अक्षर आकार:

श्रीकालीसहस्रनामस्तोत्रम्

shrIkAlIsahasranAmastotram

श्रीकालीसहस्रनामस्तोत्रम्

कालिकाकुलसर्वस्वे श्रीगणेशाय नमः । ॐ श्रीगुरुभ्यो नमः । कथितोऽयं महामन्त्रः सर्वमन्त्रोत्तमोत्तमः । यमासाद्य मया प्राप्तमैश्वर्यपदमुत्तमम् ॥ १॥ संयुक्तः परया भक्त्या यथोक्तविधिना भवान् । कुरुतामर्चनं देव्याः त्रैलोक्यविजिगीषया ॥ २॥ श्रीपरशुराम उवाच प्रसन्नो यदि मे देवः परमेशः पुरातनः । रहस्यं परया देव्याः कृपया कथय प्रभो ॥ ३॥ यथार्चनं विना होमं विना न्यासं विनाबलिम् । विना गन्धं विना पुष्पं विना नित्योदितक्रिया ॥ ४॥ प्राणायामं विना ध्यानं विना भूतविशोधनम् । विना जाप्यं विना दानं विना काली प्रसीदति ॥ ५॥ श्रीशङ्कर उवाच । पृष्टं त्वयोत्तमं प्राज्ञ भृगुवंशविवर्धनम् । भक्तानामपि भक्तोऽसि त्वमेवं साधयिष्यसि ॥ ६॥ देवीं दानवकोटिघ्नीं लीलया रुधिरप्रियाम् । सदा स्तोत्रप्रियामुग्रां कामकौतुकलालसाम् ॥ ७॥ सर्वदाऽऽनन्दहृदयां वासव्यासक्तमानसाम् । माध्वीकमत्स्यमांसादिरागिणीं रुधिरप्रियाम् ॥ ८॥ श्मशानवासिनीं प्रेतगणनृत्यमहोत्सवाम् । योगप्रभां योगिनीशां योगीन्द्रहृदये स्थितां ॥ ९॥ तामुग्रकालिकां राम प्रसादयितुमर्हसि । तस्याः स्तोत्रं महापुण्यं स्वयं काल्या प्रकाशितम् ॥ १०॥ तव तत्कथयिष्यामि श्रुत्वा वत्सावधारय । गोपनीयं प्रयत्नेन पठनीयं परात्परम् ॥ ११॥ यस्यैककालपठनात्सर्वे विघ्नाः समाकुलाः । नश्यन्ति दहने दीप्ते पतङ्गा इव सर्वतः ॥ १२॥ गद्यपद्यमयी वाणी तस्य गङ्गाप्रवाहवत् । तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः ॥ १३॥ राजानोऽपि च दासत्वं भजन्ति च परे जनाः । तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ॥ १४॥ निशीथे मुक्तये शम्भुर्नग्नः शक्तिसमन्वितः । मनसा चिन्तयेत्कालीं महाकालीति लालिताम् ॥ १५॥ पठेत्सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् । प्रसन्ना कालिका तस्य पुत्रत्वेनानुकम्पते ॥ १६॥ वेधा ब्रह्मास्मृतेर्ब्रह्म कुसुमैः पूजिता परा । प्रसीदति तथा काली यथानेन प्रसीदति ॥ १७॥ ॐ अस्य श्रीकालिकासहस्रनामस्तोत्रमहामन्त्रस्य महाकालभैरव ऋषिः अनुष्टुप् छन्दः श्मशानकालिका देवता महाकालिकाप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ध्यानम् । शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम् । चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ॥ मुण्डमालाधरां देवीं लोलज्जिह्वां दिगम्बराम् । एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् ॥ अथ स्तोत्रम् । ॐ क्रीं महाकाल्यै नमः ॥ ॐ श्मशानकालिका काली भद्रकाली कपालिनी । गुह्यकाली महाकाली कुरुकुल्ला विरोधिनी ॥ १८॥ कालिका कालरात्रिश्च महाकालनितम्बिनी । कालभैरवभार्या च कुलवर्त्मप्रकाशिनी ॥ १९॥ कामदा कामिनी काम्या कामनीयस्वभाविनी । कस्तूरीरसनीलाङ्गी कुञ्जरेश्वरगामिनी ॥ २०॥ ककारवर्णसर्वाङ्गी कामिनी कामसुन्दरी । कामार्ता कामरूपा च कामधेनुः कलावती ॥ २१॥ कान्ता कामस्वरूपा च कामाख्या कुलपालिनी । कुलीना कुलवत्यम्बा दुर्गा दुर्गार्तिनाशिनी ॥ २२॥ कौमारी कुलजा कृष्णा कृष्णदेहा कृशोदरी । कृशाङ्गी कुलिशाङ्गी च क्रीङ्कारी कमला कला ॥ २३॥ करालास्या कराली च कुलकान्ताऽपराजिता । उग्रा चोग्रप्रभा दीप्ता विप्रचित्ता महाबला ॥ २४॥ नीला घना बलाका च मात्रामुद्रापिताऽसिता । ब्राह्मी नारायणी भद्रा सुभद्रा भक्तवत्सला ॥ २५॥ माहेश्वरी च चामुण्डा वाराही नारसिंहिका । वज्राङ्गी वज्रकङ्काली नृमुण्डस्रग्विणी शिवा ॥ २६॥ मालिनी नरमुण्डाली गलद्रक्तविभूषणा । रक्तचन्दनसिक्ताङ्गी सिन्दूरारुणमस्तका ॥ २७॥ घोररूपा घोरदंष्ट्रा घोराघोरतरा शुभा । महादंष्ट्रा महामाया सुदती युगदन्तुरा ॥ २८॥ सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना । शारदेन्दुप्रसन्नास्या स्फुरत्स्मेराम्बुजेक्षणा ॥ २९॥ अट्टहासप्रसन्नास्या स्मेरवक्त्रा सुभाषिणी । प्रसन्नपद्मवदना स्मितास्या प्रियभाषिणि ॥ ३०॥ कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी । सुमतिः कुमतिश्चण्डा चण्डमुण्डातिवेगिनी ॥ ३१॥ प्रचण्डा चण्डिका चण्डी चर्चिका चण्डवेगिनी । सुकेशी मुक्तकेशी च दीर्घकेशी महत्कचा ॥ ३२॥ प्रेतदेहा कर्णपूरा प्रेतपाणिसुमेखला । प्रेतासना प्रियप्रेता प्रेतभूमिकृतालया ॥ ३३॥ श्मशानवासिनी पुण्या पुण्यदा कुलपण्डिता । पुण्यालया पुण्यदेहा पुण्यश्लोकी च पावनी ॥ ३४॥ पुत्रा पवित्रा परमा पुरापुण्यविभूषणा । पुण्यनाम्नी भीतिहरा वरदा खड्गपाणिनी ॥ ३५॥ नृमुण्डहस्तशस्ता च छिन्नमस्ता सुनासिका । दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी ॥ ३६॥ दिगम्बरा घोररावा सृक्कान्ता रक्तवाहिनी । घोररावा शिवा खड्गा विशङ्का मदनातुरा ॥ ३७॥ मत्ता प्रमत्ता प्रमदा सुधासिन्धुनिवासिनी । अतिमत्ता महामत्ता सर्वाकर्षणकारिणी ॥ ३८॥ गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा । चतुर्भुजा दशभुजा अष्टादशभुजा तथा ॥ ३९॥ कात्यायनी जगन्माता जगती परमेश्वरी । जगद्बन्धुर्जगद्धात्री जगदानन्दकारिणी ॥ ४०॥ जन्ममयी हैमवती महामाया महामहा । नागयज्ञोपवीताङ्गी नागिनी नागशायिनी ॥ ४१॥ नागकन्या देवकन्या गन्धर्वी किन्नरेश्वरी । मोहरात्री महारात्री दारुणा भासुराम्बरा ॥ ४२॥ विद्याधरी वसुमती यक्षिणी योगिनी जरा । राक्षसी डाकिनी वेदमयी वेदविभूषणा ॥ ४३॥ श्रुतिः स्मृतिर्महाविद्या गुह्यविद्या पुरातनी । चिन्त्याऽचिन्त्या स्वधा स्वाहा निद्रा तन्द्रा च पार्वती ॥ ४४॥ अपर्णा निश्चला लोला सर्वविद्या तपस्विनी । गङ्गा काशी शची सीता सती सत्यपरायणा ॥ ४५॥ नीतिस्सुनीतिस्सुरुचिस्तुष्टिः पुष्टिर्धृतिः क्षमा । वाणी बुद्धिर्महालक्ष्मीर्लक्ष्मीर्नीलसरस्वती ॥ ४६॥ स्रोतस्वती सरस्वती मातङ्गी विजया जया । नदी सिन्धुः सर्वमयी तारा शून्यनिवासिनी ॥ ४७॥ शुद्धा तरङ्गिणी मेधा लाकिनी बहुरूपिणी । स्थूला सूक्ष्मा सूक्ष्मतरा भगवत्यनुरूपिणी ॥ ४८॥ परमाणुस्वरूपा च चिदानन्दस्वरूपिणी । सदानन्दमयी सत्या सर्वानन्दस्वरूपिणी ॥ ४९॥ सुनन्दा नन्दिनी स्तुत्या स्तवनीयस्वभाविनी । रङ्गिणी टङ्किनी चित्रा विचित्रा चित्ररूपिणी ॥ ५०॥ पद्मा पद्मालया पद्ममुखी पद्मविभूषणा । डाकिनी शाकिनी क्षान्ता राकिणी रुधिरप्रिया ॥ ५१॥ भ्रान्तिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी । उपेन्द्राणी महेन्द्राणी ज्योत्स्ना चन्द्रस्वरूपिणी ॥ ५२॥ सूर्यात्मिका रुद्रपत्नी रौद्री स्त्री प्रकृतिः पुमान् । शक्तिर्मुक्तिर्मतिर्माता भक्तिर्मुक्तिः पतिव्रता ॥ ५३॥ सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा । सर्वज्ञा सिद्धिदा सिद्धा भव्या भाव्या भयापहा ॥ ५४॥ कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया । तमिस्रा तामसी स्थाणुः स्थिरा धीरा तपस्विनी ॥ ५५॥ चार्वङ्गी चञ्चला लोलजिह्वा चारुचरित्रिणी । त्रपा त्रपावती लज्जा विलज्जा हरयौवती ॥ ५६॥ var ह्री रजोवती सत्यवती धर्मनिष्ठा श्रेष्ठा निष्ठुरवादिनी । गरिष्ठा दुष्टसंहर्त्री विशिष्टा श्रेयसी घृणा ॥ ५७॥ भीमा भयानका भीमनादिनी भीः प्रभावती । वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुःप्रिया ॥ ५८॥ ऋक्सामाथर्वनिलया रागिणी शोभना सुरा । ?? शोभनस्वरा कलकण्ठी कम्बुकण्ठी वेणुवीणापरायणा ॥ ५९॥ वंशिनी वैष्णवी स्वच्छा धात्री त्रिजगदीश्वरी । मधुमती कुण्डलिनी ऋद्धिः शुद्धिः शुचिस्मिता ॥ ६०॥ रम्भोर्वशी रती रामा रोहिणी रेवती मखा । शङ्खिनी चक्रिणी कृष्णा गदिनी पद्मिनी तथा ॥ ६१॥ शूलिनी परिघास्त्रा च पाशिनी शार्ङ्गपाणिनी । पिनाकधारिणी धूम्रा सुरभी वनमालिनी ॥ ६२॥ रथिनी समरप्रीता वेगिनी रणपण्डिता । जटिनी वज्रिणी नीला लावण्याम्बुदचन्द्रिका ॥ ६३॥ बलिप्रिया सदापूज्या दैत्येन्द्रमथिनी तथा । महिषासुरसंहर्त्री कामिनी रक्तदन्तिका ॥ ६४॥ रक्तपा रुधिराक्ताङ्गी रक्तखर्परधारिणी । रक्तप्रिया मांसरुचिर्वासवासक्तमानसा ॥ ६५॥ गलच्छोणितमुण्डाली कण्ठमालाविभूषणा । शवासना चितान्तस्था महेशी वृषवाहिनी ॥ ६६॥ व्याघ्रत्वगम्बरा चीनचैलिनी सिंहवाहिनी । वामदेवी महादेवी गौरी सर्वज्ञभामिनी ॥ ६७॥ बालिका तरुणी वृद्धा वृद्धमाता जरातुरा । सुभ्रूर्विलासिनी ब्रह्मवादिनी ब्राह्मणी सती ॥ ६८॥ सुप्तवती चित्रलेखा लोपामुद्रा सुरेश्वरी । अमोघाऽरुन्धती तीक्ष्णा भोगवत्यनुरागिणी ॥ ६९॥ मन्दाकिनी मन्दहासा ज्वालामुख्यऽसुरान्तका । ज्वालामुखी+असुरान्तका मानदा मानिनी मान्या माननीया मदातुरा ॥ ७०॥ मदिरामेदुरोन्मादा मेध्या साध्या प्रसादिनी । सुमध्याऽनन्तगुणिनी सर्वलोकोत्तमोत्तमा ॥ ७१॥ जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी । सुखदा शुभदा सत्या सभासङ्क्षोभकारिणी ॥ ७२॥ शिवदूती भूतिमती विभूतिर्भूषणानना । कौमारी कुलजा कुन्ती कुलस्त्री कुलपालिका ॥ ७३॥ कीर्तिर्यशस्विनी भूषा भूष्ठा भूतपतिप्रिया । सुगुणा निर्गुणाऽधिष्ठा निष्ठा काष्ठा प्रकाशिनी ॥ ७४॥ var प्रतिष्ठिता धनिष्ठा धनदा धान्या वसुधा सुप्रकाशिनी । उर्वी गुर्वी गुरुश्रेष्ठा षड्गुणा त्रिगुणात्मिका ॥ ७५॥ राज्ञामाज्ञा महाप्राज्ञा सुगुणा निर्गुणात्मिका । महाकुलीना निष्कामा सकामा कामजीवना ॥ ७६॥ कामदेवकला रामाऽभिरामा शिवनर्तकी । चिन्तामणिः कल्पलता जाग्रती दीनवत्सला ॥ ७७॥ कार्तिकी कृत्तिका कृत्या अयोध्या विषमा समा । सुमन्त्रा मन्त्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी ॥ ७८॥ त्रैलोक्यजननी हृष्टा निर्मांसामलरूपिणी । तडागनिम्नजठरा शुष्कमांसास्थिमालिनी ॥ ७९॥ अवन्ती मधुरा हृद्या त्रैलोक्यापावनक्षमा । व्यक्ताऽव्यक्ताऽनेकमूर्ती शारभी भीमनादिनी ॥ ८०॥ क्षेमङ्करी शाङ्करी च सर्वसम्मोहकारिणी । ऊर्द्ध्वतेजस्विनी क्लिन्ना महातेजस्विनी तथा ॥ ८१॥ अद्वैता योगिनी पूज्या सुरभी सर्वमङ्गला । सर्वप्रियङ्करी भोग्या धनिनी पिशिताशना ॥ ८२॥ भयङ्करी पापहरा निष्कलङ्का वशङ्करी । आशा तृष्णा चन्द्रकला निद्राणा वायुवेगिनी ॥ ८३॥ सहस्रसूर्यसङ्काशा चन्द्रकोटिसमप्रभा । निशुम्भशुम्भसंहर्त्री रक्तबीजविनाशिनी ॥ ८४॥ मधुकैटभसंहर्त्री महिषासुरघातिनी । वह्निमण्डलमध्यस्था सर्वसत्त्वप्रतिष्ठिता ॥ ८५॥ सर्वाचारवती सर्वदेवकन्याधिदेवता । दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिणी ॥ ८६॥ इज्या पूज्या विभा भूतिः सत्कीर्तिर्ब्रह्मचारिणी । रम्भोरूश्चतुरा राका जयन्ती वरुणा कुहूः ॥ ८७॥ मनस्विनी देवमाता यशस्या ब्रह्मवादिनी । सिद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी ॥ ८८॥ आधाररूपिणी ध्येया मूलाधारनिवासिनी । आज्ञा प्रज्ञा पूर्णमना चन्द्रमुख्यनुकूलिनी ॥ ८९॥ वावदूका निम्ननाभिः सत्यसन्धा दृढव्रता । आन्वीक्षिकी दण्डनीतिस्त्रयी त्रिदिवसुन्दरी ॥ ९०॥ ज्वालिनी ज्वलिनी शैलतनया विन्ध्यवासिनी । प्रत्यया खेचरी धैर्या तुरीया विमलाऽऽतुरा ॥ ९१॥ प्रगल्भा वारुणी क्षामा दर्शिनी विस्फुलिङ्गिनी । भक्तिः सिद्धिः सदाप्राप्तिः प्रकाम्या महिमाऽणिमा ॥ ९२॥ ईक्षासिद्धिर्वशित्वा च ईशित्वोर्ध्वनिवासिनी । लघिमा चैव सावित्री गायत्री भुवनेश्वरी ॥ ९३॥ मनोहरा चिता दिव्या देव्युदारा मनोरमा । पिङ्गला कपिला जिह्वा रसज्ञा रसिका रसा ॥ ९४॥ सुषुम्नेडा योगवती गान्धारी नवकान्तका । पाञ्चाली रुक्मिणी राधा राध्या भामा च राधिका ॥ ९५॥ अमृता तुलसी वृन्दा कैटभी कपटेश्वरी । उग्रचण्डेश्वरी वीरजननी वीरसुन्दरी ॥ ९६॥ उग्रतारा यशोदाख्या देवकी देवमानिता । निरञ्जना चित्रदेवी क्रोधिनी कुलदीपिका ॥ ९७॥ कुलरागीश्वरी ज्वाला मात्रिका द्राविणी द्रवा । योगीश्वरी महामारी भ्रामरी बिन्दुरूपिणी ॥ ९८॥ दूती प्राणेश्वरी गुप्ता बहुला डामरी प्रभा । कुब्जिका ज्ञानिनी ज्येष्ठा भुशुण्डी प्रकटाकृतिः ॥ ९९॥ द्राविणी गोपिनी माया कामबीजेश्वरी प्रिया । शाकम्भरी कोकनदा सुसत्या च तिलोत्तमा ॥ १००॥ अमेया विक्रमा क्रूरा सम्यक्छीला त्रिविक्रमा । स्वस्तिर्हव्यवहा प्रीतिरुक्मा धूम्रार्चिरङ्गदा ॥ १०१॥ तपिनी तापिनी विश्वभोगदा धारिणी धरा । त्रिखण्डा रोधिनी वश्या सकला शब्दरूपिणी ॥ १०२॥ बीजरूपा महामुद्रा वशिनी योगरूपिणी । अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गरूपिणी ॥ १०३॥ अनङ्गमदनाऽनङ्गरेखाऽनङ्गकुशेश्वरी । अनङ्गमालिनी कामेश्वरी सर्वार्थसाधिका ॥ १०४॥ सर्वतन्त्रमयी सर्वमोदिन्यानन्दरूपिणी । वज्रेश्वरी च जयिनी सर्वदुःखक्षयङ्करी ॥ १०५॥ var व्रजेश्वरी षडङ्गयुवती योगेयुक्ता ज्वालांशुमालिनी । दुराशया दुराधारा दुर्जया दुर्गरूपिणी ॥ १०६॥ दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा । हंसेश्वरी त्रिलोकस्था शाकम्भर्यनुरागिणी ॥ १०७॥ त्रिकोणनिलया नित्या परमामृतरञ्जिता । महाविद्येश्वरी श्वेता भेरुण्डा कुलसुन्दरी ॥ १०८॥ त्वरिता भक्तिसंयुक्ता भक्तिवश्या सनातनी । भक्तानन्दमयी भक्तभाविता भक्तशङ्करी ॥ १०९॥ सर्वसौन्दर्यनिलया सर्वसौभाग्यशालिनी । सर्वसम्भोगभवना सर्वसौख्यानुरूपिणी ॥ ११०॥ कुमारीपूजनरता कुमारीव्रतचारिणी । कुमारीभक्तिसुखिनी कुमारीरूपधारिणी ॥ १११॥ कुमारीपूजकप्रीता कुमारीप्रीतिदप्रिया । कुमारीसेवकासङ्गा कुमारीसेवकालया ॥ ११२॥ आनन्दभैरवी बालभैरवी बटुभैरवी । श्मशानभैरवी कालभैरवी पुरभैरवी ॥ ११३॥ महाभैरवपत्नी च परमानन्दभैरवी । सुरानन्दभैरवी च उन्मादानन्दभैरवी ॥ ११४॥ यज्ञानन्दभैरवी च तथा तरुणभैरवी । ज्ञानानन्दभैरवी च अमृतानन्दभैरवी ॥ ११५॥ महाभयङ्करी तीव्रा तीव्रवेगा तरस्विनी । त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी ॥ ११६॥ त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी । महासप्तदशी चैव षोडशी त्रिपुरेश्वरी ॥ ११७॥ महाङ्कुशस्वरूपा च महाचक्रेश्वरी तथा । नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी ॥ ११८॥ राजचक्रेश्वरी राज्ञी महात्रिपुरसुन्दरी । सिन्दूरपूररुचिरा श्रीमत्त्रिपुरसुन्दरी ॥ ११९॥ सर्वाङ्गसुन्दरी रक्तारक्तवस्त्रोत्तरीयका । यवायावकसिन्दूररक्तचन्दनधारिणी ॥ १२०॥ यवायावकसिन्दूररक्तचन्दनरूपधृक् । चमरी बालकुटिला निर्मला श्यामकेशिनी ॥ १२१॥ वज्रमौक्तिकरत्नाढ्या किरीटकुण्डलोज्ज्वला । रत्नकुण्डलसंयुक्ता स्फुरद्गण्डमनोरमा ॥ १२२॥ कुञ्जरेश्वरकुम्भोत्थमुक्तारञ्जितनासिका । मुक्ताविद्रुममाणिक्यहाराद्यस्तनमण्डला ॥ १२३॥ सूर्यकान्तेन्दुकान्ताढ्या स्पर्शाश्मगलभूषणा । बीजपूरस्फुरद्बीजदन्तपङ्क्तिरनुत्तमा ॥ १२४॥ कामकोदण्डकाभुग्नभ्रूकटाक्षप्रवर्षिणी । bhugna curved मातङ्गकुम्भवक्षोजा लसत्कनकदक्षिणा ॥ १२५॥ मनोज्ञशष्कुलीकर्णा हंसीगतिविडम्बिनी । पद्मरागाङ्गदद्योतद्दोश्चतुष्कप्रकाशिनी ॥ १२६॥ कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिता । विचित्ररत्नपृथिवीकल्पशाखितलस्थिता ॥ १२७॥ रत्नदीपस्फुरद्रत्नसिंहासननिवासिनी । षट्चक्रभेदनकरी परमानन्दरूपिणी ॥ १२८॥ सहस्रदलपद्मान्ता चन्द्रमण्डलवर्तिनी । ब्रह्मरूपा शिवक्रोडा नानासुखविलासिनी ॥ १२९॥ हरविष्णुविरिञ्चेन्द्रग्रहनायकसेविता । शिवा शैवा च रुद्राणी तथैव शिवनादिनी ॥ १३०॥ महादेवप्रिया देवी तथैवानङ्गमेखला । डाकिनी योगिनी चैव तथोपयोगिनी मता ॥ १३१॥ माहेश्वरी वैष्णवी च भ्रामरी शिवरूपिणी । अलम्बुसा भोगवती क्रोधरूपा सुमेखला ॥ १३२॥ गान्धारी हस्तिजिह्वा च इडा चैव शुभङ्करी । पिङ्गला दक्षसूत्री च सुषुम्ना चैव गान्धिनी ॥ १३३॥ भगात्मिका भगाधारा भगेशी भगरूपिणी । लिङ्गाख्या चैव कामेशी त्रिपुरा भैरवी तथा ॥ १३४॥ लिङ्गगीतिस्सुगीतिश्च लिङ्गस्था लिङ्गरूपधृक् । लिङ्गमाला लिङ्गभवा लिङ्गालिङ्गा च पावकी ॥ १३५॥ भगवती कौशिकी च प्रेमरूपा प्रियंवदा । गृध्ररूपी शिवारूपा चक्रेशी चक्ररूपधृक् ॥ १३६॥ ?? दृध्र आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजा । भगरूपा भगस्थात्री भगिनी भगमालिनी ॥ १३७॥ भगात्मिका भगाधारा रूपिणी भगशालिनी । लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्गनिवासिनी ॥ १३८॥ लिङ्गस्था लिङ्गिनी लिङ्गरूपिणी लिङ्गसुन्दरी । लिङ्गगीतिर्महाप्रीतिर्भगगीतिर्महासुखा ॥ १३९॥ लिङ्गनामसदानन्दा भगनामसदारतिः । भगनामसदानन्दा लिङ्गनामसदारतिः ॥ १४०॥ लिङ्गमालकराभूषा भगमालाविभूषणा । भगलिङ्गामृतवृता भगलिङ्गामृतात्मिका ॥ १४१॥ भगलिङ्गार्चनप्रीता भगलिङ्गस्वरूपिणी । भगलिङ्गस्वरूपा च भगलिङ्गसुखावहा ॥ १४२॥ स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमार्चिता । स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्थिता ॥ १४३॥ स्वयम्भूकुसुमस्नाता स्वयम्भूपुष्पतर्पिता । स्वयम्भूपुष्पघटिता स्वयम्भूपुष्पधारिणी ॥ १४४॥ स्वयम्भूपुष्पतिलका स्वयम्भूपुष्पचर्चिता । स्वयम्भूपुष्पनिरता स्वयम्भूकुसुमाग्रहा ॥ १४५॥ स्वयम्भूपुष्पयज्ञेशा स्वयम्भूकुसुमालिका । var यज्ञाशा यज्ञाङ्गा स्वयम्भूपुष्पनिचिता स्वयम्भूकुसुमार्चिता ॥ १४६॥ var कुसुमप्रिया स्वयम्भूकुसुमादानलालसोन्मत्तमानसा । स्वयम्भूकुसुमानन्दलहरी स्निग्धदेहिनी ॥ १४७॥ स्वयम्भूकुसुमाधारा स्वयम्भूकुसुमाकुला । स्वयम्भूपुष्पनिलया स्वयम्भूपुष्पवासिनी ॥ १४८॥ स्वयम्भूकुसुमास्निग्धा स्वयम्भूकुसुमात्मिका । स्वयम्भूपुष्पकरिणी स्वयम्भूपुष्पमालिका ॥ १४९॥ स्वयम्भूकुसुमन्यासा स्वयम्भूकुसुमप्रभा । स्वयम्भूकुसुमज्ञाना स्वयम्भूपुष्पभोगिनी ॥ १५०॥ स्वयम्भूकुसुमोल्लासा स्वयम्भूपुष्पवर्षिणी । स्वयम्भूकुसुमानन्दा स्वयम्भूपुष्पपुष्पिणी ॥ १५१॥ स्वयम्भूकुसुमोत्साहा स्वयम्भूपुष्परूपिणी । स्वयम्भूकुसुमोन्मादा स्वयम्भूपुष्पसुन्दरी ॥ १५२॥ स्वयम्भूकुसुमाराध्या स्वयम्भूकुसुमोद्भवा । स्वयम्भूकुसुमाव्यग्रा स्वयम्भूपुष्पपूर्णिता ॥ १५३॥ स्वयम्भूपूजकप्राज्ञा स्वयम्भूहोतृमात्रिका । स्वयम्भूदातृरक्षित्री स्वयम्भूभक्तभाविका ॥ १५४॥ स्वयम्भूकुसुमप्रीता स्वयम्भूपूजकप्रिया । स्वयम्भूवन्दकाधारा स्वयम्भूनिन्दकान्तका ॥ १५५॥ स्वयम्भूप्रदसर्वस्वा स्वयम्भूप्रदपुत्रिणी । स्वयम्भूप्रदसस्मेरा स्वयम्भूतशरीरिणी ॥ १५६॥ सर्वलोकोद्भवप्रीता सर्वकालोद्भवात्मिका । सर्वकालोद्भवोद्भावा सर्वकालोद्भवोद्भवा ॥ १५७॥ कुन्दपुष्पसमाप्रीतिः कुन्दपुष्पसमारतिः । कुन्दगोलोद्भवप्रीता कुन्दगोलोद्भवात्मिका ॥ १५८॥ स्वयम्भूर्वा शिवा शक्ता पाविनी लोकपाविनी । कीर्तिर्यशस्विनी मेधा विमेधा सुरसुन्दरी ॥ १५९॥ अश्विनी कृत्तिका पुष्या तेजस्वी चन्द्रमण्डला । सूक्ष्मा सूक्ष्मप्रदा सूक्ष्मासूक्ष्मभयविनाशिनी ॥ १६०॥ वरदाऽभयदा चैव मुक्तिबन्धविनाशिनी । कामुकी कामदा क्षान्ता कामाख्या कुलसुन्दरी ॥ १६१॥ सुखदा दुःखदा मोक्षा मोक्षदार्थप्रकाशिनी । दुष्टादुष्टमती चैव सर्वकार्यविनाशिनी ॥ १६२॥ शुक्रधारा शुक्ररूपा शुक्रसिन्धुनिवासिनी । शुक्रालया शुक्रभोगा शुक्रपूजा सदारतिः ॥ १६३॥ शुक्रपूज्या शुक्रहोमसन्तुष्टा शुक्रवत्सला । शुक्रमूर्तिः शुक्रदेहा शुक्रपूजकपुत्रिणी ॥ १६४॥ शुक्रस्था शुक्रिणी शुक्रसंस्पृहा शुक्रसुन्दरी । शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी ॥ १६५॥ महाशुक्रा शुक्रभवा शुक्रवृष्टिविधायिनी । शुक्राभिधेया शुक्रार्हा शुक्रवन्दकवन्दिता ॥ १६६॥ शुक्रानन्दकरी शुक्रसदानन्दविधायिनी । शुक्रोत्साहा सदाशुक्रपूर्णा शुक्रमनोरमा ॥ १६७॥ शुक्रपूजकसर्वस्था शुक्रनिन्दकनाशिनी । शुक्रात्मिका शुक्रसम्पच्छुक्राकर्षणकारिणी ॥ १६८॥ रक्ताशया रक्तभोगा रक्तपूजासदारतिः । रक्तपूज्या रक्तहोमा रक्तस्था रक्तवत्सला ॥ १६९॥ रक्तपूर्णा रक्तदेहा रक्तपूजकपुत्रिणी । रक्ताख्या रक्तिनी रक्तसंस्पृहा रक्तसुन्दरी ॥ १७०॥ रक्ताभिदेहा रक्तार्हा रक्तवन्दकवन्दिता । महारक्ता रक्तभवा रक्तवृष्टिविधायिनी ॥ १७१॥ रक्तस्नाता रक्तप्रीता रक्तसेव्यातिरक्तिनी । रक्तानन्दकरी रक्तसदानन्दविधायिनी ॥ १७२॥ रक्तारक्ता रक्तपूर्णा रक्तसेव्यक्षिणीरमा । var रक्तसेव्या मनोरमा रक्तसेवकसर्वस्वा रक्तनिन्दकनाशिनी ॥ १७३॥ रक्तात्मिका रक्तरूपा रक्ताकर्षणकारिणी । रक्तोत्साहा रक्तव्यग्रा रक्तपानपरायणा ॥ १७४॥ var रक्तोत्साहा रक्ताढ्या शोणितानन्दजननी कल्लोलस्निग्धरूपिणी । साधकान्तर्गता देवी पार्वती पापनाशिनी ॥ १७५॥ साधूनां हृदिसंस्थात्री साधकानन्दकारिणी । साधकानां च जननी साधकप्रियकारिणी ॥ १७६॥ साधकप्रचुरानन्दसम्पत्तिसुखदायिनी । साधका साधकप्राणा साधकासक्तमानसा ॥ १७७॥ var शारदा साधकोत्तमसर्वस्वासाधका भक्तरक्तपा । var भक्तवत्सला साधकानन्दसन्तोषा साधकारिविनाशिनी ॥ १७८॥ आत्मविद्या ब्रह्मविद्या परब्रह्मकुटुम्बिनी । त्रिकूटस्था पञ्चकूटा सर्वकूटशरीरिणी ॥ १७९॥ सर्ववर्णमयी वर्णजपमालाविधायिनी । इति श्रीकालिकानाम्नां सहस्रं शिवभाषितम् ॥ १८०॥ फलश्रुतिः गुह्यात् गुह्यतरं साक्षान्महापातकनाशनम् । पूजाकाले निशीथे च सन्ध्ययोरुभयोरपि ॥ १॥ लभते गाणपत्यं स यः पठेत्साधकोत्तमः । यः पठेत्पाठयेद्वापि श‍ृणोति श्रावयेदपि ॥ २॥ सर्वपापविनिर्मुक्तः स याति कालिकापदम् । श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः पठेत् ॥ ३॥ दुर्गाद्दुर्गतरं तीर्त्वा स याति कालिकापदम् । वन्ध्या वा काकवन्ध्या वा मृतपुत्रा च याङ्गना ॥ ४॥ श्रुत्वा स्तोत्रमिदं पुत्रान् लभते चिरजीविनः । यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् ॥ ५॥ देवीवरप्रदानेन तं तं प्राप्नोति नित्यशः । स्वयम्भूकुसुमैः शुक्लैः सुगन्धिकुसुमान्वितैः ॥ ६॥ Some versions include about 50 verses in this place but they appear to be related to tAntric practices so are omitted here गुरुविष्णुमहेशानामभेदेन महेश्वरी । समन्ताद्भावयेन्मन्त्री महेशो नात्र संशयः ॥ ७॥ स शाक्तः शिवभक्तश्च स एव वैष्णवोत्तमः । सम्पूज्य स्तौति यः कालीमद्वैतभावमावहन् ॥ ८॥ देव्यानन्देन सानन्दो देवीभक्त्यैकभक्तिमान् । स एव धन्यो यस्यार्थे महेशो व्यग्रमानसः ॥ ९॥ कामयित्वा यथाकामं स्तवमेनमुदीरयेत् । सर्वरोगैः परित्यक्तो जायते मदनोपमः ॥ १०॥ चक्रं वा स्तवमेनं वा धारयेदङ्गसङ्गतम् । विलिख्य विधिवत्साधुः स एव कालिकातनुः ॥ ११॥ देव्यै निवेदितं यद्यत्तस्यांशं भक्षयेन्नरः । दिव्यदेहधरो भूत्वा देव्याः पार्श्वधरो भवेत् ॥ १२॥ नैवेद्यनिन्दकं दृष्ट्वा नृत्यन्ति योगिनीगणाः । रक्तपानोद्यतास्सर्वा मांसास्थिचर्वणोद्यताः ॥ १३॥ तस्मान्निवेदितं देव्यै दृष्ट्वा श्रुत्वा च मानवः । न निन्देन्मनसा वाचा कुष्ठव्याधिपराङ्मुखः ॥ १४॥ आत्मानं कालिकात्मानं भावयन् स्तौति यः शिवाम् । शिवोपमं गुरुं ध्यात्वा स एव श्रीसदाशिवः ॥ १५॥ यस्यालये तिष्ठति नूनमेतत्स्तोत्रं भवान्या लिखितं विधिज्ञैः । गोरोचनालक्तककुङ्कुमाक्तकर्पूरसिन्दूरमधुद्रवेण ॥ १६॥ न तत्र चोरस्य भयं न हास्यो न वैरिभिर्नाऽशनिवह्निभीतिः । उत्पातवायोरपि नाऽत्रशङ्का लक्ष्मीः स्वयं तत्र वसेदलोला ॥ १७॥ स्तोत्रं पठेत्तदनन्तपुण्यं देवीपदाम्भोजपरो मनुष्यः । विधानपूजाफलमेव सम्यक् प्राप्नोति सम्पूर्णमनोरथोऽसौ ॥ १८॥ मुक्ताः श्रीचरणारविन्दनिरताः स्वर्गामिनो भोगिनो ब्रह्मोपेन्द्रशिवात्मकार्चनरता लोकेऽपि संलेभिरे । श्रीमच्छङ्करभक्तिपूर्वकमहादेवीपदध्यायिनो मुक्तिर्भुक्तिमतिः स्वयं स्तुतिपराभक्तिः करस्थायिनी ॥ १९॥ इति श्रीकालिकाकुलसर्वस्वे हरपरशुरामसंवादे श्रीकालिकासहस्रनामस्तोत्रं सम्पूर्णम् ॥