अक्षर आकार:

कावेरीपूजा

kAverIpUjA

कावेरीपूजा

॥ श्री गणेशाय नमः ॥ श्री गुरुभ्यो नमः ॥ सङ्कल्पः । विशेषेण मत्सम्बन्धिसमस्तपापक्षयार्थं सौमङ्गल्यसौभाग्यसन्तानसौख्यायुरारोग्यसिद्‍ध्यर्थञ्च श्री कावेरी पूजां करिष्ये ॥ घण्टानादादिध्यानान्तं कृत्वा ॥ इमम्मे सुशोमया । आपो वा इदं सर्वं आप ॐ ॥ देवता आवाहनम् । ॐ भूः कावेरीं आवाहयामि ॥ ॐ भुवः इत्यादिना कावेरीमावाह्य ॥ मरुद्वृधे महालक्ष्मीस्सह्यकन्या सरस्वती । अगस्त्यपत्नी कावेरी लोपामुद्रा वरप्रदा ॥ कमण्डलुसमुत्पन्ना सर्वतीर्थाधिदेवता । विरजा दक्षिणा गङ्गा ब्रह्मविष्णुशिवात्मिका ॥ चतुर्विधफलोद्धात्री चतुराननकन्यका । सर्वाभीष्टप्रदात्री च नाम्नां षोडशकं स्मृतम् ॥ एभिर्नामपदैर्नित्यं पूजयेद्भक्तिमान्नरः ॥ ध्यानम् । ॐ अच्छस्वच्छलसद्दुकूलवसनां पद्मासनाद्‍ध्यासिनीं हस्तन्यस्तवराभयाब्जकलशां राकेन्दुकोटिप्रभाम् । भास्वद्भूषणगन्धमाल्यरुचिरां चारुप्रसन्नाननां श्री गङ्गादिसमस्ततीर्थनिलयां ध्यायामि कावेरिकाम् ॥ आवाहनम् । श्रीकण्ठविश्वेश्वरसन्निभानि लिङ्गानि यद्रोधसि लक्षकोट्यः । जलप्रवाहेपि च कोटिकोट्यः कवेरजायाश्शिवमूर्तयस्स्युः ॥ पयांसि तीर्थानि शिलाश्च देवता दिवौकसो वालुकतां प्रपन्नाः । अतो नदी सह्यगिरिप्रसूता सरित्सुमुख्यामनुजैरलभ्या ॥ रत्नासनम् । आदावादि विधातृमानससुता पश्चात्कवेरात्मजा भूयःकुम्भभवस्य तस्य दयिता तस्मान्नदीरूपिणी । श्रीरङ्गातुलकुम्भघोणविलसन्मायूरमद्‍ध्यार्जुन श्वेतारण्यमुखस्थलेषुमहिता सह्याद्रिजा दृश्यते ॥ पाद्यम् । मरुद्वृधे महादेवी महाभागे मनोहरे । सर्वाभीष्टप्रदे लोकमातः पाद्यं ददामि ते ॥ मरुद्वृधेमान्यजलप्रवाहे कवेरकन्ये नमतां शरण्ये । मान्ये जगत्पूज्यतमप्रभावे कावेरिकावेरि मम प्रसीद ॥ अर्घ्यम् । सह्यपादोद्भवे देवि श्रीरङ्गोत्सङ्गामिनि । कावेरीनामविख्याते गृहाणार्घ्यं नमोस्तुते ॥ प्राचीनवाक्कीर्तित पुण्यकीर्ते कल्याणिभक्तेप्सितदानधुर्ये । कुम्भोद्भवप्रेरितगुम्भितार्थे कावेरिकावेरि मम प्रसीद ॥ आचमनम् । श्रीसह्यशैलतनये सर्वासह्य निवारिणि । प्रसादं कुरु मे देवि प्रसन्नाभव सर्वदा ॥ संसारविस्रंसिनि संस्कृतानां सर्वाघसंहारिणि सर्ववन्द्ये । समस्तलोकैकशरण्यमूर्ते कावेरिकावेरि मम प्रसीद ॥ पञ्चामृतस्नानम् । तुलामासेतु कावेरी सर्वतीर्थाश्रिता नदी । पञ्चपातक संहर्त्री वाजिमेधफलप्रदा ॥ भक्तानुकम्पे मुनिभाग्यलक्ष्मि नित्ये जगन्मङ्गळदानशीले । निरञ्जने दक्षिणदेशगङ्गे कावेरिकावेरि मम प्रसीद ॥ शुद्धोदकस्नानम् । कावेरीतीरजन्मानः मृगपक्षिमहीरुहाः । तद्वारिशीतवातैश्च स्पृष्टामुक्तिं प्रयान्ति वै ॥ मोक्षश्रियोपासित पादपद्मे नित्येहरीशद्रुहिणस्वरूपे । सदाशिवेधातृवरप्रसादे कावेरिकावेरि मम प्रसीद ॥ वस्त्रम् । कवेरकन्येकावेरि निम्नगानाथनायिके । वस्त्राणिवसभूवस्त्रे भुक्तिमुक्तिप्रदायिनि ॥ देवर्षिपूज्ये विमले नदीशेपरात्परेभावित नित्यपूर्णे । समस्तलोकोत्तमतीर्थमातः कावेरिकावेरि मम प्रसीद ॥ यज्ञोपवीतम् । सर्वयज्ञाश्रयतटे सर्वयज्ञसहायिनि । यज्ञाङ्गसम्भवे देवि सर्वयज्ञफलप्रदे ॥ कलिप्रभूताखिलदोषनाशेविशुद्धविज्ञानजलप्रवाहे । कदम्बकल्हारकदम्बपूर्णे कावेरिकावेरि मम प्रसीद ॥ मङ्गळद्रव्यम् ॥ हरिद्रां कुङ्कुमम् । जयदेवि जगन्मातर्लोपामुद्रे पुरातने । जयभद्रे भवोद्धारि मङ्गळे मङ्गळप्रदे ॥ प्रसीदकारुण्य गुणाभिरामे प्रसीद कल्याणतरप्रवाहे । प्रसीद कामादिहरेपवित्रे कावेरिकावेरि मम प्रसीद ॥ गन्धम् । चन्दनागरुकस्तूरी हिमवालुककेसरैः । राङ्कवैस्साङ्कवैर्युक्तं गन्धं स्वीकुरु सह्यजे ॥ आद्ये परे चिन्मयपुण्यपादे पचेळिमप्रौढकवेरभाग्ये । अनन्यसाधारण वैभवाढ्ये कावेरिकावेरि मम प्रसीद ॥ अक्षतान् । यस्यां सकृत्स्नानमात्रान्नरोऽक्षय्यफलं लभेत् । नक्षत्रमाल्यवच्छुभ्रामक्षतैरर्चयाम्यहम् ॥ आभरणम् । किरीटहारकेयूरकुण्डलाङ्गदकङ्कणैः । हम्सकैर्मेखलाद्यैश्च भूषयेत्वां मरुद्वृधाम् ॥ ताटङ्कादिकम् । ताटङ्कं कण्ठसूत्रञ्च सिन्दूरं कज्जलादिकम् । सौमङ्गल्यप्रदेदेवि गृहाणागस्त्यवल्लभे ॥ पुष्पाणि । तुलसीबिल्वमन्दारकुशाग्रशतपत्रकैः । इन्दीवरैःकोकनदैर्हल्लकैःकमलैरपि ॥ कल्हारैःपुण्डरीकैश्च पुष्पैस्सौगन्धिकादिभिः । जातीचम्पकपुन्नागमल्लिकाकेतकादिभिः ॥ सुरभिद्रोणवासन्ती गन्धराजकदम्बकैः । पुष्पैस्सह्यसुतेमातर्वेण्यलङ्करणं कुरु ॥ बहुजन्मकृतानेकवासनावासितात्मभिः । दिव्यैस्सुमवरैःपूज्यां पूजयेत्पुष्पजातिभिः ॥ अथाङ्गपूजा । मरुद्वृधायै नमः - पादौ पूजयामि । महालक्ष्म्यै- गुल्फौ । सह्यकन्यकायै - जङ्घे । सरस्वत्यै-जानुनी । अगस्त्यपत्न्यै - मध्यं । कावेर्यै - नाभिम् । लोपामुद्रायै - हृदयं । वरप्रदायै - स्तनौ । कमण्डलुसमुत्पन्नयै - बाहू । सर्वतीर्थाधिदेवतायै - कण्ठम् । विरजायै - नासिकाम् । दक्षिणगङ्गायै - श्रोत्रे । ब्रह्मविष्णुशिवात्मिकायै - नेत्रे । चतुर्विधफलोद्धात्र्यै - वक्त्रम् । चतुरानन कन्यकायै - शिरः । सर्वाभीष्टप्रदात्र्यै नमः - सर्वाण्यङ्गानि पूजयामि ॥

॥ श्रीकावेर्यष्टोत्तरशतनामावळिः ॥

ॐ अनन्त-गुण-गम्भीरायै नमः । ॐ अर्कपुष्कर-सेवितायै नमः । ॐ अमृतस्वादु-सलिलायै नमः । ॐ अगस्त्यमुनि-नायिकायै नमः । ॐ आशान्त-कीर्ति-तिलकायै नमः । ५। ॐ आशुगागम-वर्द्धिन्यै नमः । ॐ इतिहास-पुराणोक्तायै नमः । ॐ ईतिबाधा-निवारिण्यै नमः । ॐ उन्मत्तजन-दूरस्थायै नमः । ॐ ऊर्जितानन्द-दायिन्यै नमः । १०। ॐ ऋषिसङ्घ-सुसंवीतायै नमः । ॐ ऋणत्रय-विमोचनायै नमः । ॐ लुप्त-धर्म-जनोद्धारायै । ॐ लूनभाव-विवर्जितायै नमः । ॐ एधिताखिल-लोकश्रियै नमः । १५। ॐ ऐहिकामुष्मिक-प्रदायै नमः । ॐ ओङ्कारनाद-निनदायै नमः । ॐ ओषधीकृत-जीवनायै नमः । ॐ औदार्यगुण-निर्दिष्टायै नमः । ॐ औदासीन्य-निवारिण्यै नमः । २०। ॐ अन्तःकरण-संसेव्यायै नमः । ॐ अच्छ-स्वच्छ-जलाश्रयायै नमः । ॐ कपिलाख्य-नदी-स्निग्धायै नमः । ॐ करुणा-पूर्ण-मानसायै नमः । ॐ कावेरी-नाम-विख्यातायै नमः । २५। ॐ कामितार्थ-फल-प्रदायै नमः । ॐ कुम्भघोण-क्षेत्र-नाथायै नमः । ॐ कौतुकप्रथम-प्रभायै नमः । ॐ खगराज-रथोत्साह-रङ्गस्थल-सुशोभितायै नमः । ॐ खगावळि-समाक्रान्तकल्लोलावळिमण्डितायै नमः ३०। ॐ गजारण्य-सुविस्तीर्ण-प्रवाह-जनमोहिन्यै नमः । ॐ गायत्र्याख्य-शिला-मद्‍ध्यायै नमः । ॐ गरुडासन-भक्तिदायै नमः । ॐ घन-गम्भीर-निनाद-निर्जरप्राप्त-निर्झरायै नमः । ॐ चन्द्रपुष्कर-मध्यस्थायै नमः । ३५। ॐ चतुरानन-पुत्रिकायै नमः । ॐ चोलदेश-जनोद्धार-ग्रीष्मकाल-प्रवाहिन्यै नमः । ॐ चुञ्चक्षेत्र-समानीतायै नमः । ॐ छद्मदोष-निवारिण्यै नमः । ॐ जम्बूद्वीप-सरिच्छ्रेष्ठ-नदी-नद-गरीयस्यै नमः । ४०। ॐ झङ्कारनाद-संस्पृष्ट-षट्पदाळि-समाकुलायै नमः । ॐ ज्ञानैक-साधन-परायै नमः । ॐ ञप्तिमात्रर्ति-हारिण्यै नमः । ॐ टिट्टिभारावस-व्याज-दिविज-स्तुति-पात्रिण्यै नमः । ॐ ठङ्कारनाद-सम्भेद-झर्झरीकृत-पर्वतायै नमः । ४५। ॐ डाकिनी-शाकिनी-सङ्घनिवारण-सरित्तटायैनमः । ॐ ढक्का-निनादपारीण-पार्वतीश-समाश्रितायै नमः । ॐ णान्तवाच्य-द्विजाष्टाङ्गयोग-साधन-तत्परायै नमः । ॐ तरङ्गावळि-संविद्ध-मृदु-वालुक-शोभितायै नमः । ॐ तपस्विजन-सत्कार-निवेशित-शिलासनायै नमः । ५०। ॐ तापत्रय-तरून्मूल-गङ्गादिभिरभिष्टुतायै नमः । ॐ थान्त-प्रमथ-संसेव्य-साम्ब-सान्निध्य-कारिण्यै नमः । ॐ दया-दाक्षिण्य-सत्कारशील-लोक-सुभावितायै नमः । ॐ दाक्षिणात्य-जनोद्धार-निर्विचार-दयान्वितायै नमः । ॐ धन-मान-मदान्धादि-मर्त्य-निर्वर्तन-प्रियायै नमः । ५५। ॐ नमज्जनोद्धार-शीलायै नमः । ॐ निमज्जज्जन-पावनायै नमः । ॐ नागारिकेतु-निलयायै नमः । ॐ नाना-तीर्थाधि-देवतायै नमः । ॐ नारीजन-मनोल्लासायै नमः । ६०। ॐ नानारूप-फल-प्रदायै नमः । ॐ नारायण-कृपा-रूपायै नमः । ॐ नादब्रह्म-स्वरूपिण्यै नमः । ॐ पराभूत-समस्ताघायै नमः । ॐ पशु-पक्ष्यादि-जीवनायै नमः । ६५। ॐ पापतूलाग्नि-सदृशायै नमः । ॐ पापिष्ठजन-पावनायै नमः । ॐ फणीन्द्र-कीर्तित-कलायै नमः । ॐ फलदान-परायणायै नमः । ॐ बहुजन्म-तपो-योग-फलसम्प्राप्त-दर्शनायै नमः । ७०। ॐ बाहुरूप-द्विपार्श्वस्थ-स्वमातृक-जलार्थिनां-कळमक्षेत्र- शाल्यन्न-दान-निर्जित-वित्तपायै नमः । ॐ भगवत्कृत-सन्तोषायै नमः । ॐ भास्करक्षेत्र-गामिन्यै नमः । ॐ भागीरथी-समाक्रन्त-तुलामास-जलाश्रयायै नमः । ॐ मज्जद्दुर्जन-प्राग्जन्म-दुर्जयांहः प्रमार्जन्यै नमः । ७५। ॐ माघ-वैशाखादि-मास-स्नान-स्मरण-सौख्यदायै नमः । ॐ यज्ञ-दान-तपः-कर्मकोटि-पुण्य-फल-प्रदायै नमः । ॐ यक्ष-गन्धर्व-सिद्धाद्यैरभिष्टुत-पदद्वयायै नमः । ॐ रघुनाथ-पदद्वन्द्व-विराजित-शिलातलायै नमः । ॐ रामनाथपुरक्षेत्र-कामधेनु-समाश्रितायै नमः । ८०। ॐ लवोदक-स्पर्शमात्र-निर्वाण-पद-दायिन्यै नमः । ॐ लक्ष्मी-निवास-सदनायै नमः । ॐ ललना-रत्न-रूपिण्यै नमः । ॐ लघूकृत-स्वर्ग-भोगायै नमः । ॐ लावण्य-गुण-सागरायै नमः । ८५। ॐ वह्निपुष्कर-सान्निद्‍ध्यायै नमः । ॐ वन्दिताखिल-लोकपायै नमः । ॐ व्याघ्रपाद-क्षेत्र-परायै नमः । ॐ व्योमयान-समावृतायै नमः । ॐ षट्काल-वन्द्य-चरणायै नमः । ९०। ॐ षट्कर्म-निरत-प्रियायै नमः । ॐ षडास्य-मातृ-संसेव्यायै नमः । ॐ षडूर्मि-जित-सोर्मिकायै नमः । ॐ सकृत्स्मरण-संशुद्ध-तापत्रय-जनाश्रितायै नमः । ॐ सज्जनोद्धार-सन्धानसमर्थ-स्व-प्रवाहिन्यै नमः । ९५। ॐ सरस्वत्यादि-देवीभिरभिवन्दित-निर्झरायै नमः । ॐ सह्यशैल-समुद्भूतायै नमः । ॐ सह्यासह्य-जन-प्रियायै नमः । ॐ सङ्गमक्षेत्र-सामीप्यायै नमः । ॐ स्ववशार्थ-चतुष्टयायै नमः । १००। ॐ सौभरिक्षेत्र-निलयायै नमः । ॐ सौभाग्य-फल-दायिन्यै नमः । ॐ संशयाविष्ट-दूरस्थायै नमः । ॐ साङ्गोपाङ्ग-फलोदयायै नमः । ॐ हरि-ब्रह्मेशलोकेश-सिद्धबृन्दार-वन्दितायै नमः । १०५। ॐ क्षेत्र-तीर्थादि-सीमान्तायै नमः । ॐ क्षपानाथ-सुशीतळायै नमः । ॐ क्षमातलाखिलानन्द-क्षेम-श्री-विजयावहायै नमः । १०८। ॥ इति श्रीकावेरी अष्टोत्तरशतनामावळिः ॥

उत्तराङ्गपूजा ।

धूपम् । रङ्गत्रयोत्सङ्गविराजमाने ब्रह्माद्रिकूटाश्रिततीर्थगर्भे । समस्तसिद्धाश्रमरम्यतीर्थे कावेरिकावेरि मम प्रसीद ॥ दशाङ्गोगुग्गुळोपेतस्सुगन्धोघ्राणतर्पणः । मरुद्वृधेऽम्बकावेरि धूपोयन्ते समर्पितः ॥ दीपम् । तुलागतेर्केतटिनि वराभिर्गङ्गादिभिस्सेवितपादपद्मे । त्रिकोटितीर्थाश्रम पुष्कराढ्ये कावेरिकावेरि मम प्रसीद ॥ आपोज्योतिस्त्वमस्यम्ब कुम्भसम्भवतेजसा । तेजःप्रदात्रि कावेरि दीपोयं प्रतिगृह्यताम् ॥ नैवेद्यम् । पाणीयम् । आपोशनम् । ददासि तुल्याभिरनर्घधान्यान्यशेषचोळीयजनस्यदेवि । भुक्तिप्रदेमुक्तिविधानदक्षे कावेरिकावेरि मम प्रसीद ॥ अन्नं चतुर्विधं रुच्यं शाकव्यञ्जन संयुतम् । सफलं सघृतं भुङ्क्ष्व कावेरि तटितां वरे ॥ फलेति ताम्बूलम् । निजाभिधानश्रवणादृतानां निश्शेषपापक्षयकारिणीत्वम् । निदाघतृष्णादि निरास दक्षे कावेरिकावेरि मम प्रसीद ॥ नीराजनम् । पराशरागस्त्यवसिष्ठमुख्यैर्महर्षिभिर्मान्यतपोभिरम्ब । त्वमाश्रिताकर्मठसिद्धिहेतुः कावेरिकावेरि मम प्रसीद ॥ सर्वतीर्थैस्तुलामासे त्वन्नीराजनपादुका । नीराजयामि भक्त्यात्वां कावेर्यम्बमरुद्वृधे ॥ प्रदक्षिणम् । मायूरमद्‍ध्यार्जुनकुम्भघोणश्रीरङ्गचुञ्चुस्थलघट्टगात्वम् । सस्योद्भवे सिन्धुयुते स्वतन्त्रे कावेरिकावेरि मम प्रसीद ॥ प्रदक्षिणं करोमित्वां पुरुषार्थप्रदायिनि । दक्षिणावर्तकश्रीनिवासप्रीते मरुद्वृधे ॥ नमस्कारान् । ब्रह्मादिभिर्देववरैस्त्रिसन्ध्यं वसिष्ठपूर्वैर्मुनिभिर्वरिष्ठैः । नित्यं गजारण्यगतैर्निषेव्ये कावेरिकावेरि मम प्रसीद ॥ नमस्ते तटितां मुख्ये निगमागम संस्तुते । पाहिपाह्यम्ब कावेरि प्रपन्नं मां कृपादृशा ॥ सुवासिनीभ्यः वायनदानानि । सुवासिनीनाञ्च निजाश्रितानां पतिप्रियत्वञ्च सुतादिवर्गम् । दास्यस्युदारं बहुभोगभाग्यं कावेरिकावेरि मम प्रसीद ॥ निजप्रवाहाप्रवलब्धपुण्यप्रसिद्धसत्कर्मफलोदयेन । नृणामभीष्टार्थविधायिनीत्वं कावेरिकावेरि मम प्रसीद ॥ पापक्षयं पारिशुध्यमायुरारोग्यमेवच । सौभाग्यमपिसन्तानं ज्ञानं देहि मरुद्वृधे ॥ इति सम्प्रार्थ्य ॥ छत्रचामरादिनासम्पूज्य विसर्जयेत् ॥ ॥ इति व्रतचूडामणौ कावेरी पूजाविधिः ॥