अक्षर आकार:

कावेरी स्तोत्रम्

kAverI stotram

कावेरी स्तोत्रम्

ParAsara Bhattar's few shlokas on Caveri from Shri Rangaraja Stotram श्रीपराशरभट्टाचार्यकृते श्रीरङ्गराजस्तोत्रे कावेरीमाहात्म्यसम्बन्धे स्पष्टीकृतानि कानिचित् श्लोकानि ॥ दुग्धाब्धिर्जनको जनन्यहमियं श्रीरेव पुत्री वरः श्रीरङ्गेश्वर एतदर्हमिह किं कुर्यामितीवाकुला । चञ्चच्चामरचन्द्रचन्दनमहामाणिक्यमुक्तोत्करान् कावेरीलहरीकरैर्विदधती पर्येति सा सेव्यताम् ॥ १॥ अगणितगुणावद्यं सर्वं स्थिररत्नसमप्रतिक्रिया- मपि पयःपुरैराप्याययन्त्यनु जाग्रति । प्रवहति जगद्धात्री भूत्वैव रङ्ग्पतेर्दया शिशिर मधुरागाधा सा नः पुनातु मरुद्वृधा ॥ २॥ तरलतनुतरङ्गैर्मन्दमान्दोलिमान- स्वतटविटपिराजी मञ्जरी सुप्तभृङ्गा । क्षिपतु कनकनाम्नी निम्नगा नारिकेल- क्रमुकजमकरन्दैर्मांसलापा मदंहः ॥ ३॥ कदलवकुलजम्बूपूगमाकन्दकण्ठ- द्वयससरसनीरामन्तरा सह्यकन्याम् । प्रबलजलपिपासालम्बमानाम्बुदौघ- भ्रमकरतरुवृन्दं वन्द्यतामान्तरीपम् ॥ ४॥ हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि । कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तुते ॥