श्रीकृष्णामाहात्म्यम्
अथ श्रीकृष्णवेणीमाहात्म्यम् । कृष्णाया यः पुनातीशो नानातीर्थवपुः प्रभुः । सञ्जीवयति चाशेषं नमोस्तु प्रत्यगात्मने ॥ कदाचिन्नारदं प्राप्तं नमस्कृत्वा महर्षयः । अर्चयित्वा मुनिं प्राहुः द्वापरान्ते कलौ युगे ॥ ऋषय ऊचुः । भगवन् जगतां नाथे कृष्णे त्यक्त्वा दिवं गते । सम्भ्रान्तानामिवान्धानां त्वं नो दृष्टिपथं गतः ॥ कथं कलियुगं घोरं प्रवृत्तं ह्यधरोत्तरम् । छेदनं धर्मसेतूनां साधूनां दुर्गुणोदयम् ॥ सतामपि मनःक्षुभ्यन्निकृतौ कश्चिदीश्वरः । कालस्यास्य प्रभावेन धर्मो नोद्भवति क्वचित् ॥ ततोपि द्रव्यशुद्धिस्तु पात्रशुद्धिस्ततोपि न । आत्मनश्च सहायानां पात्रस्य धनदस्य च ॥ अशुद्धिविहितो धर्मो व्यभिचाराय कल्पते । यतः कश्चिच्छ्रुतः शुद्धः सोप्यन्यस्मान्मली भवेत् ॥ कलौ पतितसंसर्गं ज्ञातुं त्यक्तुं च कः प्रभुः ॥ कथं न दग्धा विष्टाग्नौ नार्द्रस्य निवसन् जले । नारदोक्तकलिदोषनिरसनप्रवचनघट्टः ॥ कथं न लिप्यते पापैः कलौ कल्मषसंवृते । यज्ञमन्त्राश्च वेदाश्च शुद्धादन्यत्र दुस्त्यजेत् ॥ सङ्गदोषादन्नदोषान्निर्वीर्या भ्रष्टबीजवत् । महापथं वा गच्छामः किं वान्यच्चरणं वद ॥ नारद उवाच । सत्यमेतन्महाभाग दुर्निवार्यमिदं कलौ । एतदेव समुद्दिश्य पार्था याता महापथम् ॥ तथापि विप्र देहानां धृत्या यदिह लभ्यते । मरणेन तु तल्लभ्यं मृत्युं नेच्छेत्प्रमादतः ॥ किञ्च नात्मवतां द्वेष्यः कलिर्मे न भवादृशम् । कृते यल्लभ्यते पुण्यं तदत्रैव कलौ युगे ॥ अनात्मनः स्वभक्तस्य द्विजाः कलियुगं सदा । सुधियस्त्वीशभक्तस्य सदाह्लादीकृतं युगम् ॥ यत्तु कालस्वभावेन बलात्पापोद्भवः कलौ । तत्रापि श्रूयतां त्राणं दैवतैरपि निर्मितम् । सृष्ट्यर्थं चोदितो ब्रह्मा कल्पादौ किल विष्णुना ॥ प्राञ्जलिस्तं प्रणम्येशमिममर्थं व्यजिज्ञपत् । ब्रह्मोवाच । कार्या चतुर्युगावस्था यया नाथ त्वदाज्ञया । यदजय्यः कलिः प्राप्तः ततो लोकस्थितिः कथम् ॥ अघप्रवृद्ध्या निर्जीवे नष्टे लोके कलौ युगे । चतुर्युगसहस्रान्ता कथं कल्पस्थितिः प्रभो ॥ श्रीभगवानुवाच । सत्यं कलौ जगत्त्राणं कार्यं नैवान्यथास्थितिः । नन्वेतदर्थे तीर्थानि कल्पे कल्पे सृजस्यज ॥ गङ्गाद्याश्च महानद्यो नदाः प्रस्रवणानि च । विविधानि च तीर्थानि सृज त्वं पूर्ववद्भुवि ॥ मातरं सर्वतीर्थानां नदीनामग्रजां त्वहम् । कृष्णानद्युत्पत्तिप्रचारः स्रक्ष्यामि पूर्ववत्कृष्णां मन्मायां जगतां स्थितेः । तीर्थानां च प्रभावेन कलिकल्मषशत्रुणा ॥ कृष्णायाश्चापि सान्निध्यात् नात्युद्भविष्यति । कलौ जुषाणाः तीर्थानि मां च कृष्णां विशेषतः ॥ धीराः केचिद्भविष्यन्ति बीजं कृतयुगस्य हि । नारद उवाच । एवमुक्त्वा स्वयं विष्णुः कल्पादिषु यथापुरा । ससर्ज कृष्णां ब्रह्मापि तीर्थान्यपि तदाज्ञया ॥ इत्थं दुस्तरदोषौघत्राणार्थं निर्मितानि ह । कलौ तीर्थानि सेवेत न दोषः कश्चन स्पृशेत् ॥ यथा मन्त्रौषधाभिज्ञो ज्वालामध्ये न दह्यते । एवं सदैव तीर्थार्थी न धृष्यः कलिजैरघैः ॥ तस्माद्भजत तीर्थानि स्मरतामघहरं हरिम् । एवं कृतयुगं न स्यान्न प्रयात महापथम् ॥ ऋषय ऊचुः । अहो भगवता नूनं रक्षार्थं प्रहितोद्य नः । मुनीश त्वं हि भीतानां त्राणं परमिहोक्तवान् ॥ ऋषे कथय नः पुण्यां कृष्णां तां तीर्थमातरम् । यथा ससर्ज लक्ष्मीशस्स्वयं प्राह च तादृशम् ॥ नारद उवाच । तदेवं ब्रह्मणाप्येवं पृष्टो विस्मयशालिना । तस्या माहात्म्यमतुलं भूयः प्राहेति केशवः ॥ श्रीभगवानुवाच । जगत्स्थित्यै मया ब्रह्मन् कल्पे कल्पे हि सृज्यते । कृष्णा नाम नदी पुण्या तत्कथाघौघनाशिनी ॥ यस्याः कलिरलं भीतः पुण्यसिन्धोरघात्मकः । मन्दीभवत्स्वविभवो निश्शङ्कं न प्रवर्तते ॥ तस्याः संस्मरणस्पर्शपानस्नानस्तवादिभिः । निष्पापा मनुजास्सर्वे लभन्ते गतिमीप्सिताम् ॥ बहुना किं वदिष्यामि धृतधर्मां नदीमिमाम् ॥ स्पृशन् सर्वगतो वायुः पावयत्यखिलं जगत् । कार्यद्वयं समुद्दिश्य कृष्णवेणी भवाम्यहम् ॥ जगतां रक्षणार्थाय मद्भक्तानां च मुक्तये । अस्ति मुक्त्या उपायोऽन्यो योगाख्यस्स तु दुष्करः ॥ सुकरस्त्वेष सर्वेषां कृष्णवेण्या उपाश्रयः । कर्मभूमिमिमां मर्त्याः भजमाना यदात्मिकाम् ॥ कीर्तयन्तस्स्मरन्तश्च मम मायां तरन्त्यलम् । यथा यथा सुखं वस्स्यात् स्यात्सिद्धिस्स्वात्मनां तथा ॥ मया प्रयुज्यते नित्यं भक्तायासासहिष्णुना । तज्जलं पिबतां तावत् तदात्माहं स्वयं हृदि ॥ प्रविश्य वर्धयाम्याशु ज्ञानं भवभयापहम् । अद्यापि तां सर्वजगत्तमोघ्नां स्रक्ष्यामि मा ते कलिभीस्सृजत्वम् । लोकांश्चतुर्वक्त्र न हि स्थिता यामर्कप्रभायां तमसां विभूतिः ॥ नारद उवाच । इत्युक्त्वा भगवान् विष्णुः महायोगेश्वरेश्वरः । कृष्णां ससर्ज सम्पन्नो दिव्यमूर्तिं सुलोचनाम् ॥ श्यामलां विष्णुचिह्नाङ्कां चतुर्बाहुं सुभाषिताम् । पीताम्बरां सुप्रसन्नां साक्षात्कल्पलतामिव ॥ चन्द्रिकाकान्तिमुत्सृज्य वस्तुकान्तिप्रदायिनीम् । तेजस्साक्षादिवोत्पन्नां लावण्यस्याधिदेवताम् ॥ प्रसन्नादर्शनीयाश्च प्रभया तन्मुखा दिशः । मालिन्यं तत्यजुः काष्ठाश्चिरमिन्दुवियोगजम् ॥ तां जगत्पावनीं दृष्ट्वा कलेर्भीतिहरां शुभाम् । पुत्रीत्वं जगृहे ब्रह्मा प्रसन्नस्य हरेर्गिरा ॥ ततस्स्पृष्ट्वा जगत्सर्वं तत्र तीर्थान्यकल्पयत् । ब्रह्मा जगदघघ्नानि यथा प्राह जगद्गुरुः । कृष्णा च ब्रह्मलोकस्था पश्चाद्देवी भुवङ्गता ॥ पावयत्यखिलं लोकमनन्तमहिमान्विता । एवमेषा जगन्माता कृष्णा विष्णुतनुस्स्वयम् ॥ माहात्म्यमस्याः सकलमनन्तं को वदिष्यति । सुरभिर्देवी लोकविश्रुता भुवि कृष्णेऽष्टवरप्रपूरणे । सुरभेरियमेव चाधिका स्वजनेभ्योऽखिलधर्ममोक्षदा ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये कृष्णानदीप्रादुर्भावो नाम प्रथमोध्यायः ॥अथ कृष्णमहिमाप्रशंसनघट्टः । ऋषय ऊचुः । स्वामिन् कथय कारुण्याद्भूयो माहात्म्यमुत्तमम् । कृष्णाया न हि नस्तुष्टिश्शृण्वतां त्वद्वचोमृतम् ॥ कथं देवी भुवं नीता कानि तीर्थानि तत्र च । आश्चर्यं चैव तद्गुह्यं त्वदन्यः को वदिष्यति ॥ इत्युक्त्वा विप्रमुख्यैस्तैर्मुनिर्भागवतोत्तमः । कृष्णाश्रयां कथां पुण्यां प्राह हर्षात्प्रशस्य तान् ॥ नारद उवाच । अहो मुक्तिः करस्था वो मनः कृष्णाकथार्थि यत् । अहञ्च धन्यस्सङ्गाद्वो यावद्-ज्ञानं वदामि तत् ॥ कृष्णात्मको विष्णुकथेश्वरो वा तदात्मजो स्यात्सकलान् गुणौघान् । स्कन्दो वदेद्वाथ पितुः प्रसादाद्यो वेद तर्कोत्र न वै चतुर्थः ॥ श्रीकृष्णवेण्या माहात्म्यं शृण्वन्तु मुनिसत्तमाः । कलेर्दलनमित्याहुरेतदाख्यानमुत्तमम् ॥ यत्रैतच्छ्रूयते देशे कलिदोषो समन्ततः । पलायते च गरुडध्वनिभीता इवोरगाः ॥ दुरितोच्चाटनं सर्वसम्पदाकर्षणं त्विदम् । आख्यानं पठ्यते यत्र स देशस्स्याच्छुभोदयः ॥ अतिगूढमिमं पूर्वं सर्वज्ञेनैव शम्भुना । स्कन्दायोक्तं प्रसन्नेन तेनास्मभ्यमृषिव्रजे ॥ वक्ष्याम्यहं यूयं च हृद्वसन्तो मुनीश्वराः । श्राव्यमेतद्भवद्भ्यश्च नासभ्येषु कदाचन ॥ शैवा भागवता ये च सात्त्विका ये सुमेधसः । तेष्वेव दर्शयेद्गूढं सुरत्नं कोविदेष्विव ॥ महिम्नात्यद्भुतस्यास्याच्छादितस्य स्वमायया । भक्तेष्वेवात्मभूतेषु ख्यापनं सहते हरिः ॥ नास्तिका डाम्बिकाश्चात्र हैतुका विषयात्मिकाः । काका इवामृते दिव्ये न योग्या विबुधोचिते ॥ उद्विग्नानां भवव्याधेर्विरक्तानां शमिच्छताम् । कृष्णामाहात्म्यमार्तानां देयं दिव्यमिवौषधम् ॥ श्रद्धया शृण्वतां चैतत् कृष्णायां माधवे शिवे । देवे चादूषिता भक्तिराविर्भवति कामधुक् ॥ सद्भक्त्या शृण्वतां चैव पापान्यतिगुरूण्यपि । वाताहताभवन् क्वापि यान्त्यदत्वा स्वकं फलम् ॥ प्रभावं सह्यदुहितुः ख्यापयेत्सत्सभामुदे । सा लोकशोकशमनादशोकपदमश्नुते ॥ संस्पर्शपानस्नानानि दूरे तिष्ठन्त्वहो द्विजाः । कृतकृत्यो भवेन्मर्त्यः कृष्णास्मरणकीर्तनैः ॥ प्रायो माया भवक्लेशाः कृष्णामाहात्म्यवेदिनाम् । नैव स्युः सम्प्रबुद्धानां स्वाप्निकोपद्रवा इव ॥ भक्त्या तत्सेविनां कामक्रोधलोभादयः कुतः । प्रसादौषधपाने हि पुनर्नोन्मादविक्रियाः ॥ यथेशष्षण्मुखायाह स चास्मभ्यं यथामति । सर्वाघहरमाश्चर्यं सर्वमेतद्वदामि वः ॥ भात्युत्तरदिशि श्रेयान् कैलासशिखरीश्वरः । स्यादेको मूर्तिमानीशो यशोराशिरिवामलः ॥ कैलासं प्रति स्कन्दागमनघट्टः समग्रं त्रिजगत्सृष्ट्वा स्रष्टा युगपदीक्षितुम् । निष्कळङ्केन्दुधवलं यं दर्पणमिवासृजत् ॥ यत्रैकस्मिन् जगद्भाति बिम्बितं सचराचरम् ॥ बीजं सृष्टेर्भविष्यन्त्याः कोशे सर्वमिहार्पितम् । चन्द्रकान्तप्लवत्तोयप्रवाहपरिपूरिताः ॥ यत्रेन्द्राध्युषिते सद्यस्सर्वलोकसुदुस्तराः । ब्रह्माच्युतकृतावासा शम्भोरनुपमा पुरी ॥ या भवानीव कान्तानां सर्वासामधिका पुरी । कदाचित्तत्र सर्वेशमीशानं रुचिराननम् ॥ चतुर्मुखमुखास्सर्वे ह्युपासाञ्चक्रिरे सुराः । तं जगल्लतिकाबीजं जगज्जलधिशीतगुम् ॥ जगद्वनमहावह्निमद्वितीयं महेश्वरम् । चतुर्दशजगत्क्रीडातन्त्रे क्रीडन्तमव्ययम् ॥ अगाधमहिमासिन्धुं ब्रह्माद्यैरप्यनिश्चितम् । कालेनाविकृतं स्थाणुमनन्ताजाण्डसाक्षिणम् । ब्रह्मेन्द्राद्यधिपैर्जुष्टं स्कन्दोऽनन्तरमायया ॥ मुनिभिः लोकगुरुभिरनुयातस्तु षण्मुखः । रेजे षडङ्गवान् वेदः पुराणैरिव सर्वतः ॥ प्रणतस्सपरिष्वज्य शिवाभ्यामुपवेशितः । क्षणमत्र वसत्यस्मिन्नदूरस्थे वरानने ॥ स्थाणुनाऽनुगृहीताश्च प्रणम्य मुनयोमुना । सभायां सिद्धजुष्टायामाहूतास्समुपाविशन् ॥ ततोऽप्यजीज्ञपत्स्कन्दश्चन्द्रमौलिं कृताञ्जलिः । दधद्दन्तांशुभिश्चन्द्रमुपायनमिव प्रियम् ॥ स्कन्द उवाच । देव प्रसीद जगतामनुग्रहकविग्रह । अजाय ज्ञप्तिरूपाय नमस्ते प्रत्यगात्मने ॥ यत्तिष्ठस्यक्षिविषये भक्तवत्सलता त्वियम् । नो चेत्पराक्प्रवृत्ताक्षाः क्व वयं क्व भवान् विभो ॥ मृग्यसेऽन्धैरिव जनैर्बहिर्बाह्यैस्त्वमान्तरः । कृपयाथ वपुर्धृत्वा पुरोस्मिन् वीक्ष्यसे स्वयम् ॥ वपुश्च तव देवेश जगतो हितबोधकम् । अनादिसाधनत्वेन तपोलोके प्रशंससि ॥ ध्रुवं नानाविरिञ्चाद्यैस्सम्प्राप्तस्सम्प्रदर्शयन् । प्रदर्शयन् ते नित्यत्वं विरक्तस्सर्वदेहिनाम् । आजन्मब्रह्मचर्यं च परमं च गृहाश्रयम् ॥ वनाश्रयं च गिरिशः सूचयस्यखिलेश्वर । भुजङ्गहारहारी यो योगी स्यात्स सुधीरिति । कुद्दालि त्वं दृढं छिन्द्याः ज्ञानेन भवदुर्गमम् ॥ त्रिशूलमेकहस्तेन बिभर्षि च परायुधम् । तद्ब्रह्मविष्णुरुद्रैक्यं भक्त्या बोधयसि प्रभो ॥ विडम्बयसि दुर्लक्ष्मीं मदान्धानिव शिक्षयन् । इत्याद्यशेषचेष्टाभिर्जगतां हितबोधक ॥ जगद्गुरुमथो नाथ पृच्छामि त्वां मनोगतम् । अगस्त्यमुख्यैर्मुनिभिरहं पृष्टो नदीः शुभा ॥ सर्वेश त्वद्विभूतीनां त्वत्प्रसादात्पृथग्विधाः । अथ ते कृष्णवेण्याश्च पुण्यं माहात्म्यमुत्तमम् ॥ अगाधतत्त्वमज्ञात्वा सर्वज्ञत्वमुपागताः । शुश्रूषवश्च सर्वेऽमी पुराणश्रवणोचिताः ॥ मुनयस्त्वं प्रसीदेश भिषजो भवरोगिणाम् । इति प्रश्नं समाकर्ण्य प्रहृष्टास्ते सभासदः ॥ स्तुवन्ति षण्मुखं गूढं कृष्णामाहात्म्यकाङ्क्षिणः । अथ तामभ्रगम्भीरध्वनिरीशोऽभ्यधात्सभाम् ॥ हर्षयन् दन्तरुग्जालैस्सुधावर्षैरिवामलैः । ईश्वर उवाच । साधु वत्स कृतः प्रश्नो यः कृष्णामहिमाश्रयः । ज्ञातव्यो ह्येष यत्नेन गूढस्सर्वतमोपहः ॥ कृष्णेयं विष्णुरूपस्य तनुर्मम जलात्मिका । यत्तः कृष्णा च सैवान्ये तत्प्रभावं परं विदुः ॥ सकृद्यत्पादसंस्पर्शाद्गङ्गाभूत्स्मर्तृमोक्षदा । तस्य विष्णोस्तनुस्साक्षात्कृष्णेयं कथमीड्यते ॥ महाघशमनाच्चापि ख्याता लोके महानदी । तीर्थाश्च ब्रह्मणा सृष्टाः विष्णुतः ताः समासृणोत् ॥ माहात्म्यं मायया तेन नेदृशं ज्ञायते जनैः । कृष्णेन सृष्टा कृष्णेयं भुवं नीता चा यद्दिवः ॥ कृष्णेयं विष्णुना चैष दुहितृत्वेऽर्पिता विधेः । कल्पादौ सर्वजगतामघौघध्वंसनाय वै ॥ नदीनामग्रजनना माहात्म्यञ्च महत्त्वतः । सर्वङ्कर्षति चाघौघं तेन कृष्णा प्रकीर्तिता ॥ सङ्क्षिप्य वक्ष्यामि निबोध कृष्णामाहात्म्यमस्मिन् यदि विस्तरोस्याः । स्वल्पोपि कल्पोयमितः प्रवृद्धिनेयस्तु तस्या महिमा त्वपारः ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये कृष्णानदीप्रादुर्भावो नाम द्वितीयोध्यायः ॥
स्कन्दाय ईश्वरोपदिष्टकालमहिमाघट्टः श्रीमहादेव उवाच । कल्पाद्यस्य कृतस्यादावियं देव्यवसत्पुरा । वैष्णवी ब्रह्मणः पुत्री पूज्यमाना सुरर्षिभिः ॥ तथा पुण्यमया कृष्णा सर्वत्र सुधियो जनाः । समायुषस्सदानन्दा नोत्तमाधममध्यमाः ॥ तेषां स्वाभाविकी सिद्धिः ह्लादिनीह रसोल्लसा । अथ कालस्वभावोत्थपापबीजसमागमात् ॥ तेषां मिथस्तु सङ्घर्षैस्सिद्धिरेषा रसोल्लसाः । पुनर्ब्रह्मप्रसादेन कल्पवृक्षाः जनेष्टदाः ॥ जातास्तेप्यघवृद्ध्याथ नृणां दोषात्तिरोभवन् । पुनस्तेषां हि वृद्ध्यर्थमौषध्यस्स्वयमुत्थिताः ॥ नानाफलरसास्ताश्च तद्दोषाद्भुवमाविशन् । पुनस्तैरर्थितो ब्रह्मा वृद्ध्यर्थं समकल्पयत् ॥ वृष्टिमोषधिसिद्ध्यर्थं हस्तसिद्धिं च कर्मजाम् । धर्माधर्मव्यवस्थां च मर्यादाश्च पृथग्विधाः ॥ नृणां सर्वजगत्स्थित्यै धर्मो जातश्च चतुर्वपुः । नरो नारायणश्चैव हरिः कृष्ण इति प्रभुः ॥ ते दृष्ट्वा तादृशं नाशं प्रजानामघवृद्धिजम् । सञ्चिन्त्य रक्षणोपायं स्वानुजं कृष्णमब्रुवन् ॥ गच्छाशु ब्रह्मसदनं कृष्णामानय नस्तनुम् । सर्वाघशान्त्यै जगतां तदर्थं सा हि निर्मिता ॥ पितामहश्च वक्तव्यः पुण्यतीर्थान्यनेकशः । भूमौ प्रकल्पयेत्येवं नोचेन्नास्ति जगत्स्थितिः ॥ ईश्वर उवाच । तथेति गत्वा कृष्णोथ निवेद्य ब्रह्मणेऽखिलम् । ब्रह्मलोकात्कृष्णानद्यानयनघट्टः कार्यं लेभे ततः कृष्णां बहुमानात्समर्पिताम् । ब्रह्मणा सर्वदेवैश्च सत्कृतो भगवान्मुदा ॥ तामादाय ययौ कृष्णः पूज्यमानां सुरोत्तमैः । ब्रह्मविष्णुस्तथा रुद्रस्सर्वे देवास्सहर्षिभिः ॥ सोत्साहं मानयन्तस्तामनुजग्मुस्तथा भुवम् । कस्मिन् देशे तु देवीति मन्त्रयन्तस्तु ते सुराः ॥ गच्छन्तो ददृशुः कश्चिन्महात्मानं तपस्विनम् । ते तमूचुरनेकस्तं किमिच्छसि वृणुष्व तत् ॥ देव्यागमोत्सवे ह्यस्मिन् देयं यस्य यदीप्सितम् । ततस्तपस्वी हृष्टात्मा तान् प्रणम्य कृताञ्जलिः । तस्याः पुण्यजलस्नानादहं प्राप्स्यामि धन्यताम् ॥ कृष्णं कृष्णां च तां प्राह सह्याद्रिं वत्स्यथामरैः । देव्यागममिमं ज्ञात्वा समाराधयितुं शिवम् ॥ मुक्तिः प्रवर्ततामेषा साक्षाद्विष्णुमया त्विह । तस्मिन् कृष्णाजले स्नानादहं प्राप्स्यामि धन्यताम् ॥ मान्यतां चापि लोकेस्मिन् तीर्थमातुर्हि गौरवात् । तच्छ्रुत्वा हर्षितैर्देवैर्वीक्षिता च महानदी ॥ एवमस्तु गिरिश्रेष्ठ त्वत्तस्सम्प्रभवाम्यहम् । सुता तव भविष्यामि सह्यजेत्यपि विश्रुता ॥ एतच्च मे प्रियतरं कीर्त्यं नाम भविष्यति । सद्यस्त्वस्यां मदनुजास्सर्वनद्युत्तमोत्तमाः ॥ त्वत्त एव जनिष्यन्ति वरान्मे भूधरोत्तम । ईश्वर उवाच । एवमस्मिन् वरे दत्ते सहसा विस्मयं ययुः । भक्तवत्सलतां दृष्ट्वा देव्या विष्णोरिवामराः ॥ सोऽपि प्रसीद चेत्युक्त्वा प्रणम्य मुदितो गिरिः । कृष्णामादाय तैर्देवैस्सहितस्स्वपदं ययौ ॥ नरो नारायणश्चापि हरिश्चापि समागताः । अन्ये च तत्र तत्रस्थाः सिद्धविद्याधरोरगाः ॥ तदा सह्यगिरौ तस्थुः भुवनानि चतुर्दश । समेतान्यतिहर्षाच्च द्रष्टुं कृष्णा महोत्सवम् ॥ कृष्णां प्रशंस्य तां हर्षादृषिणां पितृणां तथा । सुराणाञ्च तदा वाचः तत्र शुश्रिविरे शुभाः ॥ अहो कृतार्थामनुजा ह्येषा कृष्णाखिलेष्टदा । कामधेनुस्समायाता भूलोकालङ्कृतिश्शुभा ॥ वयं च धन्या मनुजैः कृष्णायामनुतर्पिताः । हव्यकव्यैस्सुपूजाभिः प्राप्स्यामो निर्वृतिं पराम् ॥ लभ्यते सकृतदप्यत्र यदि कृष्णाजलाञ्जलिः ॥ तर्हि नो नित्यतृप्तानां स्वधया सुधया च किम् । अहो स्वलङ्कृता पथ्वीः सुपुरा च भविष्यति ॥ प्रवाहेणामलेनास्यास्सर्वामङ्गलहारिणा । सभाग्यास्ते नरा लोके ते च देशाश्शुभोदयाः ॥ तान्येव पुण्यक्षेत्राणि यत्र कृष्णा वहिष्यति । स्वर्गं विस्तारमेष्यन्ति सङ्कोचं नरकाणि तु । इयं स्वर्गस्य निश्रेणी सुलभास्त इतः परम् ॥ भविष्यद्देहबन्धो नः कृष्णातीरे तु सर्वदा । सत्त्वेन जङ्गमत्वेन स्थावरत्वेन वास्तु नः ॥ ईश्वर उवाच । इत्थं हर्षात्प्रजल्पन्तस्सर्वे तस्थुस्सुरादयः । स्तुवन्तश्चर्षयो देवीं गायन्तश्चापि किन्नराः ॥ रत्नैः पुष्पैर्धनैर्दिव्यैस्सर्वेषामथ सोद्रिराट् । तेषां चक्रे महापूजां कृष्णायाश्च विशेषतः ॥ अथ स्वयं जगन्नाथो विष्णुः कृष्णां प्रहर्षयन् । शृण्वतां सर्वदेवानां प्राह वीक्ष्य च तं गिरिम् ॥ श्रीभगवानुवाच । अहमत्र निवत्स्यामि श्वेताश्वत्थवपुस्सदा । मत्पादनिस्सृता देवी नदी पुण्यजला भवेत् ॥ इत्युक्त्वा भगवान् विष्णुः श्वेताश्वत्थोभवत्स्वयम् । तन्मूलस्था च सा देवी तोयपूर्णाभवत्क्षणात् ॥ ततो जय जयेत्युच्चैः स्तुवत्सु विबुधादिषु । हर्षान्नर्तत्सु मुनिष्वपससार महानदी ॥ देवदुन्दुभयो नेदुः पुष्पाणि मुमुचुर्घनाः । गन्धर्वाद्याः जगुर्हर्षात्कृष्णायात्र महोत्सवे ॥ सोऽथ कृष्णां मुनिर्देवीं प्रकर्षणपरो मुदा । मुनिसङ्घवृतः श्रीमानन्ये त्वनुययुस्सुराः । इति जगदघनाशनाय कृष्णा धवलवपुर्धरिणीं विदूषयन्ती । त्रिभुवनदुरितानि तर्जयन्ती स्वनिजजलेन जगाम पूर्वमब्धिम् ॥ अधर्मा राक्षसा घोरास्सर्वाणि दुरितानि च । दौर्मनस्यं परं प्रापुः पुण्यनद्यास्समागमात् ॥ धर्मस्सकामो विप्राश्च देवा गावश्च सम्पदः । प्रहर्षं परमं प्रापुर्भुवि देवीसमागमात् ॥ यदा कृष्णा भुवं याता तदा भवति पुत्रिका । अधर्मवृद्धिः पूर्वेषां विरुद्धा लोकनाशिनी ॥ युक्तो युगक्रमो लोके वाघवृद्ध्या विपर्ययः । महानद्याः प्रभावेन यावत्कल्पविकल्पनात् ॥ विकल्मषा जगन्माता सर्वपुण्यमया शुभा । तदा त्वतीव पुण्यानि तीर्थाख्येत्र पदे पदे ॥ यथा सर्वेषु वेदेषु पुण्या ऋग्वेदसंहिता । यथा त्वतीव पुण्यानि तत्र सूक्तानि वै पृथक् ॥ तथान्यां पुण्यनद्यां च पुण्यतीर्थानि सन्ति वै । तेषां माहात्म्यमतुलमनन्तं गुह्यमुत्तमम् ॥ एवं सङ्क्षेपतः प्रोक्तं देव्या माहात्म्यमीदृशम् । सविस्तरन्तु तत्त्वेन विद्धि त्वं मदनुग्रहात् ॥ मुनिभ्यो वद वत्सैतज्जगतां हितकाम्यया । तीर्थानि चात्र गुह्यानि मत्प्रसादाद्वदिष्यसि ॥ नारद उवाच । इत्युक्तोनुगृहीतश्च स्कन्दो देवेन शम्भुना । प्रणम्य हृष्टः प्रययौ स्वार्थाय मुनिभिस्सह ॥ सोथाब्रवीन्मुनिभ्यस्तन्माहात्म्यं सर्वगुह्यवित् । सह्यात्प्रभृति तीर्थानि यावत्सागरसङ्गमम् ॥ तानि वक्ष्याम्यहं वोऽद्य शृणुध्वं मुनिसत्तमाः । तीर्थानि सर्वगुह्यानि स्कन्दं नत्वा जगद्गुरुम् ॥ यश्चेमं सम्भवं देव्या कृष्णेनानयनं महत् । यः पठेदिह पूतात्मा स याति परमं पदम् ॥ श्रीकृष्णवेण्यागमनं मुनीड्यं साक्षाच्छिवोक्तं परमं पवित्रम् । शृण्वन्नवाप्नोति सुदीर्घमायुरारोग्यमैश्वर्यमतोपि मुक्तिम् ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये श्रीकृष्णागमनं नाम तृतीयोध्यायः ॥
नारद उवाच । तीर्थानि कृष्णवेण्यां तु यान्यनन्तानि द्विजोत्तम । प्राधान्याद्धि प्रवक्ष्यामि गुह्याद्गुह्यतमानि वः । सह्याद्रेरुत्तरं शृङ्गं स च ब्रह्मगिरिः स्मृतः ॥ यत्र ब्रह्मा तपः कृत्वा प्रापद्राज्यपदं हरेः ॥ तस्माद्दक्षिणतो विप्रा रम्यो वेदगिरिः स्मृतः । यत्र वेदास्सहाङ्गैश्च मूर्तिमन्तस्सहासते । तयोर्मध्ये महातीर्थपुण्यं मामकं स्मृतम् । यत्रामलकवृक्षस्य पुण्यैरेव प्रदृश्यते । तस्य मूलात्समुद्भूता वेणीनाम महानदी । यस्मिन् प्रदेशेवाश्वत्थमूलात्कृष्णासमुद्गता । तत्रादौ विष्णुतीर्थं तत्पापिनामतिदुर्लभम् । तत्र स्नात्वा सकृन्मर्त्यस्सारूप्यं लभते हरेः । अमावास्या गुरोर्वारे तत्स्नानं मुक्तिसाधनम् । दृष्ट्वापि सकृन्मर्त्यः कृतकृत्यो न संशयः । ततः क्रमाद्रुद्रतीर्थं ब्रह्मतीर्थं च दुर्लभम् । तत्रस्नात्वा वसेत्कल्पं पदे रुद्रविरिञ्चयोः । ततश्चयोगो वेण्याश्च सर्वसिद्धिकरो नृणाम् । येनेयं सर्वलोकेषु कृष्णवेणीति गीयते । कृष्णाज्ञया जगच्छान्त्यै ब्रह्मणा निर्मिता शुभा । वेणी च कृष्णया युक्ता महतीं ख्यातिमागताः ॥ ततः ककुद्मिनी सङ्गे कृत्वास्मिन् वारुणं जपम् । गायत्र्यष्टशतं वापि मुच्यते सर्वपातकैः । शिलीदूतं महाकायं राक्षसं दुष्टचेष्टिम् । तीर्थधाराभिरुग्राभिः कलिना प्रेषितं द्विजाः ॥ यत्र निर्जरतां यातं तत्र तीर्थं महाफलम् । विहङ्गं नाम लोकेस्मिन् तीर्थानामुत्तमोत्तमम् ॥ यत्र तार्क्ष्यस्तपस्तप्त्वा लेभे सर्वमनोरथान् । तत्तीर्थं शम्भुसान्निध्यात्पवित्रं पापनाशनम् ॥ यत्र जातिस्मरस्स्नात्वा विहगस्सर्वमाप्तवान् । यत्रास्ते शङ्करस्साक्षात्स्वयम्भूर्हितकाम्यया ॥ कृष्णायां यत्र सम्भूतो भैरवो भीमरूपधृत् । तत्क्षेत्रपतिसान्निध्यात्सिद्धक्षेत्रमुदाहृतम् ॥ तत्रस्नात्वा तु यः पश्येन्मौनीक्षेत्राधिसंहरम् । सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ मलापहारतोयाख्या कृष्णा पीतेन चाम्भसा । यत्र नागेश्वरो देवस्सम्भूतो भक्तवत्सलः ॥ तं देवं वासुकिस्साक्षात्सर्वदैवानुतिष्ठति । सुधियां नष्टपापानां सनागस्त्वक्षिगोचरः ॥ तत्र तच्च महास्थानं सर्वसिद्धिकरं नृणाम् । कुम्भेश्वरं तथोदीच्यां स्नात्वा देवं समर्चयेत् । सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥ ततः पौलस्त्यतीर्थं च पौलस्त्येशस्तथा हरः । तत्र स्नात्वा तमर्भ्यच्य सर्वान्कामानुवाप्नुयात् ॥ मार्कण्डेयस्ततः प्राच्यां तपः कुर्वन् महामतिः । आरिराधयिषुः देवीं तुष्टाव परया गिरा ॥ मार्कण्डेय उवाच । प्रणतोस्मि जगन्मातर्जगच्छान्त्यै भुवं गताम् । तपसा ब्रह्मणा लक्ष्मी कृष्णानीतां हरेस्तनु ॥ लसत्तरङ्गमालाभिस्स्वर्गसोपानपङ्क्तिवत् । या भाति वितता भूमौ भाति हुङ्कुर्वती वया ॥ रोषाज्जगदघौघानां तज्जनाय जगद्गृहाम् । आवर्तनाभिः पद्माक्षी शुभ्राङ्गी फेनहारिणी ॥ ब्रह्मप्रिया ज्ञानकरी साक्षाद्भाति सरस्वती । अलङ्कृतिः प्रिया विष्णोः जगद्धात्री धृताम्बुजा । चकास्ति या स्वयं लक्ष्मीः जगद्दुर्गतिनाशिनी ॥ बहुधा शम्भुसान्निध्यात्सदा दर्शितगौरवा । सौभाग्यदायिनी गौरी या भाति जगदम्बिका ॥ लसत्पत्रिकलालापैर्जनानाह्वयतीव या । मा भैष्ट मामाश्रयत ददामीष्टान्वरानहम् ॥ तटवृक्षपरिभ्रष्टनानापुष्पफलान्विता । या भाति कल्पवल्लीव सर्वाभीष्टप्रदां नृणाम् ॥ महात्मनां या शरणं पापिनामपि सर्वदा । विचित्रगुणमाहात्म्यां तां नतोस्मि गरीयसीम् ॥ त्यक्त्वा यस्स्वमयो याति रसस्पर्शात्सुवर्णताम् । एवं कृष्णाजलस्पर्शात्पापं सद्योपि पुण्यताम् ॥ येयं दक्षिणगङ्गेति गीयते देवकिन्नरैः । येयं दक्षिणतो गङ्गा सा देवी मे प्रसीदतु ॥ एवं संस्तूयमाना सा निर्गत्य जलमध्यतः । प्रसन्ना मुनिवर्यं तं वरदास्मीत्यभाषत ॥ सोपि मौनी प्रहृष्टात्मा प्राञ्जलिः परमेश्वरीम् । प्राह धन्योस्म्यहं देवि त्वां दृष्ट्वा भगवत्तनुम् ॥ दीर्घमायुर्मया लब्धं विष्णुमाराध्य वै पुरा । विना च भगवद्भक्त्या तद्व्यर्थमिति मे मतिः ॥ तस्मादात्मनि शिवे गोविन्दे च जगन्मये । त्वयि प्रकृतिमय्यां च भक्तिस्स्यात्सार्वकालिकी ॥ एवमस्तु मुनिश्रेष्ठयश्चस्तोष्येत्सदैव माम् । स्नात्वा सोपि च दीर्घायुर्भक्तिरस्मासु स्याद्दृढा ॥ नारद उवाच । इत्युक्त्वान्तर्हिता देवी मुनिश्चात्रावसच्चिरम् । मार्कण्डेयार्चितं तीर्थं तेनैतत्परमं भुवि ॥ मार्कण्डेयाभिधश्चेशस्तत्रसर्ववरप्रदः । तत्र स्नात्वा तमभ्यर्च्य मुक्तिमाप्नोति मानवः ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये आनन्दादितीर्थमहिमानाम चतुर्थोध्यायः ॥
नारद उवाच । ततः परं विशालादिनदीपञ्चकमागतम् । कृष्णां द्रष्टुं ततो देवीं देवाश्च भुवमागताः ॥ देशस्यातीव रम्यत्वाद्देवाः तत्रैव तेऽवसन् । पुण्यं पवित्रमायुष्यं आरोग्यादिप्रदं शुभम् । तत्स्नानं कीर्तिमज्ज्ज्ञातं सर्वदेवनिवासतः ॥ तत्रस्थं शङ्करः प्राचीं देवासुरमुनिस्तुतः । निवसन् तत्रवैक्लेशात्सर्वस्मान्मुच्यतेजनः । ॥ कुब्जेश्ववरादितीर्थवर्णनम् ॥ कुब्जेश्वरं यदा ज्ञातं सर्वकामफलप्रदम् । तत्र तीरे नरस्स्नात्वा दृष्ट्वा कुब्जेश्वरं हरम् ॥ मुच्यते सर्वपापेभ्यः शर्वलोकं सगच्छति । महातीर्थं ततःपूर्वं बाहुमात्रप्रमाणतः । शुक्लीभवन्ति विन्यस्ता यत्र कृष्णास्तिलाक्षताः ॥ तत्र स्नात्वा तु यन्मौनी नदीमध्ये सुधीर्नरः । देवान् पश्यत्यसौ सर्वान्प्रत्येकं दिव्यचक्षुषा ॥ महत्क्षेत्रं नदीसङ्गः तत्र स्नानं महाफलम् । मासं स्नात्वा तु तत्तीर्थे ब्रह्महत्यां व्यपोहति ॥ ततोघहारी सङ्गस्स्यात्सर्वजन्माघनाशनम् । प्रायश्चित्तार्थिनां तद्धि परमं शरणं विदुः ॥ तत्र सङ्गे द्विस्स्नात्वा गायत्रीं लक्षसङ्ख्यया । जपन् कामानवाप्नोति मुक्तिं चाथ न संशयः ॥ सप्तसागरसङ्गस्तु ततस्तीर्थं सुदुर्लभम् । यत्र देवीं स्वयं द्रष्टुमागतास्सप्तसागराः ॥ समस्तसागरस्नानफलं तत्स्नानतो भवेत् । तत्रैवपर्वणि स्नात्वा प्राप्नोति परमं पदम् ॥ अपवर्गफलं तेस्युर्वर्जयित्वेतरार्थिताम् । वीतरागोनिराहारस्तपस्तेपेत्र कौशिकः । कौशिकी यत्र संयुक्तो कृष्णया सरिदुत्तमा ॥ तत्स्नानं कौशिकं ज्ञेयमचिरान्मुक्तिसाधनम् । या गतिर्योगयुक्तानां मुनीनामूर्ध्वरेतसाम् । सा गतिस्सर्वजन्तूनां कृष्णातीरनिवासिनाम् ॥ या गतिर्यागयुक्तस्य वाराणस्यां मृतस्य च । सा गतिस्स्नानमात्रेण कृष्णायां हरिवासरे ॥ कृष्णातरङ्गसम्भूतपवनस्पर्शमात्रतः । निर्धूतपातकास्सर्वे जना विष्णुपदं ययुः ॥ ततस्सप्तकुलोद्धारं प्राह स्कन्दो महामतिः । तत्र स्नात्वा तमभ्यर्च्य नदीमध्यगतं हरम् ॥ तारयेत्सप्त वै पूर्वान् तारयेत्सप्त चापरान् । ततस्सप्तकुलोद्धारं तीर्थमेतत्प्रचक्षते । शौनकस्य मखं यत्र प्राप्ता विग्रहिणस्सुराः । कुलमुद्धार्यते यत्र तत्तीर्थं कुलतारकम् । तत्र स्नात्वा स्वयम्भूतं शम्भुभूमिविधारकम् ॥ अर्चयित्वा समाप्नोति गतिमत्यन्तदुर्लभाम् । ततश्च भारतं तीर्थं चक्रे यत्र मखं द्विजाः ॥ दौष्यन्तिर्भरतस्तत्र स्नानाल्लक्ष्मीप्रवर्धनम् । ततःपूर्वमुखे तस्य स्थानं मुनिगणैर्वृतम् ॥ यैरदृष्टा पुनः कृष्णा तस्थौ तद्गतगौः क्षणम् । ततस्ते मुनयो द्रष्टुं जगन्मायाम् उपागताः । मधुवृक्षवितानानि गृहीत्वार्चयितुं ययुः ॥ तेऽन्योन्यमूचुः प्रत्यक्षमदृष्ट्वास्यास्तनुं शुभाम् । पूजयामः कथं देवीमिति तां तुष्टुवुर्मुदा ॥ ऋषय ऊचुः । त्वं भक्तवत्सलेत्येवं सर्वलोकेषु गीयसे । भक्त्यासमुपयातानां व्रजनो दृष्टिगोचरम् ॥ ससम्भ्रमागताह्यत्र यत्तिष्ठस्याश्रमान्तिके । तद्विजाश्रमरक्षार्थमहोब्रह्मण्यता तव ॥ जगद्धितामृतमयी साक्षाद्रत्नाम्बुमय्यसि । अपि चामरतां यान्ति मर्त्यास्त्वत्सेवकास्ततः ॥ सुरेभ्यः कलशेनैवमितं धातामृतं ददौ । मर्त्येभ्यस्त्वति कारुण्यात्त्वं महामृतवाहिनी ॥ धर्मार्थिनां मुमुक्षूणां अर्थकामावपीच्छताम् । सुखोपायपदं त्वं हि सर्वे तेनैव कल्पिताः ॥ शरणं सर्ववर्णानां समस्ताश्रमिणामपि । सर्वजीवशरण्यां त्वां केमर्त्यानोपयान्त्यहो ॥ हंसा न केवलममी जलकाङ्क्षिण स्त्वामायान्ति दूरगहनाद्भुवि तोयकामाः । आयान्त्यहो परमहंस वराश्चदेवि त्यक्तस्पृहाः अपि सुखादिषु मोक्षकामाः ॥ जन्तूनामखिलाघघ्नी प्रयाणं तु पदे पदे । ज्योतिष्टोमफलं दद्याद्यतस्वां नोपयान्त्यहो ॥ यद्यप्येकदिने सम्यक्त्वत्तीरेनुष्ठितं जनैः । स्वकर्मभक्त्यासततमच्छिद्रं तैः कृतं भवेत् ॥ ब्रह्मवर्चसकामास्त्वामर्थविद्यार्थिनस्तथा । आयान्ति विप्राभूपाश्च तेजोराज्यजयार्थिनः ॥ धनधान्यार्थिनो वैश्या अन्येचोच्चावचा जनाः । स्वर्गकामाखिलाद्यर्थं कृतार्थास्त्वां व्रजन्ति तत् ॥ देवदैत्याप्सरस्सिद्धा नागगन्धर्वकिन्नराः । स्वस्वकामार्थमायान्ति त्वामेवजननीमिव ॥ त्वन्मूर्तिर्धवलादीर्घाकुटिलाभाति दूरतः । आगतस्यभुवन्द्रष्टुं शेषस्येवाकृतिश्शुभा ॥ यस्यास्तु माहात्म्यमहो शिवोपि न सर्वमेतावदिति ब्रवीति । सङ्क्षिप्तमेवेत्यवदद्गुहाय तां त्वां नमो देवि कथं मनुष्याः ॥ एवं सदानन्दगुणां वरेण्यामनन्तमूर्तिं शरणं गता स्मः । गृहाणपूजां स्वतनुं प्रसन्नां प्रदर्शयोर्व्याङ्कुरु नः कृतार्थान् ॥ नारद उवाच । एवं संस्तूयमानासा जलमध्यात्समुद्गता । प्रसन्नमूर्तिर्दिव्याङ्गी द्योतयन्ती दिशो दश ॥ शङ्खचक्रगदापद्मधारिणीं परमेश्वरीं । दृष्ट्वा जयजयैत्युच्चैस्तुवन्तः प्रणता मुहुः ॥ ततस्तैरर्पितां पूजां गृहीत्वा प्रणया । च्छुभां दिष्टमिष्टं वरं तेषां ददौ देवी पृथक्पृथक् ॥ सबालवृद्धस्त्रीकैस्तैरदृष्टार्धिभिराश्रये चिरं । नानावरान् दत्वा ययौ प्रीत्या प्रसादिता ॥ ततस्तन्मध्यतः कृत्वा द्विधा याता महानदी । संयुक्ता पावनीयस्मादाश्रमस्थैस्तथास्थितम् ॥ मध्वादिवस्तुभिर्यस्मात्पूजितातैर्महानदी । तस्मान्मधुपुरं नाम तत्तीर्थं परमं विदुः ॥ तत्र तीर्थे नरास्स्नात्वा यज्ञानां तपसः फलम् । सर्वेषां प्राप्नुयुस्सद्यो देवी चास्य वरप्रदा ॥ तयोः प्रवाहयोस्सङ्गः तीर्थमुत्तरतश्शुभम् । देवह्रदं नाम यत्र जलक्रीडारतास्सुराः ॥ मासं तु नियतस्तत्र वसन् पश्येत्सुराङ्गनाः । ताभिः क्रीडति कामी चेदकामो मुक्तिमाप्नुयात् ॥ कङ्को नाम मुनिस्तत्र गायत्र्यैवार्चयन् हरिम् । सिद्धिं सम्प्राप्तवांस्तेन कङ्कतीर्थमुदाहृतम् ॥ तत्राश्चर्यं क्षणं वृद्धाः पूर्वं ते मुच्यते पुनः । योगाभ्यासपरा तस्थुः तत्स्थानं योगसिद्धिदम् ॥ शूर्पारकाख्यं तत्रैव सर्वतीर्थोत्तमोत्तमम् । तत्राद्यापि जगन्नाथः प्रातर्वसति भार्गव ॥ अस्यामाहात्म्यमतुलं वक्तुं वर्षशतैरपि । न शक्यं तद्धि परमं गुह्यं प्राक्सर्वसिद्धिदम् ॥ जम्बूतीर्थं ततः पूर्वं सिद्धिं यत्र स जाम्बवान् । जम्बूवृक्षकदम्बस्तु जम्बूस्थानं समुच्यते ॥ जम्बूतीर्थे बुधस्स्नात्वा दृष्ट्वा तत्र च शङ्करम् । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ततश्च शतलिङ्गस्य सङ्गमो मुक्तिदः स्मृतः । क्रौञ्चतीर्थं ततो यत्र सिद्धिं क्रौञ्चमुनिर्ययौ ॥ यज्ञवाटं ततःपूर्वं विदुरस्य महात्मनः । तत्र स्नात्वा नरो भक्त्या ह्यश्वमेधफलं लभेत् ॥ ततश्च षण्मुखस्साक्षात्कृष्णां द्रष्टुमुपाययौ । गौरी पश्चाद्ययौ तत्र पुत्रसन्दर्शनार्थिनी ॥ स्वयम्भूश्शङ्करश्चापि तत्र सन्निहितस्तदा । विनायकश्चतत्स्नेहात्समायातो गणैस्सह ॥ तत्रैव सन्निधिं चक्रुस्सर्वे ते स्थानगौरवात् ॥ तत्तीर्थं सर्वपापघ्नं सर्वसिद्धिप्रदं तथा । कुमारस्य प्रियं स्थानं सदा सर्वगतस्य च ॥ पापान्यत्राशु नश्यन्ति महापातकजान्यपि । इन्द्रत्वाद्याश्च सिद्ध्यन्ति कामान्मुक्तिश्चसत्तमाः ॥ तत्रस्नात्वार्चयेच्छम्भुं देवं स्कन्दं गणेश्वरम् । सर्वपापविनिर्मुक्तो गणैश्वर्यं प्रपद्यते ॥ तत्र कार्तीकमासे तु वसन्मुक्तिमवाप्नुयात् । माघे तु शिवसायुज्यं स्नात्वा प्रागुदयाद्रवेः ॥ कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् । सप्तजन्मभवेद्विप्रो धनाढ्यो वेदपारगः ॥ सकृद्यद्वा कदाचिद्वा स्नात्वा तं प्रणमेन्महान् । ब्राह्मणो जायते न्यस्मिन् जन्मन्यघयुतोपि सन् ॥ जपस्तपस्तथा दानं होमश्चाथ तिलोदकम् । तत्राक्षयफलं विप्रास्तत्तीर्थं ह्युत्तमं भुवि ॥ आदित्यहृदयं नाम तीर्थं गुह्यतमं ततः । तत्र स्नात्वा समभ्यर्च्य नदीमध्यगतं रविम् ॥ सर्वपापविशुद्धात्मा भित्वा चण्डांशुमण्डलम् । प्रयाति परमं स्थानं यद्गत्वा न निवर्तते ॥ अष्टकायास्ततस्सङ्गं सर्वपापहरं शुभम् । स्वयम्भूश्शङ्करस्तत्रसर्वधा भक्तवत्सलः ॥ वाल्मीकं तु ततः पूर्वं यत्रास्ते तपसा पुरा । विष्णुमाराध्यन्नचिराल्लेभेऽभीष्टान् परान्वरान् ॥ सर्वज्ञत्वं कवित्वं च मुक्तिं चान्ते मुनीश्वराः । तत्र स्नात्वा नरो भक्त्या प्रज्ञां मेधां विदन्ति च ॥ पुरतस्तस्य वै तीर्थं सिद्धिह्रदमुदाहृतम् । यत्र सीतां सुतां लेभे लक्ष्मीमाराध्य मैथिलः ॥ तत्र स्नात्वा नरो भक्त्या नारी वायतमानसा । सौभाग्यं परमं लब्ध्वा प्राप्नोति परमां श्रियम् ॥ मुद्गलस्य ततस्तीर्थं पुण्यं स्कन्देन कीर्तितम् । तत्र स्नात्वा नरो भक्त्या पूतस्स्वमर्गवाप्नुयात् ॥ ततस्स्कन्दपुरं नाम तीर्थस्नानं महाफलम् । शिलायां दृश्यते यत्र पुण्यं रुद्रपदद्वयम् ॥ सर्वपापविनिर्मुक्तो रुद्रलोके महीयते । कुमारालयमारभ्य यावदेतद्विजोत्तमाः ॥ पृथुनामानि तीर्थानां पुण्यानां सन्ति कोटयः । तीरद्वये तथा मध्ये यत्र तत्र पदे पदे ॥ यत्स्पर्शपुण्योहरहः प्रवृद्धं पापं जनानां विधुनोति वायुः । ध्वान्तं यथार्को दयतां विवृद्धं सविस्तराद्वर्णयितुं क ईशः ॥ यदम्बुपानमधिकं सोमपानाद्विजन्मनां । यत्तीरे वसनं मुक्त्यै कृष्णवेणीं नतोस्मि ताम् ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये कृष्णानद्युभयतटतीर्थ- वर्णनं नाम पञ्चमोध्यायः ॥
त्रयोदशतीर्थप्रवचनघट्टः । नारद उवाच । त्रयोदशास्या तीर्थानि कृष्णाया दक्षिणे तटे । त्रियोजनान्तरस्थानि दुर्लभान्यमहात्मनाम् ॥ तेषामपि महातीर्थं सङ्गमाख्यं विराजते । व्यक्तामुक्तावली मध्ये माणिक्यमिव भासुरम् ॥ तीर्थस्य शतं पश्चात्पुरस्ताच्चद्विजोत्तमाः । येषां प्रभावमतुलं रहसि प्राह षण्मुखः ॥ यस्त्रयोदशतीर्थेषु स्नायादघयुतो जनः । स्वयमिच्छन्ति तं स्वच्छं धर्मकामार्थसम्पदः ॥ यस्त्रयोदशतीर्थेषु त्रयोदशजलाञ्जलीन् । दद्यात्पितृभ्यस्तेनेष्टास्ते युगानि त्रयोदश ॥ येषां माहात्म्यमाश्चर्यं शंसन्ति त्रिदशा दिवि । पितृलोके च पितरश्श्रुतमात्राघनाशनम् ॥ देवाद्याः प्रायशोत्रैव स्नानदानजपादिभिः । लब्धवन्तो निजान् लोकान् यथान्ते दिवि कारणम् ॥ तत्स्नानमानुलोम्येन पावनं सर्वकामदम् । अप्येतत्प्रातिलोम्येन जीवन्मुक्तिप्रदं शुभम् ॥ गोपादतीर्थमारभ्य तत्र तत्रार्चयन् पितॄन् । कर्मक्षयार्थं तीर्थेषु स्नात्वा धन्यतरो भवेत् ॥ विप्रव्याधवृन्तान्तकथनम् । तत्राप्युदाहरन्तीममितिहासं पुरातनम् । पुराभूत्सुमतिर्नाम सालग्रामे द्विजोत्तमः ॥ तत्सुतं सूतिकादोषाज्जातमात्रं जहार ह । निशाचर्यतरं प्राप्य मायया बालहारिका ॥ सा यान्ति विपिने रात्रौ भीता दृष्ट्वा तपोधनम् । मन्त्रिणं भस्मदिग्धाङ्गं तत्रोत्सृज्य शिशुं ययौ ॥ अथ तं देशमायातो दुर्मुखोनाम लुब्धकः । दृष्ट्वा बालकमादाय हठान्निन्ये स्वकं गृहम् ॥ कालेन ववृधे बालो बालकैरभिरक्षितः । तत्स्वभावस्तदाचारोऽभीरान् सोजनयत्सुतान् । अज्ञातात्मस्थितिस्सोथ कदाचिन्मृगयां चरन् ॥ दष्ट्वा चोरैर्वध्यमानं कृपया मोचयद्विजम् । रक्षितस्तेन विप्रर्षिः कण्वाख्यो नाम सोब्रवीत् । कोस्यप्रत्युपकारस्स्यादिति दध्यौ क्षणं सुधीः ॥ विप्रव्याधस्य वृत्तान्तं विदित्वा सोऽतिविस्मितः । त्यज भावमिमं शीघ्रं हतस्स्वामौघविच्युतिः । उक्त्वेतिपूर्वस्मरणं ददौ ज्ञानं सदात्मनः । ज्ञात्वा सोऽखिलवृत्तान्तं सहसा व्याकुलोभवत् । साश्रुभिः प्लावितो भीतस्तं प्रणम्याह भीतवत् । स्वामिन् कथय कारुण्यात्का मे स्यादिह निष्कृतिः । कण्व उवाच ॥ हे व्याधपुत्र सन्त्येते प्रायश्चित्तं न च क्षमम् । तस्मात्त्वं तीर्थचरणो भव निर्याहि मा चिरम् ॥ यदलभ्यं मखैर्दानैस्तपस्वाध्याय संयमैः । तल्लभ्यं हि क्षणात्तीर्थैरचिन्त्य महिमान्वितैः ॥ तत्राप्यतिरहस्यानि वक्ष्ये तीर्थानि यैर्भवान् । सद्य एव दिवं पूतस्सशरीरो गमिष्यसि ॥ अस्ति दक्षिणदिग्भागे कृष्णाख्या सह्यजा नदी । तस्या मलापहारिण्या सङ्गस्त्रैलोक्यविश्रुतः । तस्मिन् प्रदेशे तीर्थानि सुपुण्यानि त्रयोदश ॥ तत्सङ्गात्परतः क्रोशे प्राक्क्रोशे सन्ति तत्र वा । तेषु स्नात्वानुलोम्येन मोक्ष्यसे सर्वकिल्बिषैः ॥ प्रातिलोम्येन ब्रह्मैव जीवन्मुक्तोभविष्यसि । इत्युक्त्वानुग्रहं तस्मिन् कृत्वा द्रुतगतिं मुनिः । एकाहेनैव तत्स्नानं सिद्ध्येदिति यथोदितम् । मुनिं व्याधोथ तं नत्वा तत्प्रसादबलाद्दृतम् । कृष्णां प्राप्यातिदूरस्थां स तु तीर्थेषु तेषु च ॥ क्रमात्स्नात्वानुलोम्येन प्रातिलोम्यमगात्पुनः । शुक्लतीर्थे ततस्स्नात्वा वीतपापस्समाहितः ॥ विप्रव्याधोपि पूतात्मा सशरीरो दिवं ययौ । विमानेनार्कवर्णेन सुरस्थितैश्च सत्कृतः ॥ अतीत्य ब्रह्मणो लोकं विष्णुलोकमितो गतः । तच्छ्रुत्वा तीर्थमाहात्म्यं सिद्धगन्धर्वचारणाः ॥ विस्मयं परमं प्रापुः प्रशशंसुर्महानदीम् । नैतच्चित्रमिति प्रोचुस्तत्वज्ञास्तु महर्षयः ॥ कृष्णं च कृष्णवेणीं च श्रितानां किन्नु दुर्लभम् । श्रीवेणीप्लवनाय भूमौ वाञ्छन्ति देवाः खलु मर्त्यजन्म । तस्याः प्रभावं सकलं प्रवक्तुं शिवो हरिर्वादिभवो गुहो वा ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये विप्रव्याधवृत्तान्तो नाम षष्ठोध्यायः ॥
गोपादतीर्थ माहात्म्यम् ऋषय ऊचुः । अहोमाहात्म्यमेतेषां तीर्थानां विस्मयावहम् । स्वामिन् कथय नामानि तत्प्रभावं क्रमाद्वद ॥ नारद उवाच । पश्चिमे प्रथमं तीर्थं गोपादमिति विश्रुतम् । तत्सहस्रविस्तारबहुगोपादचिह्नितम् ॥ मर्यादार्थं च तस्य प्राग्गोपादान्ते शिवस्स्थितः । लिङ्गभूतः स्वयम्भूतो गोपादेशोम्बिकासुहृत् । सुरभिस्सा जगन्माता समभ्यर्च्य च शङ्करम् । गवामैश्वर्यमासाद्य तीर्थस्यापि ददौ वरान् । कामधेनुरुवाच । योत्र स्नात्वा नदीमध्ये गोपादेशं स्पृशेन्नरः । गोवधान्मुच्यते घोरादुपवासात्त्रिभिर्दिनैः ॥ लोकानां मातरो गावस्तासां द्रोहं चरन्ति ये । न तेषां निष्कृतिः काचिद्विना गोपादसेवनात् ॥ ताडयन्ति शपं त्वेताः क्लेशयन्त्यतिकर्मणा । निरुद्ध्यन्ति भवेत्तेषामत्र स्नानं विशोधनम् ॥ योत्र स्नात्वार्चयेल्लिङ्गं मासमेकं जितेन्द्रियः । इहैश्वर्यं समायाति प्रेत्य गोलोकमश्नुते ॥ स्वपितृभ्यस्तु यो दद्यात्तिलमिश्रान् जलाञ्जलीन् । कामधेनुर्दुहेत्तांस्तु तेषामाशाप्रपूरणी ॥ नारद उवाच । इति दत्वा वरान् देवी बहून् स्वं गोकुलम् । ययौ पर्वस्वद्यापि चायाति तेनेदं गोपदाङ्कितम् ॥ तत्र तावन्महाभक्त्या स्नात्वाभ्यर्च्य पित्रून् सुरान् । शिवं ततो नमस्कुर्यादेभ्यो मन्त्रमिमं जपेत् ॥ नमो गोभ्यः श्रीमतीभ्यस्सैरभेयीभ्य एव च । नमो ब्रह्मप्रसूताभ्यः पुत्रीभ्योपि नमो नमः ॥ एवं कृत्वा सकृन्मर्त्यः पूतो ब्रह्मपदं ययौ । शृत्वैतद्दूरसंस्थोपि गोप्रदानफलं लभेत् ॥ शृणुयात्तच्चमाहात्म्यं तद्गृहे सम्पदस्सदा । न क्षीयन्ते च चत्वारि क्षीरं दधि घृतं मधु ॥ इति श्री स्कान्दपुराणे कृष्णवेणीमाहात्म्ये गोपादतीर्थ वैभवं नाम सप्तमोऽध्यायः ॥
अनन्ततीर्थ माहात्म्यम् नारद उवाच । तस्मात्पूर्वमनन्ताख्यं पञ्चाशद्धनुरायुतम् । तीर्थं यावत्सरिन्मध्येलिङ्गं शेषफणान्वितम् ॥ तत्रानन्तस्तपस्तेपे काद्रवेयो महामतिः । उरगो गरुडाद्भीतो हरेहरहरेति च ॥ अथ कालेन सुप्रीतौ यश्शौरिर्जगताम्पतिः । समागम्याभयं दत्वा तं चक्राते महामतिम् ॥ शय्याभव ममेत्युक्त्वा विष्णुस्तस्य फणे स्थितः । उपाविशत्सुखं तस्मिन् दयया सह शम्भुना ॥ प्रसन्नप्रभुसंस्पर्शात्सोपि नष्टतपःश्रमः । जहर्ष धन्यतां यामि प्रसीद इति चाब्रवीत् ॥ तावद्ब्रह्मादयो देवा वेदास्तीर्थानि चर्षयः । समेत्य तुष्टुवुस्सर्वे हर्षाद्देवं फणस्थितम् ॥ फणिशय्यासमारूढं लक्ष्मीशं सह शम्भुना । चक्रुर्महोत्सवं सिद्धागन्धर्वाः पुष्पवर्षिणः ॥ ततोनन्तो वरान् वव्रे देवं देवौघसन्निधौ । मन्नाम्नेदं भवेत्तीर्थमनन्तं सर्वकामदम् ॥ तीर्थानि चामराणां च देवानां च तथैव हि । योगिनां चापि कलयो मम चास्त्वत्र सन्निधौ ॥ श्रीविष्णुरुवाच । अनन्ततीर्थमित्येतत्कीर्त्यं नाम भविष्यति । स्नानदानजपादीनामनन्तफलदं सदा ॥ अनन्तस्त्वमनन्तोहमनन्तोयं सदाशिवः । तीर्थानि देवा वेदाश्च सर्वेनन्ताः स्थिता इह ॥ श्रीमहादेव उवाच । योत्र स्नात्वा फणस्थानं समधीते स्तुतिं गवाम् । अर्चयेद्गणपो भूत्वा स मया सह मोदते ॥ ब्रह्मादिदेवाः अस्माकं सन्निधिश्चास्तु सन्निधौ देवदेवयोः । प्रियाय नागराजस्य योभूच्छय्या जगत्पतेः ॥ नारद उवाच । इत्थं सम्भाष्य ते सर्वे तत्रैवान्तर्दधुस्तदा । सदा सन्निहिताश्चात्र तेनेदं तीर्थमुत्तमम् ॥ तदाप्रभृति लोकानां ज्ञापनार्थं जलान्तिके । अद्यापि दृश्यते लिङ्गं फणे हरिहरात्मकम् ॥ पञ्चान्यानि च लिङ्गानि सिद्धवन्द्यानि सन्ति हि । तत्र पुण्यानि दृश्यानि शिलानामन्तरान्तरे ॥ तत्र स्नानं च दानं च तपश्श्राद्धं तिलोदकम् । अनन्तगुणतां याति सदानन्तप्रसादतः । तस्मात्स्नात्वातिनियतो लिङ्गं हरिहरात्मकम् ॥ शेषं च भक्त्या सम्पूज्य प्रणमेद्यदि वै जपन् । योनन्तो धरणीं धत्ते योनन्तस्य फणे स्थितः ॥ येनन्तस्थाश्च विश्वांस्त्रीननन्तान् प्रणतोस्मि तान् । एवं कृत्वा सकृद्वापि शिवलोके महीयते । पञ्चम्यां कुर्वतश्चैव नास्ति सर्पभयं क्वचित् ॥ क्षीरेण स्नपयेद्देवं पञ्चमीषु च पञ्चसु । यत्काम्यते तदाप्नोति निष्कामः परमं पदम् ॥ आश्लेषा सु चतुर्दश्यां पञ्चम्येकादशीषु च । अष्टम्यां चैव यः स्नायान्नास्ति तस्येह दुर्लभम् ॥ योनन्ततीर्थस्य शृणोति दिव्यम् माहात्म्यमेतन्मुनिसङ्घगीतम् । स सर्वरोगादिभयव्यपेतः कुलाभिवृद्धिं लभते यशश्च ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये अनन्ततीर्थवर्णनं नामाष्टमोध्यायः ॥
सूर्यतीर्थवर्णनम् नारद उवाच । सूर्यतीर्थं ततः पूर्वमिति तीर्थविदो विदुः । धनुश्शतद्वयं यावत्सिद्धिदं सिद्धसेवितम् । तस्य पश्चिममर्यादां ज्ञापयन् लिङ्गरूपधृत् । सोमेश इति विख्यातो नदीमध्ये शिवस्थितः ॥ महर्षिर्नैधृवो नाम तत्र तप्त्वा महत्तपः । आराधयन् जगत्सूतिं सूर्यं तुष्टाव भक्तितः ॥ नैधृवः नमस्सवित्रे व्यक्ताय मूर्तये परमात्मने । सन्ध्ययोः ध्यानगम्याय शुद्धभासायते नमः । छन्दोमयाय स्वच्छन्दचारिणे चारुरोचिषे । ब्रह्माण्डगृहदीपाय सदा सत्कर्मसाक्षिणे । चक्षुषां चक्षुषे नित्यं नमोऽप्रतिमतेजसे ॥ त्वमादाय रसं भूमेः काले विसृजसि प्रभो । ओषधीस्त्वं तु पुष्णासि ताः पुष्णन्त्यखिलं जगत् । न केवलं प्रपुष्णासि क्षीणं शशिनमागतम् ॥ करोषि सर्वतः पूर्णान् भक्तांश्चापि कृतानतीन् । त्वं पूरयसि मर्त्यानां जीवनार्थं जलाशयान् ॥ निजगोभिरमर्त्यानां चन्द्राख्यं चामृतन्ददत् । ग्रहनक्षत्रतारकाचक्रं त्वं पुष्णास्यक्षरैश्शुभैः ॥ मालाकार इवाम्लानं पुष्पराशिमनुक्षणम् । त्वन्नामविभवज्ञानामज्ञानं तिमिरं यथा ॥ यथाशोषयसि ग्रीष्मे तृणानि दुरितं तथा । त्वं जलाञ्जलिभिः पूज्यो नित्याभ्युदयशालिभिः ॥ त्वं भक्तान्त्सत्स्वभावेन करोषि करुणानिधे । ब्रह्मादिदेवास्सन्ध्यानु यत्कुर्वन्ति जलाञ्जलीन् ॥ युक्तं तन्नहि पूजादि तेषां त्वदुदयं विना । यथा प्रत्यक्षदेवस्त्वमागमैरैव बोध्यसे ॥ आयुरारोग्यलक्ष्म्यादिप्रत्यक्षफलदस्तथा । त्वमेव चक्षुश्चक्षुश्च तेजश्चाप्युपकारकः ॥ बोध्यं च परमात्मेति त्वन्मयं सकलं जगत् । प्रसीद सर्वभूतात्मन् कालात्मन् सर्वतोमुख ॥ जन्ममृत्युजराव्याधिसंसारभयनाशक ॥ नारद उवाच । एवं संस्तुवतस्तस्य भगवान् भक्तवत्सलः । दिव्याकृतिः पुरस्तस्थावागत्य निजमण्डलात् ॥ तं दृष्ट्वा सहसा देवं हृष्टमूर्तिश्च नैधृवः । पपात दण्डवद्भूमौ प्रसीदेति वदन्मुहुः । तमुत्थाप्याह देवेशो वरं वरय सुव्रत । प्रीतोस्मि भक्त्या तपसा स्तोत्रेण च महामते ॥ नैधृवः तुष्टोसि यदि सर्वेश सर्वरोगहरो ह्यसि । ज्ञानभक्तिं च मे देहि भवरोगघ्नमौषधम् । श्रीसूर्यनारायणः यदुक्तं तत्तथैवास्तु स्तोत्रेणानेन यो हि माम् । भक्त्या स्तोष्यति तस्यापि स एवास्तु नरः परः ॥ सूर्यतीर्थमिति ख्यातिमेतत्तीर्थं गमिष्यति । यत्र मद्रोचिषा ताम्रा दृश्यन्ते वीचयोखिलाः ॥ योऽत्र स्नात्वा समभ्यर्च्य सोमेशं मां च भक्तिमान् । नमस्कुर्याद्वरस्तस्मै सोस्तु यच्चान्यदीप्सितम् ॥ नारद उवाच ॥ अनुगृह्येति भगवान् तुष्टः तीर्थं च सर्वदम् । ययौ स्वमण्डलं देवः कृतार्थश्चाभवन्मुनिः ॥ तस्मात्सूर्यप्रसादेन तीर्थमेतद्धि मुक्तिदम् । सर्वकामप्रदं पुण्यं सदासेव्यं महर्षिभिः ॥ लक्षं चापि जपेद्योत्र गायत्रीं वेदमातरम् । त्वग्दोषादिमहारोगैर्मुच्यते नात्र संशयः ॥ इष्टमन्त्राश्च सिध्यन्ति तथा लक्षाच्च सुमन्त्रिताः । सौरमन्त्रास्तदर्धेन गुह्यमेतदुदाहृतम् ॥ पादं पादं सप्रणवं हंसमन्त्रं पठन् सुधीः । तस्मादर्धमथार्धं च सकलं च पुनः पुनः ॥ एवं सप्तार्घ्यदानेन सप्तजन्माघनाशनम् । पित्रून्नयेत्सूर्यलोकमात्मानं च न संशयः ॥ पिण्डांस्तिलोदकं चापि तत्र स्नात्वा ददेन्नरः । भानुवारेपि सङ्क्रान्तौ व्यतीपाते शशिक्षये ॥ योगे च षष्टिसप्तम्योस्सूर्यतीर्थे जपेदलम् । योजनो ज्ञायते पुण्यं सूर्यतीर्थं स्मरन् धिया ॥ इह भोगांश्च सुचिरं भुक्त्वा सूर्यपुरं व्रजेत् ॥ इति श्री स्कान्दपुराणे कृष्णवेणीमाहात्म्ये सूर्यतीर्थवर्णनं नाम नवमोऽध्यायः ॥
नारद उवाच । तस्मादनन्तरं सप्तकोटितीर्थं प्रचक्षते । पवित्रं परमं यस्मिन् शिलासेतुः प्रदृश्यते ॥ तत्रैव कोटिशश्चैव तीर्थानीत्यकल्पयन् । तत्र माध्याह्निकं कर्म चक्रे लोकगुरुर्बहिः ॥ कुम्भेनोदकमादाय तस्मात्तीर्थात्तु माधवः । सङ्गमेस्थापयामास प्राह चैतन्महाफलम् ॥ लोकानां ज्ञापनार्थाय चिह्नं तत्र शिलातले । शङ्खचक्रे च लोकेशस्तत्तीर्थं ह्युत्तमोत्तमम् ॥ मलापहारिणीसङ्गमवैभवम् तस्मात्पूर्वं महातीर्थं सङ्गमोलोकविश्रुतः । यावन्मलापहारिण्या सिद्धसेव्यं प्रदृश्यते ॥ तदेतत्परमं तीर्थं दुर्लभं पापकर्मणाम् । न मे प्रगल्भते वाणी तस्य माहात्म्यवर्णने ॥ क्रोशमात्रं तु विस्तीर्णं सङ्गमक्षेत्रमुत्तमम् । गोपादादीनि तीर्थानि तत्रैव निवसन्त्यतः ॥ प्रणवस्था यथा वेदाश्शिवस्थास्सर्वदेवताः । तथा सर्वाणि तीर्थानि सङ्गमस्थानि सुव्रताः ॥ सिद्धक्षेत्रं शिवक्षेत्रं तत्पुण्यं क्षेत्रमुच्यते । नियतोऽत्र वसन् पापैर्मुच्यते च स्मरन्नरः ॥ वाराणास्युत्तरेदेशे दक्षिणे सङ्गमस्तथा । अतस्ते हंसभावेन तीर्थानां सप्तकोटयः ॥ तदर्थं समनुप्राप्ताः ख्यातास्तत्रैव तद्गिरौ । तस्मात्पूर्वमिदं तीर्थं सेवितव्यं मनीषिभिः ॥ दानश्राद्धजपाद्यत्र सर्वं कोटिगुणं भवेत् । तस्मादनन्तरं तीर्थं चक्रतीर्थमुदाहृतम् ॥ शिलासेतुर्विभक्तं तद्भुक्तिमुक्तिफलप्रदम् । अम्बरीषेण पृष्टं हि प्राक्छिराज्ञानसाधनम् ॥ किन्तीर्थमिति लोकानां हितार्थं प्राह केशवम् । क्षिप्तमेतन्महाचक्रं सुदर्शनमनुव्रज ॥ दर्शयिष्यति ते तीर्थमित्युक्त्वा प्राह तद्विभुः । तेनैव दर्शितं तीर्थं ततः प्राप्नोति भूतलम् ॥ चक्रतीर्थमिति ख्यातिं राजा चात्रावसच्चिरम् । कात्यायनी च तत्रास्ते तच्चक्रस्य समीपतः ॥ तीर्थमेतद्धि तस्माच्चक्रतीर्थं विदुर्बुधाः । चक्रतीर्थे वसन्मर्त्यष्षण्मासाल्लभते ध्रुवम् ॥ ज्ञानं संसारचक्रघ्नं प्रसादेनैव चक्रिणः । ततः पूर्वं महातीर्थं शङ्खतीर्थमिति श्रुतम् । शङ्खाकृतिश्शिलायां च दृश्यते तत्र वै खलु ॥ कदाचिद्देवदेवेशो गच्छन् दक्षिणदिग्जयम् । मम क्षेत्रमिति प्राह स्वयं देवो महेश्वरः ॥ ईश्वरः श्रीशैले च प्रयागे च श्मशानेऽसुरकण्टके । सङ्गमे सेतुबन्धे च वसामि क्षेत्रगौरवात् ॥ विश्वेशं वारणास्यां हि सङ्गमे शङ्करं तथा । दृष्ट्वा रामेश्वरं सेतुं वा जन्माघं तु व्यपोहति ॥ गत्वा तु तानि क्षेत्राणि योर्चयेन्मां त्रिधा स्थितम् । तस्याहं सुलभो देवि किमु स्वर्गादिकं फलम् ॥ लोके प्रसिद्धप्राधान्यादष्टमूर्तिं हरिः यतः । रामप्रतिष्ठितं लिङ्गं स्वयम्भूतश्च शङ्करः ॥ पञ्चलिङ्गोमृतेशश्चेत्यष्टमूर्तिरहं स्थितः । नदीमध्ये बहिश्चापि क्षेत्रेस्मिन् स्वयमुत्थितः ॥ स्थितं सहस्रं लिङ्गानां प्राधान्यादुक्तमष्टधा । वाराणस्यां यथोङ्कारः कृत्तिवासाः कपर्दिनः ॥ विश्वेशो मध्यमेशश्च तद्धि लिङ्गात्मकं परम् । पञ्चभूतात्मकान्याहुः पञ्चलिङ्गानि भामिनि ॥ अवृतो यजमानोर्को रामेशश्शङ्करः शशी । लिङ्गनामाष्टकं ह्येतत्स्मृतं जन्माघनाशनम् ॥ शिवलोकप्रदं दृष्टमर्चितं मुक्तिदायकम् ॥ नारद उवाच । इत्यादद्यनन्तमाहात्म्यं दिव्यं स्कन्दाय च प्रभुः । प्रोक्ता जगद्धितार्थाय तस्थौ तत्र गणैस्सह ॥ क्षेत्रं प्रदक्षिणं कृत्वा भूप्रदक्षिणजं फलम् । लभन्तेत्र नरा यस्मात्सर्वं तत्र सदा स्थितम् ॥ पञ्चलिङ्गानि नित्यानि धनुषां तु शतद्वये । रुद्रपादौ स्थितौ दृष्ट्वा विप्रा धन्याश्च वै नराः ॥ रुद्रः कपालीतीर्थानि चरन् ब्रह्मकपालभृत् । तत्र स्थित्वार्चयेत्पञ्चलिङ्गब्रह्ममयं शिवम् ॥ तस्य प्रत्यङ्मुखौ पादौ स्थितावद्यापि सुव्रताः । जगद्धितार्थं विन्यस्तौ जगत्पापहरौ शुभौ ॥ पिण्डप्रदानं तत्रैव गयायामिव शस्यते । दातुश्च तत्पितॄणां च सुलभं हि गतिप्रदम् ॥ त्रिरात्रे सङ्गमे स्नात्वा मुच्यते सर्वपातकैः । संवत्सरं तु निवसञ्च्छिवसालोक्यमाप्नुयात् ॥ तत्रैव मरणान्मोक्षं ततः प्राप्नोत्यसंशयः । प्रसङ्गेनापि योगश्चेत्कदाचित्सङ्गमेश्वरम् ॥ निर्गुणस्यापि तत्तस्य पर्याप्तं जन्मनः फलम् । अन्यदेशे मनुष्येभ्यस्तत्रस्थास्तु नरा वराः ॥ तत्रस्थास्तु नरास्सर्वे महेश्वरगणेश्वराः । जन्मस्थितिप्रणाशो वा प्राकृतैर्नात्र लभ्यते ॥ तस्मिन्न किञ्चिद्गृह्येत न हिंस्यात्स्वेदजानपि । सर्वाघसङ्क्षयं धर्ममर्थकामावथापि वा ॥ मोक्षं च शीघ्रमन्विच्छन्निवसेत्सङ्गमे सुधीः । तस्यैव तीर्थस्नानानुप्रभावात्स्वर्गं प्रयाता बहुशोथ शूराः ॥ विप्रर्षिराजर्षिसुरर्षिवर्या महाधिकारान्लभन्त पूर्वम् ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये सप्तकोटिसङ्गमशङ्ख- चक्रतीर्थवर्णनं नाम दशमोध्यायः ॥
ऋणापाकरणतीर्थवैभवकथनम् नारद उवाच । इदमप्यपरं गुह्यं शृणुध्वं मुनिसत्तमाः । स्कन्देन सृष्टो यत्प्राह शङ्करो लोकशङ्करः ॥ स्कन्दः ऋणैस्त्रिभिश्च संयुक्तः पुरुषोजायते खलु । इज्याऽध्ययनसन्तानैर्देवादीनामिति श्रुतिः ॥ ऋणापाकरणं सम्यगकुर्वन्निह वै मृतः । निगृह्यते द्विजोत्यर्थं परलोके न संशयः ॥ ऋणापाकरणं चैव दुष्करं प्रतिभाति मे । कर्मतन्त्रस्य जीवस्य ततस्तत्सङ्कटं परम् ॥ अज्ञानिनश्चरोगाद्यैरिह विघ्नैरथापि वा । एतत्कथं न कुर्वन्ति कुर्युर्वा करुणानिधे ॥ ईश्वरः साधु वत्स त्वया पृष्टं प्रायशो भवदुःखतः । ऋणेभ्यो बिभ्यतस्साधो ऋणमुक्तिं शृणुष्व ह ॥ सर्वपातकनाशाय नरश्चेदिच्छति स्वयम् । निष्कृतिर्नत्वशक्या सा कृष्णवेणी हि विद्यते ॥ कृष्णवेण्योभयतटे योजनाभ्यन्तरे स्थितम् । तत्क्षेत्रं मुक्तिदं प्राहुरन्तरासह्यसागरौ ॥ ग्रामेवायदिवारण्ये गिरौ यत्र च तत्र वा । कृष्णवेण्यम्भसि स्नातो वाजपेयफलं लभेत् ॥ षष्टिवर्षसहस्राणि भागीरथ्यवगाहनम् । कृष्णवेणीनदीस्नानसमं कन्यागते रवौ ॥ कन्यागते सोमवारे नृणां विष्णुशुभे दिने । वेण्यां च वपनं स्नानं कोटिजन्माघनाशनम् ॥ कृष्णायां वपनं स्नानमृक्षे चैव तु वैष्णवे । सोमवारे विष्णुदिने वेण्यां तु वपनं नृणाम् ॥ कोटिजन्माघनाशस्स्यादृक्षे चैव तु वैष्णवे । कन्यागते गुरौ यद्यत्सप्तकोट्यघनाशनम् ॥ ऋणत्रयं स्वकं चैव पितृमातृकृतं तथा । निश्शेषं कुर्वतो जन्तोर्नदी कृष्णा परायणम् ॥ तस्यान्तु तीर्थप्रवरं सङ्गमं लोकविश्रुतम् । स्नानमात्रेण सर्वेषां मोचनं पापनाशनम् ॥ तत्राप्युदाहरन्तीममितिहासं पुरातनम् । दाल्भ्यो नाम द्विजः कश्चिदातिथ्यं कृतवान् पुरा ॥ गृहीत्वा स्वगृहे शाकं प्रयच्छामीति पुत्रक । नादत्तं विस्मृतं तेन ऋणमप्यधिकं भवेत् ॥ कालेन च मृतस्सोपि तिर्यक्त्वं प्रतिपन्नवान् । महाचले गिरौ शून्ये पर्वते कण्टकावृते ॥ निर्जले व्याघ्रभूयिष्ठे सृगालत्वं प्रपन्नवान् । पुनः गृध्रत्वमापन्नः पुनश्चैव सृगालताम् ॥ पूर्वजन्मस्मृतिश्चैव तपोमाहात्म्यकारणात् । उद्विग्नः किङ्करोमीति दुःखार्तो विन्ध्यपर्वते ॥ वेणीनदीमनुप्राप्तो गौतमं तत्र दृष्टवान् । जानात्येव स तत्सर्वं यद्दाल्भ्येन कृतं पुरा ॥ तेनोक्त्वा मुनिवर्येण ऋणपापनिवृत्तये ॥ गौतमः दाल्भ्यत्वमसि धर्मज्ञो ऋणसम्बन्धकारणात् । तिर्यक्त्वं दुःखबहुलं प्राप्तवानसि सुव्रत ॥ दाल्भ्यः भगवन् किं मया कार्यं न जानामीह निष्कृतिम् । यद्यस्तिमयि कारुण्यं कथयाघनिवृत्तये ॥ गौतमः कृष्णवेणी नदी नाम ह्युद्गता सह्यपर्वतात् । सृष्टा च ब्रह्मणा पूर्वं सर्वपापनिवृत्तये ॥ देवर्षिसिद्धसेव्या सा त्रैलोक्यहितकारिणी । कल्पकोटिजनस्याशु पापं नाशयति क्षणात् ॥ तत्स्नानादचिरेणैव मनुष्यत्वं भविष्यति । ततो गत्वा ऋणान्मोक्षं तत्र स्नानं समाचर ॥ स्कन्दः दाल्भ्याय गौतमः पूर्वं सर्वपापनिवृत्तये । दाल्भ्य-गौतम संवादः कस्मिन्वै कृष्णवेण्यां तु स्नानं साधनमुक्तवान् । ईश्वरः दाल्भ्यगौतमसंवादं पापघ्नं प्रियदर्शनम् । वदाम्यहं त्वयि प्रीत्या शृणु पुत्र षडानन ॥ गत्वाहं कृष्णवेण्यां च कुत्र स्नानं समाचरे । ब्रूहि त्वं मुनिवर्येति पृष्टः प्राह स गौतमः ॥ तीर्थनाम प्रभावं च ज्ञातुं वक्तुं च तत्त्वतः । स समर्थोस्ति लोकेस्मिन् तथा विप्रस्तु तेन्विह ॥ वक्ष्याम्यहं च दाल्भ्याद्य तव पापनिवृत्तये । मलापहारिणी नाम नदी सह्यसमुद्गता ॥ निर्मिता चैव कल्याणी ब्रह्मणा पापशान्तये । तस्यास्तु सलिलं सद्यः परं हरति किल्बिषम् ॥ तदाश्रिताश्च ये वर्याः प्रयान्ति परमां गतिम् । तस्याश्च सङ्गमं गत्वा पवित्रं पापनाशनम् ॥ रुद्रं पशुपतिं स्थाणुं तत्र स्नात्वा नमस्कुरु । मृगरूपं परित्यज्य ऋषित्वं प्राप्स्यसि ध्रुवम् ॥ य कश्चिदपि तत्रैव स्नानाद् ज्ञानं समश्नुते । मर्त्यलोके ये मर्त्या भक्त्या गच्छन्ति सङ्गमम् ॥ प्रयान्ति नूनं ते मोक्षं स्नानं कृत्वा स्मरन्ति ये । अहो धन्यतरा मर्त्याः कीर्तयन्ति स्मरन्ति च ॥ सङ्गमं परमं स्नानं नूनं ते मोक्षभागिनः । इति देवाश्च पितरो गायन्ति सततं दिवि ॥ कृष्णवेणी नदी नाम यत्र यत्रैव गच्छति । स्नातस्य तत्र तत्रैव शतधेनुफलं लभेत् ॥ पौर्णमास्याममायां चाप्यष्टम्यां चन्द्रसूर्ययोः । ग्रहणे स्नानमात्रेण गोसहस्रफलं लभेत् ॥ जपो दानं तपो होमः श्राद्धं सद्गुरुसेवनम् । अक्षयं तु भवेद्दाल्भ्य पापं चापि विनश्यति ॥ नदीनामुत्तमा वेणी देवानामुत्तमो हरिः । विद्यानामुत्तमो वेदो वर्णानां विप्र उत्तमः ॥ कृष्णवेणीजलं पीत्वा किरातेष्वपि यो वसेत् । तं तु षण्मासपर्यन्तं तद्दोषो न समाश्रयेत् ॥ निद्रामात्रं प्रकुर्वन्ति यदि तत्तीरवासिनः । प्राणसन्धारणे पुण्यं लभन्ते तपसः फलम् ॥ नदीनामादिभूता सा कामधेनुरिव स्वयम् । ये पिबन्ति च तत्तोयं नूनन्ते मुक्तिभागिनः ॥ पदे पदे च तत्रैव तीर्थानि प्रभवन्त्युत । तस्मादगम्यं तत्तीर्थं पापिनां दुर्मनस्विनाम् ॥ दानरूपेण तत्रैव तिलांशं यः प्रयच्छति । मेरुतुल्यफलं प्राप्य तदन्ते मुक्तिमाप्नुयात् ॥ अणोरणुतरं पापं तत्र कृत्वा नराधमाः । ब्रह्माण्डं सदृशं दुःखं प्राप्नुवन्ति सुदुस्सहम् ॥ अन्यत्र यत्कृतं पापं सङ्गमे नश्यति क्षणात् । अत्रैव यत्कृतं पापं न तदन्यत्र नश्यति ॥ तत्र पापफलं भोक्तुं कल्पकोटिशतेष्वपि । कृमित्वं स्थावरत्वं च गच्छन्ति न हि संशयः ॥ क्रोशमात्रं तु विस्तीर्णं सङ्गमक्षेत्रमुत्तमम् ॥ तत्र स्नात्वा महानद्यां गोसहस्रफलं लभेत् । तत्रापि सङ्गमे स्नानमुत्कृष्टं द्विजसत्तमाः ॥ अश्वमेधसहस्राणां फलं प्राप्नोति मानवः । भ्रूणहत्यादिभिः पापैस्तदाचैनोपपातकैः ॥ विमुक्तास्स्नानमात्रेण मर्त्या यान्ति परं पदम् । तत्र पिण्डप्रदानेन मुक्तिरेव न संशयः ॥ पिण्डमात्रप्रदानेन विघ्नाश्शान्तिं प्रयान्ति वै । व्याधयश्चापिशान्तास्स्युरैश्वर्यं कामदं भवेत् ॥ भरतश्चदिलीपश्च ययातिर्नहुषस्तथा । भगीरथोथ रामश्च मान्धातृप्रमुखास्तथा ॥ असितो देवलश्चैव दत्तात्रेयपुरोगमाः । तत्र स्नात्वा तपः कृत्वा भक्तिज्ञानपदेस्थिताः ॥ अन्ये च ऋषयो देवास्तत्र तिष्ठन्ति नित्यशः । रामः पुरा जगन्नाथो भार्गवः क्षत्रियान्तकः ॥ तत्र कृत्वा तपो घोरं पापशान्तिं प्रपन्नवान् । शूर्पारिश्च महेन्द्रश्च सङ्गमक्षेत्रमुत्तमाः ॥ त्रिषु स्थानेषु देवेशो रामस्तिष्ठति सर्वदा । प्रातः कालेतु शूर्पारं मध्याह्ने सिन्धुसङ्गमे ॥ रात्रौ महेन्द्रे वसति रामः क्षत्रकुलान्तकः । अतस्त्रयं महापुण्यं रामस्यैवाश्रयादिदम् ॥ पृथिव्यामन्तरिक्षे वा यानि तीर्थानि सन्ति वै । तानि तत्र वसन्त्येव धातुर्वचनकारणात् ॥ तत्र स्नात्वा नमस्कुर्यान्नामभिश्शश्वतं शिवम् । माघमासे नरस्स्नात्वा कार्तिके मुक्तिमाप्नुयात् ॥ परशुरामतीर्थयात्राप्रसङ्गः ऋषय ऊचुः । अहोमाहात्म्यमतुलं प्रसादाद्भवतश्श्रुतम् । भूयः कथयतामत्र तपश्चक्रे कथं प्रभुः ॥ नारद उवाच । त्रिस्सप्तकृतो नृपतीन्निर्मूलितकृतवान् भुवि । तस्योपशान्त्यै तीर्थानि चचार खलु भार्गवः ॥ स्कन्दे परशुरामं तं क्षत्रहत्यामलीमसम् । प्रदर्शनाय लोकानामृषिसङ्घवृतो ययौ ॥ स्नातस्समस्ततीर्थेषु पूजयन्निष्टदेवताः । अलब्धाघक्षयो देवः प्रययौ सह मलापहम् ॥ सह्यपादात्सृता लोकहितायामृतवाहिनी । या सर्वमलहन्तृत्वात्प्रख्यातात्र मलापहा ॥ योजने योजने यस्यां तीर्थानां शतमुत्तमम् । लिङ्गद्वयं च प्रख्यातं सुरसिद्धनिषेवितम् ॥ सह्यप्राणात्सृतां देवीं सेव्यमानो जगत्पतिः । आनुलोम्यात्पितॄन्देवानर्चयन् सङ्गमं ययौ ॥ अथैतस्य कुठाराग्रे क्षत्रहत्यातिविह्वला । निर्गत्य मूर्त्या विप्रेषु पश्यत्स्वित्याह भार्गवम् ॥ त्वद्देहाश्रयणे भीता त्वयैवानुमता प्रभो । कुठाराग्रे स्थिता त्वत्र ज्वालानद्यां निमज्जिता ॥ सेयमम्बुमयी देवी धर्माणां तु सुधामयी । ज्वालामयी त्वधर्माणामित्युक्त्वा वा गतालयम् ॥ नारद उवाच । अथ हृष्टश्च भगवान् भार्गवो मुनिसन्निधौ । प्रदर्श्याश्चर्यमेतत्तु प्रशसंस मलापहाम् ॥ श्रीरामोवाच । प्रायश्चित्तार्थिनां विप्रा महापातकिनामपि । मलापहैव शरणं विरक्तानां न संशयः ॥ नद्योन्याश्च प्रशंस्यन्तां स्वर्गादिफलदानने । मलापहरणे त्वस्यास्समा काचिन्न विद्यते ॥ उदग्वहति सा यत्र स्नानदानजपादिकम् । तत्रप्रशस्यतेत्यर्थं भानुवारेत्वनन्तकम् ॥ तत्रापि कपिलातीर्थाद्यावदेव तु सङ्गमात् । अत्रापि सुलभा मुक्तिः यथा कामयते नरः ॥ नारद उवाच । इत्युक्त्वा जगतान्नाथः प्रहृष्टैस्तैर्द्विजैस्सह । विधिवत्सङ्गमे स्नात्वा तर्पयन् पितृदेवताः ॥ अथासौ सङ्गमेक्षेत्रे देवयात्राक्रमं नृणाम् । दर्शयन्मुनिभिस्सा इति । P. R. Kannan. Sri Krishnaveni Mahatmyam, a part of Skanda Purana, was available in a manuscript form in Telugu script with a scholar in Vijayawada. Through the efforts of Sri Sankaracharya Swamijis of Kanchi Kamakoti Peetham, who were at Vijayawada for Chaturmasyam in July-Sep 2016, this manuscript came to light and was transcribed into Devanagari script by Dr.G.Sankaranarayanan of Sanskrit Department in Sri Chandrasekharendra Saraswathi University in Enathur near Kanchipuram