अक्षर आकार:

श्रीकृष्णस्तोत्रम् राधाकृतम्

Shri Krishnastotram by Radha

श्रीकृष्णस्तोत्रम् राधाकृतम्

गोलोकनाथ गोपीश मदीश प्राणवल्लभ । हे दीनबन्धो दीनेश सर्वेश्वर नमोऽस्तु ते ॥ १॥ गोपेश गोसमूहेश यशोदाऽऽनन्दवर्धन । नन्दात्मज सदानन्द नित्यानन्द नमोऽस्तु ते ॥ २॥ शतमन्योर्भग्नमन्यो ब्रह्मदर्पविनाशक । कालीयदमन प्राणनाथ कृष्ण नमोऽस्तु ते ॥ ३॥ शिवानन्तेश ब्रह्मेश ब्राह्मणेश परात्पर । ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मबीज नमोऽस्तु ते ॥ ४॥ चराचरतरोर्बीज गुणातीत गुणात्मक । गुणबीज गुणाधार गुणेश्वर नमोऽस्तु ते ॥ ५॥ अणिमादिकसिद्धीश सिद्धेः सिद्धिस्वरूपक । तपस्तपस्विंस्तपसां बीजरूप नमोऽस्तु ते ॥ ६॥ यदनिर्वचनीयं च वस्तु निर्वचनीयकम् । तत्स्वरूप तयोर्बीज सर्वबीज नमोऽस्तु ते ॥ ७॥ अहं सरस्वती लक्ष्मीर्दुर्गा गङ्गा श्रुतिप्रसूः । यस्य पादार्चनान्नित्यं पूज्यास्तस्मै नमो नमः ॥ ८॥ स्पर्शने यस्य भृत्यानां ध्याने चापि दिवानिशम् । पवित्राणि च तीर्थानि तस्मै भगवते नमः ॥ ९॥ इत्येवमुक्त्वा सा देवी जले सन्न्यस्य विग्रहम् । मनःप्राणांश्च श्रीकृष्णे तस्थौ स्थाणुसमा सती ॥ १०॥ राधाकृतं हरेः स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः । हरिभक्तिं च दास्यं च लभेद्राधागतिं ध्रुवम् ॥ ११॥ विपत्तौ यः पठेद्भक्त्या सद्यः सम्पत्तिमाप्नुयात् । चिरकालगतं द्रव्यं हृतं नष्टं च लभ्यते ॥ १२॥ बन्धुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम् । चिन्ताग्रस्तः पठेद्भक्त्या परां निर्वृतिमाप्नुयात् ॥ १३॥ पतिभेदे पुत्रभेदे मित्रभेदे च सङ्कटे । मासं भक्त्या यदि पठेत्सद्यः सन्दर्शनं लभेत् ॥ १४॥ भक्त्या कुमारी स्तोत्रं च श‍ृणुयाद्वत्सरं यदि । श्रीकृष्णसदृशं कान्तं गुणवन्तं लभेद्ध्रुवम् ॥ १५॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे गोपिकावस्त्रहरणप्रस्तावोनाम सप्तविंशोऽश्याये राधाकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् । Brahmavaivartapurana Shrikrishnakhanda adhyAya 27, verses 99-113