै नमः । २० श्रीकृष्णानन्दविवर्द्धिन्यै नमः । श्रीकालरात्र्यै नमः । श्रीकामरूपायै नमः । श्रीकामशापविमोचन्यै नमः । श्रीकादम्बिन्यै नमः । श्रीकलाधारायै नमः । श्रीकलिकल्मषनाशिन्यै नमः । श्रीकुमारीपूजनप्रीतायै नमः । श्रीकुमारीपूजकालयायै नमः । श्रीकुमारीभोजनानन्दायै नमः । ३० श्रीकुमारीरूपधारिण्यै नमः । श्रीकदम्बवनसञ्चारायै नमः । श्रीकदम्बवनवासिन्यै नमः । श्रीकदम्बपुष्पसन्तोषायै नमः । श्रीकदम्बपुष्पमालिन्यै नमः । श्रीकिशोर्यै नमः । श्रीकलकण्ठायै नमः । श्रीकलनादनिनादिन्यै नमः । श्रीकादम्बरीपानरतायै नमः । श्रीकादम्बरीप्रियायै नमः । ४० श्रीकपालपात्रनिरतायै नमः । श्रीकङ्कालमाल्यधारिण्यै नमः । श्रीकमलासनसन्तुष्टायै नमः । श्रीकमलासनवासिन्यै नमः । श्रीकमलालयमध्यस्थायै नमः । श्रीकमलामोदमोदिन्यै नमः । श्रीकलहंसगत्यै नमः । श्रीकलैव्यनाशिन्यै नमः । श्रीकामरूपिण्यै नमः । श्रीकामरूपकृतावासायै नमः । ५० श्रीकामपीठविलासिन्यै नमः । श्रीकमनीयायै नमः । श्रीकल्पलतायै नमः । श्रीकमनीयविभूषणायै नमः । श्रीकमनीयगुणाराध्यायै नमः । श्रीकोमलाङ्ग्यै नमः । श्रीकृशोदर्यै नमः । श्रीकरणामृतसन्तोषायै नमः । श्रीकारणानन्दसिद्धिदायै नमः । श्रीकारणानन्दजापेष्टायै नमः । ६० श्रीकारणार्चनहर्षितायै नमः । श्रीकारणार्णवसम्मग्नायै नमः । श्रीकारणव्रतपालिन्यै नमः । श्रीकस्तूरीसौरभामोदायै नमः । श्रीकस्तूरीतिलकोज्ज्वलायै नमः । श्रीकस्तूरीपूजनरतायै नमः । श्रीकस्तूरीपूजकप्रियायै नमः । श्रीकस्तूरीदाहजनन्यै नमः । श्रीकस्तूरीमृगतोषिण्यै नमः । श्रीकस्तूरीभोजनप्रीतायै नमः । ७० श्रीकर्पूरामोदमोदितायै नमः । श्रीकर्पूरचन्दनोक्षितायै नमः । श्रीकर्पूरमालाऽऽभरणायै नमः । श्रीकर्पूरकारणाह्लादायै नमः । श्रीकर्पूरामृतपायिन्यै नमः । श्रीकर्पूरसागरस्नातायै नमः । श्रीकर्पूरसागरालयायै नमः । श्रीकूर्चबीजजपप्रीतायै नमः । श्रीकूर्चजापपरायणायै नमः । श्रीकुलीनायै नमः । ८० श्रीकौलिकाराध्यायै नमः । श्रीकौलिकप्रियकारिण्यै नमः । श्रीकुलाचारायै नमः । श्रीकौतुकिन्यै नमः । श्रीकुलमार्गप्रदर्शिन्यै नमः । श्रीकाशीश्वर्यै नमः । श्रीकष्टहर्त्र्यै नमः । श्रीकाशीशवरदायिन्यै नमः । श्रीकाशीश्वरीकृतामोदायै नमः । श्रीकाशीश्वरमनोरमायै नमः । ९० श्रीकलमञ्जीरचरणायै नमः । श्रीक्वणत्काञ्चीविभूषणायै नमः । श्रीकाञ्चनाद्रिकृताधारायै नमः । श्रीकाञ्चनाञ्चलकौमुद्यै नमः । श्रीकामबीजजपानन्दायै नमः । श्रीकामबिजस्वरूपिण्यै नमः । श्रीकुमतिघ्न्यै नमः । श्रीकुलीनार्तिनाशिन्यै नमः । श्रीकुलकामिन्यै नमः । श्रीक्रींह्रींश्रींमन्त्रवर्णेनकालकण्टकघातिन्यै नमः । १००